शिशुपालवधम्‌ - प्रकरण ६

संस्कृत महाकवी माघ रचित शिशुपालवधम्‍ काव्य वाचल्याने साक्षात्‍ महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो.


अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥६.१॥

नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजं ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ॥६.२॥

विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजं ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥६.३॥

तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥६.४॥

स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥६.५॥

स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशं ॥६.६॥

रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ॥६.७॥

प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ॥६.८॥

मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥६.९॥

समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥६.१०॥

इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥६.११॥

सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न स्ॐअनसौ मनसो मुदे ॥६.१२॥

इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥६.१३॥

वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ॥६.१४॥

अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥६.१५॥

कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥६.१६॥

रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥६.१७॥

त्यजति कष्टामसावचिरादसून्विरहवेदनयेत्यघशङ्गिभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥६.१८॥

न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥६.१९॥

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥६.२०॥

अरुणिताखिशैलवना मुहुर्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियं ॥६.२१॥

रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥६.२२॥

दलितक्ॐअलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥६.२३॥

निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥६.२४॥

स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरं ॥६.२५॥

गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥६.२६॥

अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकं ।
धुततनुर्वलयस्य पय्ॐउचः शबलिमा बलिमानमुषो वपुः ॥६.२७॥

द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥६.२८॥

पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥६.२९॥

प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥६.३०॥

जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकं ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥६.३१॥

नवकदम्बजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥६.३२॥

शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसां ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥६.३३॥

द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकं ।
घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतं ॥६.३४॥

दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनां ॥६.३५॥

नवपयःकणक्ॐअलमालतीकुसुमसंततिसंततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजोऽलिभिराददे ॥६.३६॥

निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥६.३७॥

प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥६.३८॥

विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥६.३९॥

अरमयन्भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥६.४०॥

ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायितां ।
जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ॥६.४१॥

स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङगगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ॥६.४२॥

जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु  नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ॥६.४३॥

समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणां ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयतां ॥६.४४॥

तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ॥६.४५॥

अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
विकचबाणवलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥६.४६॥

कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥६.४७॥

मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥६.४८॥

विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजं ।
श्रुततदीरितक्ॐअलगीतकध्वनिमिषेऽनिमेषेक्षणमग्रतः ॥६.४९॥

कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजं ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ॥६.५०॥

विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥६.५१॥

विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवां ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपथ् ॥६.५२॥

हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥६.५३॥

स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवं ।
अकलयन्मुदितामिव सर्वतः स शरदन्तुरदिह्मुखां ॥६.५४॥

गजद्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥६.५५॥

इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा ।
स्मृसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः ॥६.५६॥

प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तं ।
श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥६.५७॥

भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥६.५८॥

व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।
स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥६.५९॥

धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥६.६०॥

हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ.
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥६.६१॥

कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।
उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥६.६२॥

उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरोऽभवथ् ॥६.६३॥

अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥६.६४॥

शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान्प्रियाः ॥६.६५॥

अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ॥६.६६॥

अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।
तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥६.६७॥

नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।
चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारं ॥६.६८॥

जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥६.६९॥

स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशं ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यं ॥६.७०॥

वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥६.७१॥

मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥६.७२॥

कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥६.७३॥

अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥६.७४॥

स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥६.७५॥

जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकुरुतेन ।
तत्सम्पर्क प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ॥६.७६॥

कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोपितेन ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोपितेन ॥६.७७॥

गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥६.७८॥

कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैविराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौविहर्तु
बिभ्रत्यचोदि स मयूरगिरा विहर्तुं ॥६.७९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP