संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण ८ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण ८ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण ८ Translation - भाषांतर आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ॥८.१॥यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि.संसक्तैविपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्बभूव वर्त्म ॥८.२॥नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥८.३॥एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावरणत्वं ।सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार ॥८.४॥स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिवारितातपायाः ।सच्छत्रादपरविलासिनीसमूहच्छायासीदधिकतरा तदापरस्याः ॥८.५॥संस्पर्शसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः ।कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥८.६॥गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।बुद्ध्वा वा जितमपरेण काममाष्कुर्वीत स्वगुणमपत्रपः क एव ॥८.७॥श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः ।पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥८.८॥मुक्ताभिः सलिलरयास्तशुक्तिमुक्ताभिः कृतरुचि सैकतं नदीनां ।स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥८.९॥आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानां ।आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ॥८.१०॥आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥८.११॥आलापैस्तुलितरवाणि माधवीनां माधुर्यादमलपतत्रिणां कुलानि ।अन्तर्धामुपययुरुत्पलावलीषु प्रादुष्कात्क इव जितः पुरः परेण ॥८.१२॥मुग्धायाः स्मरललितेषु चक्रवाक्या निशङ्कं दयिततमेन चुम्बितायाः ।प्रणेशानभि विदधुर्वधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥८.१३॥उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्तो ।नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥८.१४॥नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः ।व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥८.१५॥आस्कन्दन्कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः ।औत्सुक्यात्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ॥८.१६॥ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः ।कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलमनुरञ्जयांबभू ॥८.१८॥संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषां ॥८.१७॥आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरुवतिरुतं सरस्यनिच्छुः ।धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ॥८.१९॥नेच्छन्ती सममुना सरोऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः ।आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ॥८.२०॥तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनोऽपि ।अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ॥८.२१॥आनाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।उच्छ्रायिस्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथवाव्यवस्था ॥८.२२॥कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥८.२३॥त्रस्यन्ती चलशफरीविघट्टितोरूवामोरूरतिशयमाप विभ्रमस्य ।क्षुभ्यन्ति पसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥८.२४॥आकृष्टवपुर्लतैस्तरदभिस्तस्याम्भस्तदथ सर्ॐअहार्णवस्य ।अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणांमुरुभिरुरोजगणडस्शैलैः ॥८.२५॥गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः ।अम्भोधिविकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ॥८.२६॥आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः ।कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान्सरसि रराज केशहस्तः ॥८.२७॥उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥८.२८॥किं तावत्सरसि सरोजमेतदाहोस्विन्मुखमवभासते युवत्याः ।संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्योकैर्बकसहवासिनां परोक्षैः ॥८.२९॥शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गिवासः ।मार्द्वीकं प्रयतमसन्निधानंमासन्नारीणामिति जलकेलिसाधनानि ॥८.३०॥उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणां ।श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्तयस्तोयेषु द्रुततरमङ्गना निपेतुः ॥८.३१॥मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः ।ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥८.३२॥योग्यस्य त्रिनयनलोचनार्चिर्निदग्धस्मरपूतनाधिराज्यलक्ष्म्याः ।कान्तायाः करकलशोद्यतैः पयोभिरवक्त्रेन्दोरकृतमहाभिषेकमेकः ॥८.३३॥शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः ।सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ॥८.३४॥स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव ।कन्दर्पप्रवणमानाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ॥८.३५॥आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितमजायतेतरस्याः ॥८.३६॥उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।अम्भोभिर्मुहुरसिचद्वधूरमर्षदात्मीयं पृथुतरनेत्रयुगममुक्तैः ॥८.३७॥कुर्वद्भिमुखरुचिमुज्जवलामजस्रं यैस्तोयैरसिचत वल्लभां विलासी ।तैरेव प्रतियुवतेरकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥८.३८॥रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण ।मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ॥८.३९॥प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा ।उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनामधाक्षुः ॥८.४०॥संक्रान्तं प्रियतमवक्षसोऽङ्गरागंसाध्वस्याः सरसि हरिष्यतेऽधुनाम्भः ।तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥८.४१॥हृतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुमीषिरे पयांसि ॥८.४२॥सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।कालिम्ना समधित मन्.रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥८.४३॥उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।आरूढप्रतिवनिताकटाक्षभारः साधीयो गुररभवद्भुजस्तरुण्याः ॥८.४४॥आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजां ।नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वं ॥८.४५॥पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखात्वं ॥८.४६॥नारीभिर्गुरुजघनस्थलानां आस्यश्रीविजितविकासिवारिजानां ।लोलत्वादपहरतां तदङ्गरागसंजज्ञे स कलुष आशयो जलानां ॥८.४७॥सौगन्धं दधदपि काममङ्गनानां दूरत्वाद्गतमाननोपमानं ।नेदीयो जितमिति लज्जयेव तासामालोले पयसि मनोत्पलं ममज्ज ॥८.४८॥प्रभ्रष्टै सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः ।आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥८.४९॥आस्माकी युवतिदृशामसौ तनोति च्छायेव श्रियमनपायिनीं किमेभिः ।मत्वैवं स्वगुणपिधानसाभ्यसूयैः पनीयैरिति विदधाविरेऽञ्जनानि ॥८.५०॥निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः ।अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ॥८.५१॥अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा ।प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ॥८.५२॥स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ ।हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥८.५३॥आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति ।कर्णेभ्यश्च्युतमसितोल्पलं वधूनां वीचिभिस्तटमनु यन्निरासुरापः ॥८.५४॥दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्गाः ।आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥८.५५॥कस्याश्चिनमुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।किञ्चल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥८.५६॥वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः ।नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥८.५७॥यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषां ।धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ॥८.५८॥फेनानामुरसिरुहेषु हारलीला चेलश्रीर्जघनस्थलेषु शैवलानां ।गण्डेषु स्फुटरचनाब्जपत्र्त्रवल्ली पर्याप्तं पयसि विभूषणं वधूनां ॥८.५९॥भ्रश्द्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।निर्माल्यैरथ ननृतेऽवधीरितानामप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यं ॥८.६०॥आमृष्टस्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोङ्गरागः ।कामः स्त्रीरनुशायवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ॥८.६१॥शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन ।रामाणामभिनवयौवनोष्मभाजोराश्लेषि स्तनतटयोर्नवंशुकेन ॥८.६२॥श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यन्तनुमदिवाम्बु वाससोऽन्तैः ।उत्तेरे तरलतरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ॥८.६३॥दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्तां ।उद्वीक्ष्यश्रियमिव काञ्चिदुत्तरन्तींमस्मार्षीज्जलनिधिमन्मथनस्य शौरिः ॥८.६४॥श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुकसेकसक्तमूर्वोः ।नारीणां विमलतरौ समुल्लसन्त्या भासन्तर्दधतुरुरूदुकूलमेव ॥८.६५॥वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ॥८.६६॥आर्द्रत्वदतिशायिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोवधूतैः ।अङ्गेभ्यः कथमपि वामलोचनां विश्लेषो बत नवरक्तकैः प्रपेदे ॥८.६७॥प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत्किलैका ।नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तथ् ॥८.६८॥सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा ।भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ॥८.६९॥स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो व्लासिनीनां ।वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥८.७०॥इति धौतपुरन्ध्रिमत्सरान्सरसिमज्जनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ।अवलोक्य तदैव यादवानपरवारिराशेः शिसिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ॥८.७१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP