संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २६ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २६ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २६ Translation - भाषांतर यन्त्राणिरसो नियन्त्र्यते येन यन्त्रं तदिति कथ्यते ।१. खल्वयन्त्रम्खल्वयन्त्रं द्विधा प्रोक्तं मर्दनादिककर्मणि ॥१॥खल्वं लोहमयं देवि पाषाणोत्थमथापि वा ।खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ॥२॥खल्वयन्त्रं द्विधा प्रोक्तं रसादिमुखमर्दने ।षोडशाङ्गुलिकोत्सेधा नवाङ्गुलिसुविस्तरा ॥३॥चतुर्विंशाङ्गुलीदीर्घघर्षणी द्वादशाङ्गुला ।विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला ॥४॥खल्वप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसमर्दने ।षोडशाङ्गुलविस्तारः खल्वो भवति वर्तुलः ॥५॥चतुरङ्गुलनिम्नं च मध्ये ऽतिमसृणीकृतम् ।मर्दनी चिपिटाधस्तात् सुग्रहा च शिखोपरि ॥६॥अयं हि वर्तुलः खल्वो मर्दनेऽतिसुखप्रदः ।अयसा कान्तलोहेन लोहखल्वमपीदृशम् ॥७॥अधस्ताद् द्रोणिका कार्या वह्निप्रज्वालनोचिता ।उत्सेधेन नवाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण नवाङ्गुलो रसमितैर् निम्नैस्तथैवाङ्गुलैः ।कण्ठे द्व्यङ्गुलविस्तरोऽतिमसृणो द्रोणार्धचन्द्राकृतिर् घर्षश्चैव दशाङ्गुलश्च तदिदं खल्वाख्ययन्त्रं मतम् ॥८॥अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ॥९॥तत्तदौचित्ययोगेन खल्वेष्वन्येषु शोधयेत् ।तप्तखल्वःलोहे नवाङ्गुलः खल्वो निम्नश्चैव षडङ्गुलः ॥१०॥मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्वाभिधो ह्ययम् ।कृत्वा खल्वाकृतिं चुल्लीमङ्गारैः परिपूर्य ताम् ॥११॥तस्मिन्निवेश्य तं खल्वं पार्श्वे भस्त्रिकया धमेत् ।तस्मिन्विमर्दिता पिष्टिः क्षाराम्लैश्च सुसंयुता ॥१२॥प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः ।कृतः कान्तायसा सोऽयं भवेत्कोटिगुणो रसः ॥१३॥२. खवलभीयन्त्रम् (वलभीयन्त्रं वा)यन्त्रे लोहमये पात्रे पार्श्वयोर्वलयद्वयम् ।तादृक् स्वल्पतरं पात्रं वलयद्योतकोष्ठकम् ॥१४॥पूर्वपात्रोपरि न्यस्य स्वल्पपात्रोपरि क्षिपेत् ।रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः ॥१५॥द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे ।तत्स्यात् खवलभीयन्त्रं रससाद्गुण्यकारकम् ॥१६॥सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ।३. ऊर्ध्वपातनयन्त्रम्अष्टाङ्गुलमिता सम्यक् वर्तुला चिपिटा तले ॥१७॥चतुरङ्गुलतः कण्ठादधो द्रोण्या समन्विता ।चतुरङ्गुलविस्तारा निम्नया दृढबद्धया ॥१८॥तद्विधा च घटी मूले षोडशाङ्गुलविस्तृता ।नवाङ्गुलकविस्तारकर्णेन च समन्विता ॥१९॥पूर्वे घटे रसं क्षिप्त्वा न्युब्जां दद्यात्परां घटीम् ।सोर्ध्वं निम्ना च परितो दृढपालिकयान्विता ॥२०॥पाल्यां द्रोण्यां क्षिपेत्तोयं पावकं ज्वालयेदधः ।ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्तितम् ॥२१॥४. अधःपातनयन्त्रम्उपरिष्टात्तु तत्स्थाल्यां क्षिपेदन्यामधोमुखीम् ।स्थालिकां चिपिटीभूतां तलान्तर्लिप्तपारदाम् ॥२२॥क्षिप्त्वा तत्पङ्किले गर्ते ज्वालयेन्मूर्ध्नि पावकम् ।अधःपातनयन्त्रं हि तदेतत्परिकीर्तितम् ॥२३॥५. तिर्यक्पातनयन्त्रम्क्षिपेद्रसं घटे दीर्घे नताधोनालसंयुते ।तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥२४॥तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरधः ।अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥२५॥इतरस्मिन् घटे तोयं प्रक्षिपेत्स्वादुशीतलम् ।तिर्यक्पातनमेतद्धि वार्तिकैरभिधीयते ॥२६॥पातनात्रितयस्योक्तं यन्त्राणां त्रितयं खलु ।पातनैश्च विना सूतो नितरां दोषमृच्छति ॥२७॥त्रिभिरेवोर्ध्वपातैः स कस्माद्दोषैर्न मुच्यते ।द्विविभागेन विपाकेन द्रव्यान् अन्योन्ययोगतः ॥२८॥पात्रान्तरपरिक्षेपाद्गुणाः स्युर् विविधाः खलु ।खण्डान्युलूखलांभोभिस् तण्डुलास्युर्जलोज्झिताः ॥२९॥पातनैव महाशुद्धिस्तण्डुली परिकीर्तिता ।६. कच्छपयन्त्रम्विशालवदने भाण्डे तोयपूर्णे निवेशयेत् ॥३०॥अपरं पृथुलं सम्यक् प्रतरस्तस्य मध्यमे ।आलवालं बिडैः कृत्वा तन्मध्ये पारदं क्षिपेत् ॥३१॥ऊर्ध्वाधश्च बिडं दत्त्वा मल्लेनारुध्य यत्नतः ।पुटमौचित्ययोगेन दीयते तन्निगद्यते ॥३२॥यन्त्रं कच्छपसंज्ञं हि तदुक्तं रसजारणे ।७. आन्तरालिकयन्त्रम्कृत्वा लोहमयीं मूषां वर्तुलाधारकारिणीम् ॥३३॥वितस्त्या समितां कान्तलोहेन परिनिर्मिताम् ।मुण्डलोहोद्भवां वापि कण्ठाधो द्व्यङ्गुलादधः ॥३४॥द्व्यङ्गुलं वलयं दद्यान्मध्यदेशे च कण्ठतः ।पिधानधारकं चिञ्चापत्रविस्तीर्णकङ्कणम् ॥३५॥पिधानमन्तराविष्टं सशिखं श्लिष्टसन्धिकम् ।तले प्रविहतच्छिद्रं भाण्डं कृत्वा ह्यधोमुखम् ॥३६॥यन्त्रेणालम्बयेन्मूर्ध्नि निरुध्य च विशोष्य च ।स्थालीकण्ठं ततो दद्यात्पुटानलविधारणम् ॥३७॥एवंरूपं भवेद्यन्त्रम् आन्तरालिकसंज्ञकम् ।अनेन जारयेद्गन्धं द्रुतिं गर्भकृतामपि ॥३८॥८. तापिकायन्त्रम्तापीमूषां मृदा कृत्वा दृढां चारत्निमात्रिकाम् ।सुदृढां मध्यदेशे च द्व्यङ्गुलच्छिद्रसंयुताम् ॥३९॥कान्तलोहमयीं खारीं दद्याद्द्रव्यस्य चोपरि ।तापिकां पूरयेच्छुद्धसिकताभिः समन्ततः ॥४०॥तां च चुल्ल्यां समारोप्य क्षेपं क्षेपं बिडद्रवम् ।पादाङ्गुष्ठमितां ज्वालां ज्वालयेदनलं ततः ॥४१॥लोहाभ्रकादिकं सर्वं रसस्योपरि जारयेत् ।तापिकायन्त्रमित्युक्तं सुकरं रसजारणे ॥४२॥९. गर्भयन्त्रम्स्थाल्यां विनिक्षिप्य रसादिवस्तु स्वर्णादि खोर्यां प्रविधाय भूयः ।अम्लेन चोर्ध्वं लवणानि दत्त्वा चुल्ल्यां पचेत्तत्प्रतिगर्भयन्त्रम् ॥४३॥गर्भयन्त्रखोरीमल्लं ततः स्थालीं निरुन्ध्याद् अतियत्नतः ।स्थाल्यां मल्लेन वा खोर्यां क्षिप्त्वा वस्तु निरुध्य च ॥४४॥क्षिप्त्वा पट्टादिकं रुद्ध्वा पाकः स्याद्गर्भयन्त्रकम् ।१०. पालिकायन्त्रम्चषकं वर्तुलं लोहं विनताग्रोर्ध्वदण्डकम् ॥४५॥एतद्धि पालिकायन्त्रं बलिजारणहेतवे ।११. घटीयन्त्रम्चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम् ॥४६॥घटीयन्त्रमिदं प्रोक्तं तदाप्यायनके स्मृतम् ।१२. इष्टिकायन्त्रम्विधाय वर्तुलं गर्तं मल्लमत्र निधाय च ॥४७॥विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभाम् ।गर्तस्य परितः कुर्यात्पालिकामङ्गुलोच्छ्रयाम् ॥४८॥तत्र सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ।निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च ॥४९॥मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च ।वनोत्पलैः पुटं देयं कपोताख्यं न चाधिकम् ॥५०॥इष्टिकायन्त्रम् एतत्स्याद्गन्धकं तेन जारयेत् ।१३. विद्याधरयन्त्रम्स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च ॥५१॥ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः ।एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥५२॥१४. डमरुकयन्त्रम्यन्त्रं स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुध्यते ।यन्त्रं डमरुकाख्यं तद्रसबन्धकृते हितम् ॥५३॥१५. नाभियन्त्रम्मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् ।गर्तस्य परितः कुड्यं प्रकुर्यात्त्र्यङ्गुलोच्छ्रितम् ॥५४॥ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया ।सम्यक्तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया ॥५५॥जलमृत्स्नालेहवत् कृतबर्बूरक्वाथेन परिमिश्रितम् ।जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णैः समन्वितम् ॥५६॥इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु ।वह्निमृत्स्नाखटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ॥५७॥वह्निमृत्सा भवेद्घोरवह्नितापसहा खलु ।एतयोर्मृत्स्नयो रुद्धो न गन्तुं क्षमते रसः ॥५८॥नाभियन्त्र (चोन्त्.)ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।नाभियन्त्रमिदं प्रोक्तं नन्दिना तत्त्ववेदिना ॥५९॥अनेन जीर्यते सूते निर्धूमः शुद्धगन्धकः ।१६. ग्रस्तयन्त्रम्मूषा मूषोदराविष्टा आद्यन्तसमवर्तुला ॥६०॥चिपिटा च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ।सूतेन्द्रबन्धनार्थं हि रसविद्भिरुदीरितम् ॥६१॥१७. तुलायन्त्रम्वृन्ताकाकारमूषे द्वे तयोः कण्ठादधः खलु ।प्रादेशमात्रां नलिकामृज्वीं लग्नां सगन्धकाम् ॥६२॥तत्रैकस्यां क्षिपेत्सूतमन्यस्यां गन्धचूर्णकम् ।निरुध्य मूषयोर्वक्त्रं वालुकायन्त्रके क्षिपेत् ॥६३॥अधोऽग्निं ज्वालयेदेतत्तुलायन्त्रमुदाहृतम् ।शिलातालकगन्धाश्मजारणाय प्रकीर्तितम् ॥६४॥१८. स्थालीयन्त्रम्स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ।पच्यते स्थालिसंस्थं यत्स्थालीयन्त्रमिति स्मृतम् ॥६५॥१९ कोष्ठिकायन्त्रम्स्थूलभाण्डोदरस्यान्तर्वालुकां निक्षिपेच्छुभाम् ।वितस्तिप्रमितोत्सेधां ततस्तत्र निवेशयेत् ॥६६॥सुपक्वां मृण्मयीं कोष्ठीं द्वादशाङ्गुलकोच्छ्रयाम् ।षडङ्गुलकविस्तीर्णां मध्येऽतिमसृणीकृताम् ॥६७॥पञ्चाङ्गुलपिधानं च तीक्ष्णाग्रं मुकुलीकृतम् ।न न्यूनं नाधिकं कोष्ठे कण्ठतो मसृणा बहिः ॥६८॥कोष्ठ्यां च निक्षिपेद्गन्धं षट्पलं श्लक्ष्णचूर्णितम् ।ततस्त्रैपादिकीं लौहीं निवेश्य च स्थिरीकृताम् ॥६९॥तस्यां च विन्यसेत्खोरीं लौहीं वा कान्तलोहजाम् ।तस्यां सूतं क्षिपेच्छुद्धं पलविंशतिमानतः ॥७०॥टङ्कगन्धकसूतं च भावयेल्लशुनद्रवैः ।अधःशिखेन पूर्वोक्तपिधानेन पिधाय च ॥७१॥संधिबन्धं प्रकुर्वीत सुधामृत्स्नागुडादिभिः ।सन्धिबन्धे विशुष्के च क्षिपेदुपरि वालुकाम् ॥७२॥भाण्डवक्त्रं निरुध्याथ ज्वालयेत्तदधोऽनलम् ।एवं यामत्रयं यावत्ततो गन्धकसम्भवः ॥७३॥पिधानलग्नधूमोऽसौ गलित्वा निपतेद्रसे ।एवं च षड्गुणं गन्धं भुक्त्वा सूतो ऽरुणो भवेत् ॥७४॥करोति कल्पनिर्दिष्टान्विशिष्टानखिलान्गुणान् ।कोष्ठिकायन्त्रमेतद्धि नन्दिना परिकीर्तितम् ॥७५॥२०. वालुकायन्त्रम्पञ्चाढवालुकाचूर्णं भाण्डे निक्षिप्य यत्नतः ।पच्यते रसगोलाद्यं वालुकायन्त्रकं हि तत् ॥७६॥२१. लवणयन्त्रम्एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ।२२. धूपयन्त्रम्विधायाष्टाङ्गुलं पात्रं लोहमष्टांगुलोच्छ्रयम् ॥७७॥कण्ठाधो द्व्यङ्गुले देशे जाताधारं च तत्र च ।तिर्यग्लोहशलाकां च तस्मिंस्तिर्यग्विनिक्षिपेत् ॥७८॥तनूनि स्वर्णपत्राणि तस्यामुपरि विन्यसेत् ।पात्राधो निक्षिपेद्धूपं वक्ष्यमाणमिहैव हि ॥७९॥तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ।मृदा विलिप्य सन्धिं च वह्निं प्रज्वालयेदधः ॥८०॥तेन कृष्णानि पत्राणि हतान्युक्तविधानतः ।रसश्चरति वेगेन द्रुतिं गर्भे द्रवन्ति च ॥८१॥गन्धालकशिलानां हि कज्जल्या वा मृताहिना ।धूपनं स्वर्णपत्राणां परमं परिकीर्तितम् ॥८२॥तारार्थं तारपत्राणि मृतवङ्गेन धूपयेत् ।धूपयेच्च यथायोगं रसैरुपरसैरपि ॥८३॥धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यशोधने ।२३. कन्दुकयन्त्रम्स्थूलस्थाल्यां द्रवं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ॥८४॥तत्र स्वेद्यं विनिक्षिप्य मृदास्यं प्रपिधाय च ।अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाह्वयम् ॥८५॥२४. ढेकीयन्त्रम्भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् ।कान्तकांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ॥८६॥नालास्यं तत्र संयोज्यं दृढं तच्चापि कारयेत् ।युक्तद्रव्यैर् विनिक्षिप्तः पूर्वं तत्र पुटे रसः ॥८७॥अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः ।यावदुष्णं भवेत्सर्वं भाजनं तावदेव हि ॥८८॥जायते रससंधानं ढेकीयन्त्रमिदं भवेत् ।२५. सोमानलयन्त्रम्ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससङ्ग्रहः ॥८९॥सोमानलमिदं प्रोक्तं जारयेद्गगनादिकम् ।२६. नालिकायन्त्रम्लोहनालगतं सूतं भाण्डे लवणपूरितम् ॥९०॥निरुद्धं विपचेदेतन्नालिकायन्त्रमीरितम् ।२७. पातालयन्त्रम्सुसंधिसंधितं कृत्वा दिव्यभाण्डे तु सम्मुखम् ॥९१॥अष्टाङ्गुलमुखं तं तु दीर्घं स्यात्षोडशाङ्गुलम् ।सुसंधिसंधितं कृत्वा वस्त्रमृत्तिकालेपनम् ॥९२॥तत्र पातालयन्त्रे तु सूतकादि निपातयेत् ।२८. दीपिकायन्त्रम्कच्छपयन्त्रान्तर्गतमृण्मयपीठस्थदीपिकासंस्थः ॥९३॥यस्मिन्निपतति सूतः प्रोक्तं तद् दीपिकायन्त्रम् ।२९. गङ्गासागर(भट्टी)यन्त्रम्द्वादशाङ्गुलमुत्सेधं षोडशाङ्गुलमायतम् ॥९४॥ताम्रीयं मृण्मयं वाथ सुश्लक्ष्णं चिपिटं शुभम् ।पात्रं कर्णादधो द्रोणीं द्व्यङ्गुलोत्सेधमात्रकाम् ॥९५॥द्रोण्यां पात्रं न्यसेद् अन्यत्तावन्मात्रं सुसंधितम् ।न्युब्जं सन्धौ तयोर्नालं कुर्याद्गोमुखसन्निभम् ॥९६॥पाच्यद्रव्यमधः पात्रे द्रवद्रव्येण योजितम् ।क्षिप्त्वा निधाय मृत्संधिं यन्त्रोर्ध्वे जलसेचनम् ॥९७॥चुल्ल्यामारोप्य तद्यन्त्रं चण्डाग्निं ज्वालयेदधः ।तस्मान्नान्यद्विनिर्याति तत्तद्द्रव्याश्रितो रसः ॥९८॥गङ्गासागरयन्त्रं हि भट्टियन्त्रमिदं स्मृतम् ।गुडपुष्पफलादीनाम् आहरेद् द्रुतिमुत्तमाम् ॥९९॥३०. डो(दो)लायन्त्रम्द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च ।मुखे तिर्यक्कृते दण्डे रसं सूत्रेण लम्बितम् ॥१००॥स्वेदयेत्तत्तलगतं डोलायन्त्रमिति स्मृतम् ।३१. कोष्ठीयन्त्रम्चुल्लीं चतुर्मुखीं कृत्वा तत्र भाण्डं निवेशयेत् ॥१०१॥तत्रौषधं विनिक्षिप्य रुद्ध्वा तद्भाण्डकाननम् ।कोष्ठीयन्त्रमिदं नाम्ना तत्रत्यैः परिकीर्तितम् ॥१०२॥३२. गर्भयन्त्रम्त्र्यङ्गुलां परिणाहेन दैर्घ्येण चतुरङ्गुलाम् ।मृण्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् ॥१०३॥लोणस्य विंशतिं भागान्भागमेकं तु गुग्गुलोः ।सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः ॥१०४॥मूषालेपं दृढं कृत्वा लवणार्धमृदा बुधः ।कारीषे वा तुषाग्नौ वा भूमौ तु स्वेदयेन्मृदु ॥१०५॥अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ।गर्भयन्त्रमिदं प्रोक्तं पिष्टिकाभस्मकारकम् ॥१०६॥३३. हंसपाकयन्त्रम्खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥१०७॥पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च बिडं ततः ।हंसपाकः समाख्यातो यन्त्रं तद्वार्तिकोत्तमैः ॥१०८॥३४. मूषायन्त्रम्लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।मूषयोर् मुखयोर्नालं दत्त्वा सम्यङ्निरोधयेत् ॥१०९॥एकस्यां सूतकं शुद्धमन्यस्यां शुद्धगन्धकम् ।देयं जलं सूतकाधो वह्निं गन्धोपरि क्षिपेत् ॥११०॥जारयेत्षड्गुणं गन्धम् अनेनैव क्रमेण हि ।मूषायन्त्रमिदं ज्ञेयं सिद्धनागार्जुनेरितम् ॥१११॥३५. स्तनयन्त्रम्कान्तलोहमयं पात्रमायतं द्वादशाङ्गुलम् ।दीर्घमष्टाङ्गुलं देवि पात्राधस्त्र्यङ्गुलं शुभम् ॥११२॥निम्नं पात्रं पिधानीं च लोहोत्थां चिपिटां शुभाम् ।स्तनयन्त्रमिदं सूतपिष्टीनां जारणे वरम् ॥११३॥३६. नागमायूरयन्त्रम्वृन्ताकमूषायुगलं पद्मवर्तलोहेन कारयेत् ।एकस्यां निक्षिपेत्सूतमन्यस्यां गरलं क्षिपेत् ॥११४॥नागाकारं वक्त्रनालं विषमूषामुखे न्यसेत् ।मयूराकारनालं हि रसमूषामुखे न्यसेत् ॥११५॥मयूरवदने नागमुखं संयोजयेत्सुधीः ।सन्धित्रयं वज्रमृदा लेपं कुर्याद्यथा दृढम् ॥११६॥सलिलं रसमूषाधो विषाधोऽङ्गारपावकः ।नागमायूरयन्त्रं हि विषधूपे वरं प्रिये ॥११७॥३७. चक्रयन्त्रम्हस्तमात्रायतं गर्तं वितस्तिद्वयनिम्नकम् ।कोष्ठीं गर्तस्य मध्ये तु द्वादशांगुलमायताम् ॥११८॥वितस्तिद्वयम् उत्सेधां कोष्ठ्यामापूरयेच्छुभाम् ।वालुकां तद्बहिश्छाणवह्निं कोष्ठ्यां रसं प्रिये ॥११९॥चक्रयन्त्रमिदं सूतभस्मकर्मणि शस्यते ।३८. खेचरयन्त्रम्सुस्थाल्यां कदलीपुष्पनिभां सच्छिद्रमूषिकाम् ॥१२०॥अधोमुखीं प्रकुर्वीत लिपेद्वज्रमृदा दृढम् ।उपरिष्टाद् अधोवक्त्रां स्थालीमन्यां सुसंधिताम् ॥१२१॥मूषायां वत्सनाभं तु निक्षिपेद् ऊर्ध्वभाजने ।रसं विलेपयेद्युक्त्या यन्त्रोर्ध्वं कैतवो रसः ॥१२२॥अधो मृद्वग्निना पाकस्त्वेतत् खेचरयन्त्रकम् ।प्रायः सिद्धरसेन्द्रस्य विषधूपे वरं प्रिये ॥१२३॥३९. कापालियन्त्रम्स्थाल्यां सूतादिकान्क्षिप्त्वा हेमरूप्यादि खोरिकाम् ।न्युब्जां सन्धिं मृदा लिप्त्वा वालुकां खोरिकान्तगाम् ॥१२४॥कृत्वा मृद्वग्निना पाकस्त्वेतत् कापालियन्त्रकम् ।४०. वालुकायन्त्रम्सरसां गूढवक्त्रां च मृद्वस्त्राङ्गुलसंयुताम् ॥१२५॥शोषितां काचकलशीं पूरयेत्त्रिषु भागयोः ।भाण्डे वितस्तिगम्भीरे वालुकासु प्रतिष्ठिता ॥१२६॥भागस्य पूरयित्रीभिर् अन्याभिर् अवकुण्ठयेत् ।भाण्डवक्त्रं मणिकया सन्धिं लिम्पेन्मृदा पचेत् ॥१२७॥चुल्ल्यां तृणस्य चादाहान्मणिकापृष्ठवर्तिनः ।एतद्धि वालुकायन्त्रं रसगोलादिकान्पचेत् ॥१२८॥४१. लवणयन्त्रम्एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ।अन्तःकृतरसालेपताम्रपात्रमुखस्य च ॥१२९॥लिप्त्वा मृल्लवणेनैव सन्धिं भाण्डतलस्य च ।तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत् ॥१३०॥४२. भूधरयन्त्रम्वालुकागूढसर्वाङ्गां यन्त्रे मूषां रसान्विताम् ।दीप्तोत्पलैः संवृणुयाद्यन्त्रं तद्भूधराह्वयम् ॥१३१॥४३. नालिकायन्त्रम्कुम्भस्य पार्श्वे सुषिरं कुर्यादङ्गुष्ठमात्रकम् ।तावत् स्थूलम् अयोनालं वेणुनालमथापि वा ॥१३२॥छिद्रे संयोजयेन्नालं नालाग्रे घटिकां न्यसेत् ।कुम्भे सर्जादिनिर्यासं क्षिप्त्वा वक्त्रं निरोधयेत् ॥१३३॥अधोऽग्निं ज्वालयेदेतन्नालिकायन्त्रमुच्यते ।४४. पुटयन्त्रम्शरावसम्पुटान्तस्थं करीषेष्वग्निमानवित् ॥१३४॥पचेत चुल्ल्यां यामं वा रसं तत्पुटयन्त्रकम् ।४५. पातालयन्त्रम्विशालवदनां स्थालीं गर्ते सजलगोमये ॥१३५॥विन्यस्य वदनान्तश्च पूरयेदपरं घटम् ।पञ्चसच्छिद्रसहितां स्थालीं वक्त्रे निवेशयेत् ॥१३६॥तद्घटं पूरयेत् तैलपात्यंद्रव्यैर् निरोधयेत् ।भाण्डवक्त्रं शरावेण पुटं दद्यात्समन्ततः ॥१३७॥छिद्रेभ्यः पतितं तैलं तत्तद्योगेषु योजयेत् ।इदं पातालयन्त्रं हि सर्वतैलं निपातयेत् ॥१३८॥काष्ठत्वग्बीजमांसास्थिवंशतलं समाहरेत् ।४६. धूपयन्त्रम्स्थाल्यां लद्दिं खरादीनां क्षिप्त्वास्ये कांस्यपात्रकम् ॥१३९॥सजलं विन्यसेद्देवि वह्निं प्रज्वालयेदधः ।कान्तपात्रस्थितं तैलं सर्वव्रणविरोपणम् ॥१४०॥धूपयन्त्रमिदं देवि नन्दिना परिकीर्तितम् ।४७. अधःपातनयन्त्रम्वृत्तालाबुसमस्थूलं दीर्घनालं सरन्ध्रकम् ॥१४१॥तस्मिन्क्षिपेत्तैलपात्यद्रव्यं बीजादिकं प्रिये ।तन्मुखे निक्षिपेत्केशान्विन्यसेत्तदधोमुखम् ॥१४२॥सच्छिद्रे च घटे नालं भाण्डच्छिद्रे निवेशयेत् ।घटमध्ये पुटं दद्यान्नालाधो घटिकां न्यसेत् ॥१४३॥अधःपातनयन्त्रं हि श्रेष्ठं स्यात्तैलपातने ।४८. अन्यत् अधःपातनयन्त्रम्विशालकांस्यपात्रान्तर्न्यसेदुत्तम्भनं समम् ॥१४४॥तदूर्ध्वे मृण्मयं पात्रं सुदृढं चतुरङ्गुलम् ।विन्यसेदपरं पात्रं संतप्तं पूर्वपात्रके ॥१४५॥विन्यस्य तस्मिन् श्रीखण्डकृष्णागरुमधुप्लुतम् ।एवं द्वितीयं पात्रं तु तृतीयमपि तद्विधम् ॥१४६॥उपर्युपरि विन्यस्य तदूर्ध्वं मृत्कटाहकम् ।न्युब्जं न्यसेत्कांस्यपात्रे कटाहं मार्जयेज्जलैः ॥१४७॥अधःपातनयन्त्रं हि गन्धतैलं निपातयेत् ।मूषामूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ॥१४८॥पाचनी वह्निमित्रा च रसवादिभिरिष्यते ।मुष्णाति दोषान्मूषेयं सा मूषेति निगद्यते ॥१४९॥उपादानं भवेत्तस्या मृत्तिका लोहमेव च ।मूषामुखविनिष्क्रान्ता वरम् एकापि काकिनी ॥१५०॥दुर्जनप्रणिपातेन धिग्लक्षमपि मानिनाम् ।संधिलेपमूषापिधानयोर्बन्धे रन्ध्राणं सुविलेपयेत् ॥१५१॥अन्ध्रणं रन्धनं चैव संश्लिष्टं सन्धिबन्धनम् ।मूषार्थे श्रेष्ठा मृत्मृत्तिका पाण्डुरस्थूलशोणपाण्डुरमूषरा ॥१५२॥चिराध्मानसहा सा हि मूषार्थमतिशस्यते ।तदभावे च वाल्मीकी कौलाली वा समीर्यते ॥१५३॥या मृत्तिका दग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च ।लोहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थम् ॥१५४॥श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणकर्पटम् ।लद्दिकिट्टं यथायोगं संयोज्या मूषिकामृदि ॥१५५॥वज्रमूषामृदस्त्रिभागं शणलद्दिभागौ नागश्च निर्दग्धतुषोपलादेः ।किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥१५६॥योगमूषादग्धाङ्गारतुषोपेतमृत्स्ना वल्मीकसम्भवा ।तत्तद्बिडसमायुक्ता तत्तद्बिडविलेपिता ॥१५७॥तया या विहिता मूषा योगमूषेति कथ्यते ।अनया साधितः सूतो जायते गुणवत्तरः ॥१५८॥वज्रद्रावणमूषागारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।समैः समा च मूषामृन्महिषीदुग्धसंयुता ॥१५९॥क्रौञ्चिका वक्ष्यमाणा हि बहुधा परिकीर्तिता ।तया विरचिता मूषा वज्रद्रावणके हिता ॥१६०॥यामयुग्मपरिध्मानान्नासौ द्रवति वह्निना ।गारमूषादग्धषड्गुणगाराढ्या किट्टाङ्गारशणान्विता ॥१६१॥कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।वज्रमूषावस्त्राङ्गारतुषास् तुल्यास् तच्चतुर्गुणमृत्तिका ॥१६२॥गाराश्च मृत्तिका तुल्या सर्वैरेतैर्विनिर्मिता ।वज्रमूषेति निर्दिष्टा याममग्निं सहेत सा ॥१६३॥स्वर्ण(वर)मूषारक्तवर्गरजोयुक्ता रक्तवर्गाम्बुसाधिता ।वरमूषेति निर्दिष्टा स्वर्णमूषेत्युदाहृता ॥१६४॥वर्णमूषामृण्मया साधिता मूषा क्षितिखेचरलेपिता ।वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥१६५॥रूप्यमूषाएवं हि श्वेतवर्गेण रूप्यमूषा समीरिता ।बिडमूषातत्तद्बिडमृदोद्भूता तत्तद्बिडविलेपिता ॥१६६॥देहलोहार्थयोगार्थं बिडमूषेत्युदाहृता ।सहतेऽग्निं चतुर्यामं द्रवेण व्यथिता सती ॥१६७॥मूषाप्यायनम्द्रवीभावम् उपेयोश्च मूषायां ध्मानयोगतः ।क्षणमुद्धरणं यत् तन्मूषाप्यायनम् उच्यते ॥१६८॥वृन्ताकमूषावृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् ।धुत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टसन्धिकम् ॥१६९॥अष्टाङ्गुलं च सच्छिद्रं सा स्याद् वृन्ताकमूषिका ।अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥१७०॥गोस्तनी मूषामूषा या गोस्तनाकारा शिखायुक्तपिधानका ।सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥१७१॥मल्लमूषानिर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥१७२॥पक्वमूषाकुलालभाण्डरूपा या दृढा च परिपाचिता ।पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने ॥१७३॥गोलमूषानिर्वक्त्रा गोलकाकारा पुटनद्रव्यगर्भिणी ।गोलमूषेति सा प्रोक्ता गत्वरद्रव्यरोधिनी ॥१७४॥मञ्जुमूषातले या कूर्पराकारा क्रमादुपरि विस्तृता ।स्थूलवृन्ताकवत्स्थूला मञ्जुमूषेति संस्मृता ॥१७५॥सा चायोऽभ्रकसत्वादेः पुटाय द्रावणाय च ।मञ्जूषामूषामञ्जूषाकारमूषा या निम्नतायामविस्तरा ॥१७६॥षडङ्गुलप्रमाणेन मूषा मञ्जूषासंज्ञका ।भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥१७७॥मुसलमूषामूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।मूषा सा मुसलाख्या च चक्रिबद्धरसे तथा ॥१७८॥अन्या वज्रमूषादग्धाङ्गारस्य षड्भागा गैरिकं कृष्णमृत्तिका ।गारम् अङ्गारकिट्टं च वज्रमूषा प्रकीर्तिता ॥१७९॥गारा दग्धास्तुषा दग्धा वल्मीकमृत्तिका ।शणत्वक् च समायुक्ता मूषा वज्रोपमा मता ॥१८०॥अन्धमूषा प्रकाशमूषा चप्रकाशा चान्ध्रमूषा च मूषा च द्विविधा स्मृता ।प्रकाशमूषा विज्ञेया शरावाकारसंयुता ॥१८१॥द्रव्यनिर्वहणे सा च वार्तिकैस्तु प्रशस्यते ।अन्ध्रमूषा च कर्तव्या गोस्तनाकारसन्निभा ॥१८२॥पिधानेन समायुक्ता किंचिद् उन्नतमस्तका ।पत्रलेपे तथा रङ्गे द्वन्द्वमेलापके हितम् ॥१८३॥सैव छिद्रान्विता नन्दगम्भीरा सारणोचिता ।भस्ममूषातिलभस्म द्विरंशं तु इष्टकांशसमन्वितम् ॥१८४॥भस्ममूषेति विज्ञेया तारसंशोधने हिता ।अन्या वज्रमूषातुषं वस्त्रं समं दग्धं मृत्तिका चतुरंशिका ॥१८५॥कूपीपाषाणसंयुक्ता वज्रमूषा प्रकीर्तिता ।मूषावङ्कनालकोष्ठिकोपयुक्तमृल्लक्षणम्कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका ॥१८६॥आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमे मध्यमे मते ।गजाश्वानां मलं दग्ध्वा यावत्कृष्णत्वतां गतम् ॥१८७॥वाशा वज्रलता पत्रं वल्मीकस्य मृदा सह ।पेषयेद्वज्रतोयेन यावच्छुक्लत्वतां गतम् ॥१८८॥मर्दयेत्तेन बध्नीयाद्वङ्कनालं च कोष्ठिकाम् ।वल्मीकमृत्तिकालोहकिट्टश्वेताश्मनां पृथक् ॥१८९॥एकांशौ द्वौ तु दग्धस्य तुषस्य स्त्रीशिरोरुहाम् ।समांशस्तत्समस्तं तु छागीदुग्धेन मर्दयेत् ॥१९०॥यामद्वयं दृढं तेन कुर्यान्मूषां च सम्पुटम् ।शोषयित्वा रसं क्षिप्त्वा तत्र कंसं निरोधयेत् ॥१९१॥वज्रमूषादिकं प्रोक्तं सम्यक्सूतस्य मारणे ।मोक्षक्षारस्य भागौ द्वाव् इष्टिककांशसंयुतौ ॥१९२॥यत्कृतौ सा तु मूषा स्यादुत्तमा तारशोधने ।रक्तवर्गेण संमिश्रा रक्तवर्गपरिप्लुता ॥१९३॥रक्तवर्गकृतालेपा समुक्ता स्वर्णकर्मसु ।शुक्लवर्गेण संमिश्रा शुक्लवर्गपरिप्लुता ॥१९४॥शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शस्यते ।विड्वर्गेण तु संमिश्रा विड्वर्गेण परिप्लुता ॥१९५॥विड्वर्गेण कृतालेपा मूषा स्याद्द्रुतिजारणे ।क्षारवर्गेण संमिश्रा क्षारवर्गपरिप्लुता ॥१९६॥क्षारवर्गकृतालेपा मूषा निर्वहणे हिता ।मूषायामावर्तनविधिः॑ वर्णपुट (!)विषटङ्कणगुञ्जाभिर् मूषालेपं तु कारयेत् ॥१९७॥प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनम् ।तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः ॥१९८॥लेपवर्णे पुटे योज्या रक्तमृत्पटुभूखगाः ।आवर्तितद्रव्यस्वरूपम्आवर्तमाने कनके पीता तारे सितप्रभा ॥१९९॥शुल्बे जलनिभा तीक्ष्णे शुक्लवर्णा प्रशस्यते ।यन्त्रम् एवौषधीभ्यः स्याच्छ्रेष्ठं सूतस्य यन्त्रणे ॥२००॥ओषधीसहितेऽप्येषां रसो यन्त्रेण बध्यते ।कोष्ठीसत्त्वानां पातनार्थाय पतितानां विशुद्धये ॥२०१॥कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते ।आकरकोष्ठी अङ्गारकोष्ठी वाराजहस्तसमुत्सेधा तदर्धायामविस्तरा ॥२०२॥चतुरश्रा च कुड्येन वेष्टिता मृण्मयेन सा ।एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ॥२०३॥द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ।दोहल्यधो विधातव्यं धमनाय यथोचितम् ॥२०४॥प्रादेशप्रमिता भित्तिरुत्तराङ्गस्य चोर्ध्वतः ।द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ॥२०५॥ततश्चेष्टिकया रुद्ध्वा द्वारसन्धिं विलिप्य च ।शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ॥२०६॥शिखित्राधमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत् ।सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ॥२०७॥भवेद् आकरकोष्ठीयं खराणां सत्त्वपातने ।पातालकोष्ठीदृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ॥२०८॥वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ।चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ॥२०९॥गर्ताद्धरणिपर्यन्तं तिर्यग्दलसमन्वितम् ।किंचित् समुन्नतं बाह्यगर्ताभिमुखनिम्नकम् ॥२१०॥मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोपरि क्षिपेत् ।आपूर्य कोकिलैः कोष्ठीं प्रधमेदेकभस्त्रया ॥२११॥पातालकोष्ठिका ह्येषा मृदूनां सत्त्वपातने ।ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ॥२१२॥गारकोष्ठीद्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ॥२१३॥भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ।शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः ॥२१४॥वङ्कनालम्मूषामृद्भिः प्रकर्तव्यम् अरत्निप्रमितं दृढम् ।अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ॥२१५॥वङ्कनालमिति प्रोक्तं दृढाध्मानाय कीर्तितम् ।गारकोष्ठी (चोन्त्.!)गारगोष्ठीयमादिष्टा सृष्टलोहविनाशिनी ॥२१६॥कोष्ठी बन्धरसादीनां विधानाय विधीयते ।द्वादशाङ्गुलकोत्सेधा सा बुध्ना चतुरङ्गुला ॥२१७॥तिर्यक्प्रधमना या सा मृदुद्रव्यविशोधनी ।रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ॥२१८॥नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ।लोहादेरपुनर्भावो गुणाधिक्यं तथोग्रता ॥२१९॥अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ।पुटाद्रागो लघुत्वं च शीघ्रं व्याप्तिश्च दीपनम् ॥२२०॥जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ।यथाश्मनि विशेद्वह्निर्बहिःस्थः पुटयोगतः ॥२२१॥चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् ।पाच्यमानौषधं क्षिप्त्वा शरावद्वयसम्पुटे ॥२२२॥रुद्ध्वा गरुण्डपचनं पुटं तदिति कथ्यते ।महापुटम्निम्नविस्तरतः कुण्डे द्विहस्ते चतुरश्रके ॥२२३॥वनोत्पलसहस्रेण पूरिते पुटनौषधम् ।कोष्ठ्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ॥२२४॥वनोत्पलसहस्रार्धं कोविकोपरि निक्षिपेत् ।वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ॥२२५॥गजपुटम्राजहस्तप्रमाणेन चतुरश्रं च निम्नकम् ।पूर्णं चोपलशाठीभिः कण्ठावध्यथ विन्यसेत् ॥२२६॥विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ।पूर्वच्छगणतोऽर्धानि गरुण्डानि विनिक्षिपेत् ॥२२७॥एतद्गजपुटं प्रोक्तं महागुणविधायकम् ।वाराहपुटम्इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥२२८॥कुक्कुटपुटम्पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रयम् ।तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥२२९॥कपोतपुटम्यत्पुटं दीयते भूमावष्टसंख्यैर्वनोत्पलैः ।तद्बालसूतभस्मार्थं कपोतपुटमुच्यते ॥२३०॥गोर्वरपुटम्गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।गोर्वरं तत्समादिष्टं वरिष्ठं रससाधने ॥२३१॥गोवरपुटगोर्वरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।तद्गोर्वरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥२३२॥भाण्डपुटम्स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥२३३॥वालुकापुटम्अधस्तादुपरिष्टाच्च कोविका छाद्यते खलु ।वालुकाभिः प्रतप्ताभिर्यन्त्रं तद्वालुकापुटम् ॥२३४॥भूधरपुटम्वह्निमत्यां क्षितौ सम्यङ्निखन्याद्द्व्यङ्गुलादधः ।उपरिष्टात्पुटं यन्त्रं पुटं तद्भूधराह्वयम् ॥२३५॥लावकपुटम्ऊर्ध्वं षोडशिकामात्रैस्तुषैर्वा गोर्वरैः पुटम् ।यन्त्रं तल्लावकाख्यं स्यान्मृदुद्रव्यसुसाधने ॥२३६॥अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः ॥२३७॥कूपिकादिस्वरूपम्काचायोमृद्घटीनां च कूपिका चषकाणि च ।रूपिका कूपिका सिद्धा गोलं चैव करण्डकम् ॥२३८॥चषकं च कठोरी च वाटिका खोरिका तथा ।कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि ॥२३९॥रसोपरसलोहानां त्रिधा संस्कारवह्नयः ।गरुण्डकाष्ठकोलीशसाधनास्ते पृथक्त्रिधा ॥२४०॥गरुण्डसाधनास्तेषु पुटं कुक्कुटसंज्ञकम् ।वराहपुटसंज्ञं हि गजसंज्ञं पुटे भवेत् ॥२४१॥श्रेष्ठा वनोद्भवच्छाणा मध्यमा गोष्ठसम्भवाः ।अधमा कृत्रिमं काष्ठं खदिरासनसम्भवम् ॥२४२॥अथवा सारवृक्षोत्थं वितस्तिद्वयदीर्घकम् ।स्थूलप्रकोष्ठमात्रं तु श्रेष्ठं सूतेन्द्रपाचने ॥२४३॥मृदुमध्यमचण्डाग्निसंज्ञं स्याद्दारुसाधनम् ।अङ्गाराः खदिरोद्भूतास् त्रिफलावृक्षसम्भवाः ॥२४४॥कर्षाः सारतरूद्भूताः श्रेष्ठा धमनकर्मणि ॥२४५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP