शिशुपालवधम्‌ - प्रकरण १५

संस्कृत महाकवी माघ रचित शिशुपालवधम्‍ काव्य वाचल्याने साक्षात्‍ महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो.


अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनां ॥१५.१॥

पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥१५.२॥

अभितर्जयन्निव समस्तनृपगणमसावकम्पयथ् ।
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥१५.३॥
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥१५.४॥

स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥१५.५॥

क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदं ॥१५.६॥

कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गतां ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलं ॥१५.७॥

कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननं ॥१५.८॥

अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥१५.९॥

करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशं ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥१५.१०॥

इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियं ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥१५.११॥

प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसथ् ॥१५.१२॥

ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।
वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ॥१५.१३॥

यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सतां ।
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥१५.१४॥

यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥१५.१५॥

अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥१५.१६॥

तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते ।
भ्ॐअदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥१५.१७॥

यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥१५.१८॥

अथवा न धर्ममसुबोधसमयमवयात बालिशाः ।
खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥१५.१९॥

स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥१५.२०॥

अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतं ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥१५.२१॥

प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणं ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥१५.२२॥

असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते ।
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥१५.२३॥

मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥१५.२४॥

छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥१५.२५॥

धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजं ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥१५.२६॥

जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥१५.२७॥

अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यथ् ।
व्य्ॐनि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥१५.२८॥

पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥१५.२९॥

तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणं ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥१५.३०॥

त्वमशक्नुवन्न शुभकर्मनिरत! परिपाकदारुणं ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः ॥१५.३१॥

सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ॥१५.३२॥

त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥१५.३३॥

मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ॥१५.३४॥

अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु ।
स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचितां ॥१५.३५॥

यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥१५.३६॥

शकटव्युदासतरुभङ्गधरणिधरधारणादिकं ।
कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥१५.३७॥

अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतं ॥१५.३८॥

इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥१५.३९॥

कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥१५.४०॥

न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः ।
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥१५.४१॥

विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥१५.४२॥

स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥१५.४३॥

नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥१५.४४॥

अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥१५.४५॥

विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनं ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृतां ॥१५.४६॥

इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणाथ् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥१५.४७॥

शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलं ॥१५.४८॥

प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्द्रुमः ॥१५.४९॥

अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रतां ।
कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ॥१५.५०॥

अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥१५.५१॥

कुपिताकृतिं प्रथममेव हसितमशनैरसूचयथ् ।
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणं ॥१५.५२॥

प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयथ् ।
जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥१५.५३॥

चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनां ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवं ॥१५.५४॥

कुपितेषु राजषु तथापि रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥१५.५५॥

गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रतां ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥१५.५६॥

विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥१५.५७॥

इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसं ।
मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलं ॥१५.५८॥

रमसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥१५.५९॥

स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥१५.६०॥

हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।
मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ॥१५.६१॥

गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषं ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥१५.६२॥

किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥१५.६३॥

अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ॥१५.६४॥

विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥१५.६५॥

अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥१५.६६॥

अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरितां ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥१५.६७॥

गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥१५.६८॥

चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥१५.६९॥

विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥१५.७०॥

क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥१५.७१॥

त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।
शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ॥१५.७२॥

जगदन्तकालसमवेतविषदविषमेरितारवं ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥१५.७३॥

सहसा ससभ्रमविलोलसकलजनतासमाकुलं ।
स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमां ॥१५.७४॥

दधतो भयानकतरत्वमुपगतवतः समानतां ।
धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥१५.७५॥

परिमोहिणा परिजनेन कथमपि चिरादुपाहृतं ।
वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥१५.७६॥

रणसंमदोदयविकासिबलकलकलाकुलीकृते ।
शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥१५.७७॥

परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥१५.७८॥

प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥१५.७९॥

दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।
चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ॥१५.८०॥

दयिताय सासवमुदस्तमपतदवसादिनः कराथ् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥१५.८१॥

भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥१५.८२॥

सुदृशः समीकगमनाय युवभिरथ संबभाषिरे ।
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥१५.८३॥

विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥१५.८४॥

न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।
यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥१५.८५॥

प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपथ् ।
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥१५.८६॥

व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटं ।
धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ॥१५.८७॥

शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥१५.८८॥

ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसां ॥१५.८९॥

सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥१५.९०॥

क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।
स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ॥१५.९१॥

अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥१५.९२॥
समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ॥१५.९३॥

विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।
यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ॥१५.९४॥

सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥१५.९५॥

काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥१५.९६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP