संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण १९ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण १९ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण १९ Translation - भाषांतर अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥१९.१॥आपतन्तममुन्दूरादूरीकृतपराक्रमः ।बलोऽवलोकयामास मातङ्गमिव केसरी ॥१९.२॥जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुथ् ।भाभोऽभीभाभिभूभारारारिररिरीररः ॥१९.३॥भवन्भवाय लोकानामाकम्पितमहीतलः ।निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥१९.४॥रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।कोपादथैनं शितमा महेष्वा स विचक्षणे ॥१९.५॥दिशमर्कमिवावाचीं मूर्च्छागतमपाहरथ् ।मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥१९.६॥कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जितां ।ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जितां ॥१९.७॥उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदं ।तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥१९.८॥पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः ।तयैव वाचापगमं ययाचापमुदायुधः ॥१९.९॥समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥१९.१०॥दधानैर्घनसादृश्यं लसदायसदंशनैः ।तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥१९.११॥नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखां ॥१९.१२॥प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥१९.१३॥कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनं ॥१९.१४॥याबभार कृतानेकमाया सेना ससारतां ।धनुः स कर्षन्रहितमायासेनाससार तां ॥१९.१५॥ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यतां ॥१९.१६॥दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥१९.१७॥निपीड्य तरसा तेन मुक्ताः काममनास्थया ।उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥१९.१८॥तस्यावदानैः समरे सहसा र्ॐअहर्षिभिः ।सुरैरशंसि व्य्ॐअस्थैः सह सारो महर्षिभिः ॥१९.१९॥सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥१९.२०॥सोढुं तस्य द्विषो नालमवयोधरवा रणं ।ऊर्णुनाव यशश्च द्यामपयोधरवारणं ॥१९.२१॥केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥१९.२२॥सादरं युद्धमानापि तेनान्यनरसादरं ।सा दरं पृतना निन्ये हीयमाना रसादरं ॥१९.२३॥इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजं ।क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥१९.२४॥अहितानभि वाहिन्या स मानी चतुरङ्गया ।चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥१९.२५॥ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः ।तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥१९.२६॥सकारनानारकास कायसाददसायका ।रसाहवावाहसार नादवाददवादना ॥१९.२७॥लोलासिकालियकुला यमस्यैव स्वसा स्वयं ।चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायतां ॥१९.२८॥सासेनागमनारम्भे रसेनासीदनारता ।तारनादजनामत्त धीरनागमनामया ॥१९.२९॥धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृतां ।शौर्यनुरागनिकषः सा हि वेलानुजीविनां ॥१९.३०॥दिवमिन्युधा गन्तुं क्ॐअलामलसम्पदं ।दधौ दधानोऽसिलतां कोऽमलामलसम्पदं ॥१९.३१॥कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरं ॥१९.३२॥वाहनाजनि मानासे साराजावनमा ततः.मत्तसारगराजेभे भारीहावज्जनध्वनि ॥१९.३३॥निध्वनज्जवहारीभा भेजे रागरसात्तमः ।ततमानवजारासा सेना मानिजनाहवा ॥१९.३४॥अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥१९.३५॥करेणुः प्रम्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥१९.३६॥धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥१९.३७॥न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥१९.३८॥बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥१९.३९॥नानाजाववजानाना सा जनौघघनौजसा ।परानिहऽहानिराप तान्वियाततयान्विता ॥१९.४०॥विषमं सर्वतोभद्रचक्रग्ॐऊत्रिकादिभिः ।श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलं ॥१९.४१॥संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥१९.४२॥विस्तीर्णमायामवती लोललोकनिरन्तरा ।नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलं ॥१९.४३॥वारणागगभीरा सा साराभीगगणारवा ।कारितारिवधा सेना नासेधा वारितारिका ॥१९.४४॥अधिनागं प्रजविनो विकसत्पिच्छचारवः ।पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥१९.४५॥प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः ।ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥१९.४६॥पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥१९.४७॥केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥१९.४८॥विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचिथ् ॥१९.४९॥अन्येन विदधेऽरीणामतिमात्रा विलासिना ।उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥१९.५०॥सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः ।तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियां ॥१९.५१॥शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥१९.५२॥द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ।सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥१९.५३॥भीमतामपरोऽम्भोधिसमेऽधित महाहवे ।दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥१९.५४॥दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥१९.५५॥रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥१९.५६॥यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।अमर्षादितरैस्तावत्तत्यजे युधि जीवितं ॥१९.५७॥अयशोभिदुरालोके कोपधाम-रणादृते ।अयशोभिदुरा लोके कोपधा मरणादृते ॥१९.५८॥स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥१९.५९॥अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।आप दिव्या पृतनया विस्मयं जनता यथा ॥१९.६०॥स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥१९.६१॥वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥१९.६२॥पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥१९.६३॥रक्तश्रुतिं जपासूनसमरागामिषुव्यधाथ् ।कश्चित्पुरः सपत्नेषु समरागमिषुव्यधाथ् ॥१९.६४॥रयेण रणकाम्यन्तौ दूरादुपगतविभौ ।गतासुरन्तरा दन्ती वरण्डक इवाभवथ् ॥१९.६५॥भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥१९.६६॥निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥१९.६७॥निपीडनादिव मिथो दानतोयनारतं ।वपुषामदयापातादिभानामभितोऽगलथ् ॥१९.६८॥रणाङ्गणं सर इव प्लावितं मदवारिभिः ।गजः पृथुकराकृष्टशतपत्रमलोडयथ् ॥१९.६९॥शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥१९.७०॥अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥१९.७१॥अभीकमतिकेनेद्धे भीतानन्दस्यनाशने ।कनत्सकामसेनाके मन्दकामकमस्यति ॥१९.७२॥दधतोऽपि रणे भीममभीक्ष्णं भावमासुरं ।हताः परैरभिमुखाः सुरभूयमुपाययुः ॥१९.७३॥येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः ।समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥१९.७४॥निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलं ।पाणिनीयमिवावलोकि धीरैस्तत्समराजिरं ॥१९.७५॥अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥१९.७६॥विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥१९.७७॥असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनं ।रक्षःपिशाचं मुमुदे नवमज्जवसादनं ॥१९.७८॥चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदं ।पयोदजालमिव तद्वीराशंसनमाबभौ ॥१९.७९॥बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥१९.८०॥कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनां ।क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥१९.८१॥युद्धमित्थं विधूतान्यमानवानभियो गतः ।चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥१९.८२॥अथ वक्ष्ॐअणिच्छायाच्छुरितापीतवाससा ।स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥१९.८३॥नीलेनानालनलिननिलीनोल्ललनालिना ।ललनालालनेनालं लीलालोलेन लालिना ॥१९.८४॥अपूर्वयेव तत्कालसमागमसकामया ।दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥१९.८५॥विभावी विभवी भाभो विभाभावी विवो विभीः ।भवाभिभावी भावावो भवाभावो भुवो विभुः ॥१९.८६॥उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥१९.८७॥तं श्रिया घनयानस्तरुचा सारतया तया ।यातया तरसा चारुस्तनयानघया श्रितं ॥१९.८८॥विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।अरुच्यमपि रोगघ्नं निसर्गादेव भेषजं ॥१९.८९॥विदितं दिवि केऽनीके तं यातं निजिताजिनि ।विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥१९.९०॥नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमथ् ॥१९.९१॥तत्र बाणाः सुपरुषः समधीयन्त चारवः ।द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥१९.९२॥पश्चात्कृतानामप्यस्य नराणामिव पत्रिणां ।योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥१९.९३॥प्रपे रूपी पुरारेपाः परिपूरी परः परैः ।रोपैरपारैरुपरि पुपूरेऽपि पुरोऽपरैः ॥१९.९४॥दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥१९.९५॥शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥१९.९६॥न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥१९.९७॥लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥१९.९८॥अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥१९.९९॥वररोऽविवरो वैरिविवारी वारिरारवः ।विववार वरो वैरं वीरो रविरिवौर्वरः ॥१९.१००॥मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।तदीयं धनुरन्यस्य न हि सेहे सजीवतां ॥१९.१०१॥राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः ।रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥१९.१०२॥उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥१९.१०३॥क्रूरारिकारि कीरेककारकः कारिकाकरः ।कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥१९.१०४॥विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ।अनेकमरिसंघातमकरोद्भूमिवर्धनं ॥१९.१०५॥दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥१९.१०६॥एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥१९.१०७॥शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥१९.१०८॥व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥१९.१०९॥नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटं ।अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥१९.११०॥आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनं ॥१९.१११॥भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥१९.११२॥मांसव्यधोचितमुखैः शून्यतां दधदक्रियं ।शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥१९.११३॥दाददो दद्ददुद्दादी दादादो दूददीददोः ।दुद्दादं दददे दुद्दे ददाददददोऽददः ॥१९.११४॥प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥१९.११५॥सदामदबलप्रायः समुद्धृरसो बभौ ।प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥१९.११६॥द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥१९.११७॥सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।महो दधेऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तं ॥१९.११८॥इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेरेत्याध्ॐउख्यं प्रविशन्भूमिमाशु ।शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपं ॥१९.११९॥सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥१९.१२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP