संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण १० शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण १० संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण १० Translation - भाषांतर सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥१०.१॥सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।ते मुहूर्तमथ मूर्तमपीप्यन्प्रम मानमवधूय वधूः स्वाः ॥१०.२॥कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥१०.३॥कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत ।फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ॥१०.४॥बिम्बितं बृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः ।घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥१०.५॥दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्तां ।यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिं ॥१०.६॥स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र ।अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥१०.७॥बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ॥१०.८॥पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ ।लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥१०.९॥कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य ।स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूथ् ॥१०.१०॥पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः ।व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्ताथ् ॥१०.११॥प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥१०.१२॥हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः ।चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥१०.१३॥अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यं ।क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ॥१०.१४॥सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे ।विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थं ॥१०.१५॥सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासां ॥१०.१६॥मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।वीक्ष्यते स्म शनकैर्नववध्वा कामिन्ॐउखमध्ॐउखयैव ॥१०.१७॥या कथञाचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥१०.१८॥छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः ।वारुणीमदविशङागमथाविश्चक्षुषोऽभवदसाविव रागाः ॥१०.१९॥आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणां ।प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥१०.२०॥मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥१०.२१॥ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय ।सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासां ॥१०.२२॥दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन ।सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥१०.२३॥लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥१०.२४॥मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागं ।लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥१०.२५॥पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥१०.२६॥अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥१०.२७॥अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ॥१०.२८॥कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥१०.२९॥कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचां ।ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥१०.३०॥गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीथ् ॥१०.३१॥उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि ॥१०.३२॥चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः ॥१०.३३॥क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु ।अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥१०.३४॥शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः ॥१०.३५॥आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनां ॥१०.३६॥रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥१०.३७॥लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥१०.३८॥स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥१०.३९॥यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥१०.४०॥संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ।स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ॥१०.४१॥उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गं ।आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ॥१०.४२॥अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥१०.४३॥संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधं ।संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुं ॥१०.४४॥स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन ।आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ॥१०.४५॥पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः ।स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ॥१०.४६॥दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने ।वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥१०.४७॥संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानां ।आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥१०.४८॥स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥१०.४९॥न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥१०.५०॥यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे ।प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ॥१०.५१॥ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीथ् ॥१०.५२॥पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे ।पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥१०.५३॥केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥१०.५४॥रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥१०.५५॥आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन ।रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥१०.५६॥कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः ।आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥१०.५७॥सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानां ।उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥१०.५८॥आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः ।सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ॥१०.५९॥प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्यां ॥१०.६०॥कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानं ॥१०.६१॥अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य ।वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ॥१०.६२॥ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः ।भ्रूयुगेण सपदि प्रतिपेदे र्ॐअभिश्च सममेव विभेदः ॥१०.६३॥आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या ।रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥१०.६४॥आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥१०.६५॥चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणां ।कामिनामनिभृतान्यपि रम्भास्त म्भक्ॐअलतलेषु नखानि ॥१०.६६॥ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः ।चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥१०.६७॥धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः ।व्रीडितं ललित सौरतधार्ष्ट्यास्तेनिरेऽभिरुचितेषु तरुण्यः ॥१०.६८॥पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखऽपि ॥१०.६९॥वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ॥१०.७०॥अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥१०.७१॥बाहुपीडनकचग३हणाभ्यामाहतेन नखदन्तनिपातैः ।बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ॥१०.७२॥कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यथ् ॥१०.७३॥आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ॥१०.७४॥सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥१०.७५॥उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः ।श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥१०.७६॥ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु ।क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वं ॥१०.७७॥प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः ।दध्रिरेऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥१०.७८॥यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् ।आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥१०.७९॥प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥१०.८०॥संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ॥१०.८१॥प्रेक्षणीयकमेव क्षणमासन्ह्रीविभङ्गुरविलोचनपाताः ।संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥१०.८२॥अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु ।क्ष्ॐअमाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ॥१०.८३॥मृष्टचन्दनविशेषकभक्तिर्म्रषाटभूषणकदर्थितमाल्यः ।सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥१०.८४॥योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ॥१०.८५॥भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु ।दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥१०.८६॥सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत्गुरुरेव ॥१०.८७॥विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥१०.८८॥आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥१०.८९॥योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनं ।क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनां ॥१०.९०॥इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाध्ॐउखीव ॥१०.९१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP