संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| सीमाविवादप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - सीमाविवादप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः सीमाविवादप्रकरणम् Translation - भाषांतर सींनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥२.१५०॥ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।सेतुवल्मीकनिंनास्थि चैत्याद्यैरुपलक्षिताम् ॥२.१५१॥ सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा ।रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥२.१५२॥ अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।अभावे ज्ञातृचिह्नानां राजा सींनः प्रवर्तिता ॥२.१५३॥ आरामायतनग्राम निपानोद्यानवेश्मसु ।एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु ॥२.१५४॥ मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥२.१५५॥ न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः ।परभूमिं हरन्कूपः स्वल्पक्षेत्रोबहूदकः ॥२.१५६॥ स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥२.१५७॥ फालाहतं अपि क्षेत्रं न कुर्याद्यो न कारयेत् ।स प्रदाप्यः कृष्टफलं क्षेत्रं अन्येन कारयेत् ॥२.१५८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP