संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| स्त्रीसंग्रहणप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - स्त्रीसंग्रहणप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः स्त्रीसंग्रहणप्रकरणम् Translation - भाषांतर पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयोस्तथा ॥२.२८३॥ नीवीस्तनप्रावरण सक्थिकेशावमर्शनम् ।अदेशकालसंभाषं सहैकासनं एव च ॥२.२८४॥ स्त्री निषेधे शतं दद्याद्द्विशतं तु दमं पुमान् ।प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥२.२८५॥ सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥२.२८६॥ अलंकृतां हरन्कन्यां उत्तमं ह्यन्यथाधमम् ।दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥२.२८७॥ सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः ।दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥२.२८८॥ शतं स्त्रीदूषणे दद्याद्द्वे तु मिथ्याभिशंसने ।पशून्गच्छन्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥२.२८९॥ अवरुद्धासु दासीसु भुजिष्यासु तथैव च ।गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥२.२९०॥ प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ॥२.२९१॥ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् ।अगृहीते समं दाप्यः पुमानप्येवं एव हि ॥२.२९२॥ अयोनौ गच्छतो योषां पुरुषं वाभिमेहतः ।चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ॥२.२९३॥ अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत् ।शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः ॥२.२९४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP