संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| साहसप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - साहसप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः साहसप्रकरणम् Translation - भाषांतर सामान्यद्रव्यप्रसभ हरणात्साहसं स्मृतम् ।तन्मूल्याद्द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥२.२३०॥ यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।यश्चैवं उक्त्वाहं दाता कारयेत्स चतुर्गुणम् ॥२.२३१॥ अर्घ्याक्षेपातिक्रमकृद्भ्रातृभार्याप्रहारकः ।संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥२.२३२॥ सामन्तकुलिकादीनां अपकारस्य कारकः ।पञ्चाशत्पणिको दण्ड एषां इति विनिश्चयः ॥२.२३३॥ स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः ।अकारणे च विक्रोष्टा चण्डालश्चोत्तमान्स्पृशेत् ॥२.२३४॥ शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥२.२३५॥ वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।साधारणस्यापलापी दासीगर्भविनाशकृत् ॥२.२३६॥ पितृपुत्रस्वसृभातृ दंपत्याचार्यशिष्यकाः ।एषां अपतितान्योन्य त्यागी च शतदण्डभाक् ॥२.२३७॥ वसानस्त्रीन्पणान्दण्ड्यो नेजकस्तु परांशुकम् ।विक्रयावक्रयाधानयाचितेषु पणान्दश ॥२.२३८॥ पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥२.२३९॥ तुलाशासनमानानां कूटकृन्नाणकस्य च ।एभिश्च व्यवहर्ता यः स दाप्यो दमं उत्तमम् ॥२.२४०॥ अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥२.२४१॥ भिषङ्मिथ्याचरन्दण्ड्यस्तिर्यक्षु प्रथमं दमम् ।मानुषे मध्यमं राज पुरुषेषूत्तमं दमम् ॥२.२४२॥ अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति ।अप्राप्तव्यवहारं च स दाप्यो दमं उत्तमम् ॥२.२४३॥ मानेन तुलया वापि योऽंशं अष्टमकं हरेत् ।दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥२.२४४॥ भेषजस्नेहलवण गन्धधान्यगुडादिषु ।पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश ॥२.२४५॥ मृच्चर्ममणिसूत्रायः काष्ठवल्कलवाससाम् ।अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥२.२४६॥ समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् ।आधानं विक्रयं वापि नयतो दण्डकल्पना ॥२.२४७॥ भिन्ने पणे च पञ्चाशत् पणे तु शतं उच्यते ।द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥२.२४८॥ संभूय कुर्वतां अर्घं संबाधं कारुशिल्पिनाम् ।अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥२.२४९॥ संभूय वणिजां पण्यं अनर्घेणोपरुन्धताम् ।विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥२.२५०॥ राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत्स्मृतः ॥२.२५१॥ स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् ।दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥२.२५२॥ पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।अर्घोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च ॥२.२५३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP