संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण १२ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण १२ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण १२ Translation - भाषांतर इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतं ॥१२.१॥स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सोऽध्वना ॥१२.२॥हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया ।सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥१२.३॥शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव ।व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥१२.४॥उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनं ॥१२.५॥स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः ।वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥१२.६॥अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥१२.७॥गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया ।कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव ॥१२.८॥उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके ।अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थतां ॥१२.९॥नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥१२.१०॥नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥१२.११॥प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशं ।मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना ॥१२.१२॥समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृतां ॥१२.१३॥कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति ।खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥१२.१४॥मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितं ।तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ॥१२.१५॥अन्वेतुकामोऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः ।स्थूलोच्चयेनागमदन्तिकगतां गजोऽग्रयाताग्रकरः करेणुकां ॥१२.१६॥यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः ।अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥१२.१७॥ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः ।भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ॥१२.१८॥तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि ।आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवथ् ॥१२.१९॥व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः ।वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ॥१२.२०॥पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः ।भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥१२.२१॥दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ।पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥१२.२२॥भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि ।अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥१२.२३॥त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥१२.२४॥स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे ।आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥१२.२५॥धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि ।स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥१२.२६॥भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः ॥१२.२७॥वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः ।व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे ॥१२.२८॥तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥१२.२९॥तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषितां ।त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥१२.३०॥निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः ।उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥१२.३१॥अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥१२.३२॥शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी ॥१२.३३॥आगच्छतोऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः ।दूरापवर्तितभारवाहणाः पथोऽपस्रुस्त्वरितं चमूचराः ॥१२.३४॥ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झित गोत्रसंविदः ।श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ॥१२.३५॥निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिं ।ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः ॥१२.३६॥कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥१२.३७॥गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ॥१२.३८॥पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णतां ।एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥१२.३९॥प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः ।वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥१२.४०॥अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः ।वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत ग्ॐअततल्लिकां ॥१२.४१॥स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियां ।कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥१२.४२॥व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ ।गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयथ् ॥१२.४३॥लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादक्ॐअलः ।शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥१२.४४॥उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः ।एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥१२.४५॥प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति ।सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयथ् ॥१२.४६॥दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः ।तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः ॥१२.४७॥श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥१२.४८॥भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः ।पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥१२.४९॥आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥१२.५०॥शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः ।तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥१२.५१॥सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः ।सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥१२.५२॥उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसां ।नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृतां ॥१२.५३॥श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते ।क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥१२.५४॥नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा ।संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥१२.५५॥प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि ।साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥१२.५६॥स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ।अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥१२.५७॥यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः ।क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कतां ॥१२.५८॥रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥१२.५९॥रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः ।कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥१२.६०॥पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजां ।दूरेऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ॥१२.६१॥स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ॥१२.६२॥प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः ।नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥१२.६३॥वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे ।गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनोऽलयः ॥१२.६४॥आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः ।दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥१२.६५॥उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः ।आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः ॥१२.६६॥या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥१२.६७॥यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः ॥१२.६८॥व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तथ् ॥१२.६९॥अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः ।सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥१२.७०॥लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः ।नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥१२.७१॥तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥१२.७२॥प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ।उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥१२.७३॥तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीं ।शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मतां ॥१२.७४॥सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः ।सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥१२.७५॥अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः ।नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥१२.७६॥विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै-रलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः ।सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डल-स्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी ॥१२.७७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP