संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
वेतनादानप्रकरणम्

व्यवहाराध्यायः - वेतनादानप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


गृहीतवेतनः कर्म त्यजन्द्विगुणं आवहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥२.१९३॥

दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥२.१९४॥

देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा ।
तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥२.१९५॥

यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥२.१९६॥

अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥२.१९७॥

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिं अर्धपथे सर्वां प्रदाप्यस्त्याजकोऽपि च ॥२.१९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP