संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| संविद्व्यतिक्रमप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - संविद्व्यतिक्रमप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः संविद्व्यतिक्रमप्रकरणम् Translation - भाषांतर राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतां इति ॥२.१८५॥ निजधर्माविरोधेन यस्तु समयिको भवेत् ।सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥२.१८६॥ गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥२.१८७॥ कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥२.१८८॥ समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् ।स दानमानसत्कारैः पूजयित्वा महीपतिः ॥२.१८९॥ समूहकार्यप्रहितो यल्लभेत तदर्पयेत् ।एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्वयम् ॥२.१९०॥ धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥२.१९१॥ श्रेणिनैगमपाखण्ड गणानां अप्ययं विधिः ।भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥२.१९२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP