संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| दण्डपारुष्यप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - दण्डपारुष्यप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः दण्डपारुष्यप्रकरणम् Translation - भाषांतर असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च ।द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ॥२.२१२॥ भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।अमेध्यपार्ष्णिनिष्ठ्यूत स्पर्शने द्विगुणस्ततः ॥२.२१३॥ समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।हीनेष्वर्धदमो मोह मदादिभिरदण्डनम् ॥२.२१४॥ विप्रपीडाकरं छेद्यं अङ्गं अब्राह्मणस्य तु ।उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥२.२१५॥ उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥२.२१६॥ पादकेशांशुककरोल् लुञ्चनेषु पणान्दश ।पीडाकर्षांशुकावेष्ट पादाध्यासे शतं दमः ॥२.२१७॥ शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः ।द्वात्रिंशतं पणान्दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥२.२१८॥ करपाददतो भङ्गे छेदने कर्णनासयोः ।मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥२.२१९॥ चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥२.२२०॥ एकं घ्नतां बहूनां च यथोक्ताद्द्विगुणो दमः ।कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ॥२.२२१॥ दुःखं उत्पादयेद्यस्तु स समुत्थानजं व्ययम् ।दाप्यो दण्डं च यो यस्मिन्कलहे समुदाहृतः ॥२.२२२॥ अभिघाते तथा छेदे भेदे कुड्यावपातने ।पणान्दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥२.२२३॥ दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् ॥२.२२४॥ दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥२.२२५॥ लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यं एव च ।महापशूनां एतेषु स्थानेषु द्विगुणो दमः ॥२.२२६॥ प्ररोहिशाखिनां शाखा स्कन्धसर्वविदारणे ।उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः ॥२.२२७॥ चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥२.२२८॥ गुल्मगुच्छक्षुपलता प्रतानौषधिवीरुधाम् ।पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने ॥२.२२९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP