संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
वाक्पारुष्यप्रकरणम्

व्यवहाराध्यायः - वाक्पारुष्यप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥२.२०४॥

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥२.२०५॥

अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु च ।
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥२.२०६॥

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानां आनुलोम्येन तस्मादर्धार्धहानितः ॥२.२०७॥

बाहुग्रीवानेत्रसक्थि विनाशे वाचिके दमः ।
सत्यस्तदर्धिकः पाद नासाकर्णकरादिषु ॥२.२०८॥

अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥२.२०९॥

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥२.२१०॥

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥२.२११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP