संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
अस्वामिविक्रयप्रकरणम्

व्यवहाराध्यायः - अस्वामिविक्रयप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥२.१६८॥

नष्टापहृतं आसाद्य हर्तारं ग्राहयेन्नरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयं अर्पयेत् ॥२.१६९॥

विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यं अवाप्नोति तस्माद्यस्तस्य विक्रयी ॥२.१७०॥

आगमेनोपभोगेन नष्टं भाव्यं अतोऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ॥२.१७१॥

हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥२.१७२॥

शौल्किकैः स्थानपालैर्वा नष्टापहृतं आहृतम् ।
अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥२.१७३॥

पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादं अजाविके ॥२.१७४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP