संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ३ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ३ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ३ Translation - भाषांतर रसदीक्षाक्रमःअथ दीक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिनीम् ।सा च पञ्चविधा प्रोक्ता समयादिविभेदतः ॥१॥समया प्रथमा दीक्षा साधकाख्या द्वितीयका ।निर्वाणाख्या तृतीया च चतुर्थ्याचार्यसंज्ञका ॥२॥पञ्चमी सिद्धसंज्ञा च प्रायशो दुर्लभा नृणाम् ।पूर्वोक्तलक्षणोपेतः शिष्यो भक्तिनतः शुचिः ॥३॥गुरुं प्रणम्य चाष्टाङ्गं स्तुत्वा च बहुधा ततः ।अनुगृह्णीष्व मे दीक्षामिति विज्ञापयेद्गुरुम् ॥४॥दीक्षां च विधिवत्प्राप्य शिष्यः सर्वार्थदृग्भवेत् ।दीक्षायोग्याः शुभतिथ्यादयःअश्विनीमूलरेवत्यो मृगः पुण्यः पुनर्वसुः ॥५॥रोहिणी श्रवणो मैत्रं हस्तः स्यादुत्तरात्रयम् ।मघाश्विनी श्रेष्ठतमा दीक्षाकर्मणि तारकाः ॥६॥तृतीया पञ्चमी चैव सप्तमी च चतुर्दशी ।अष्टमी पौर्णमासी च दशमी च त्रयोदशी ॥७॥एतास्तु तिथयो मुख्याः सौम्येन्दुगुरुभार्गवाः ।आदित्य इति वारेषु रसदीक्षा सुशोभना ॥८॥समयादीक्षाक्रमःशुक्लपक्षे सुयोगे च करविष्टिविवर्जिते ।चन्द्रताराबलोपेतविषुवायनसंक्रमे ॥९॥ग्रहणे शिवरात्रे च जन्मर्क्षे सुमुहूर्तके ।शुभग्रहे सिद्धयोगे दद्याद्दीक्षां गुरूत्तमः ॥१०॥रसशालां प्रविश्याथ सर्वोपकरणोज्ज्वलाम् ।पुष्पमालासमाकीर्णामुत्तोरणपताकिनीम् ॥११॥नित्यपूजाग्निकार्यं च कृत्वा दीक्षाक्रमं भजेत् ।देवस्य दक्षिणे पार्श्वे विस्तरे तण्डुलान् श्रितान् ॥१२॥चतुरश्रं च तन्मध्ये क्षिपेत्प्रस्थं सुतण्डुलम् ।तदूर्ध्वं विन्यसेत्कुम्भं सितसूत्रेण वेष्टितम् ॥१३॥वासोभ्यां वेष्टितं सूतपञ्चरत्नसमन्वितम् ।पञ्चमृत्पल्लवत्वग्भिः पावितं जलपूरितम् ॥१४॥दूर्वागन्धोत्तमतिलहेमदर्भाक्षतान्वितम् ।शिवसंज्ञमिदं कुम्भं शिवरूपं विचिन्तयेत् ॥१५॥तद्वामभागे संस्थाप्य वर्धनीसंज्ञकं घटम् ।शक्तिरूपं च पूर्वोक्तसर्वद्रव्यसमन्वितम् ॥१६॥परितः सर्वतोभद्रं श्रीगौरीतिलकं लिखेत् ।नन्द्यावर्तं स्वस्तिकं च पञ्चवर्णविराजितम् ॥१७॥प्रक्षाल्य पादौ पाणी च समाचम्य गुरूत्तमः ।निजासनं समासाद्य प्राणायामत्रयं तथा ॥१८॥शिष्यस्यास्यायुरारोग्यसंपत्संतानवृद्धये ।मुक्तये चाष्टसिद्ध्यै च संकल्प्याभ्यर्चयेच्छिवम् ॥१९॥गन्धपुष्पाक्षैर्धूपैर्दीपैर्नैवेद्यदर्शनैः ।शिवकुम्भं वर्धनीं च पूजयेत्सोपचारकम् ॥२०॥रसाङ्कुशीं मूलमन्त्रं प्रजपेच्च सहस्रकम् ।तद्दशांशं हुनेत्कुण्डे त्रिकोणे लक्षणान्विते ॥२१॥फलं त्रिमधुसंयुक्तं ततो गन्धोत्तमान्वितम् ।क्रमादावृतिदेवांश्च चतुर्थ्यां स्वस्वनामकम् ॥२२॥स्वाहान्तं प्रणवादिं च समुच्चार्य हुनेद्धविः ।शिवत्रयं पुरा देवि ततः सिद्धत्रयं यजेत् ॥२३॥ततो गुरुत्रयं देवि कुलवृद्धान् गुरूत्तमः ।योगिनीं पूजयित्वा तु लब्धानुज्ञो गुरुस्ततः ॥२४॥स शक्तिमानन्दशिवमूर्तिमाराधयामि च ।तथा परानन्दशिवमूर्तिमाराधयामि च ॥२५॥एवं त्रिसिद्धमूर्तिं च श्रीबीजसहितं यजेत् ।एवं त्रिगुरुमूर्तिं च मारबीजयुतं यजेत् ॥२६॥तत्त्वत्रयं गृहीत्वा च पुनर्न्यासं समाचरेत् ।स्वयं शिवतनुर्भूत्वा शिवोऽहमिति भावयेत् ॥२७॥हृष्टं शक्तियुतं शिष्यं शिवद्रष्टा विलोकयेत् ।स्ववामपार्श्वे संस्थाप्य तन्मूर्धनि विनिक्षिपेत् ॥२८॥मूलाभिमन्त्रितं भस्म तन्नेत्रं वस्त्ररोधितम् ।कृत्वा तन्मूर्ध्नि संप्रोक्ष्य शिववर्धनिवारिणा ॥२९॥त्रिधा स्वदक्षिणे हस्ते शिवं सावरणं यजेत् ।विज्ञेयः शिवहस्तोऽयं भवपाशनिकृन्तनः ॥३०॥अङ्कुशीमूलमन्त्रं च त्रिवारं च समुच्चरेत् ।शिष्यदक्षिणकर्णे च कुर्यान्मन्त्रोपदेशकम् ॥३१॥पूर्वं गणपतेर्मन्त्रं क्षेत्रपालमनुं ततः ।ऋषिस्तु गणकश्छन्दो न्यृचिद्गायत्रिका स्मृतम् ॥३२॥देवो गणपतिर्ज्ञेयो न्यासं बीजाक्षरेण च ।आदिवर्गतृतीयार्णं सार्धचन्द्रं गणाख्यकम् ॥३३॥पतिं चतुर्थ्या संयुक्तं नमोऽन्तं मनुमुच्चरेत् ।पाशाङ्कुशं मोदकं च बिभ्राणं स्वविपाणकम् ॥३४॥गजाननं प्रवालाभं मकुटेन्दुकलाधरम् ।तुन्दिलं गणनाथं च ध्यात्वा लक्षं जपेन्मनुम् ॥३५॥दशांशं तर्पणं होमं सगुडं सतिलं हुनेत् ।कषबिन्दुयुतं क्षेत्रपालं च सचतुर्थिकम् ॥३६॥नमोऽन्तं मनुमुच्चार्य न्यासं बीजाक्षरेण च ।छन्दः पङ्क्तिर्मुनिर्ज्ञेयो भृगुर्देवश्च भैरवः ॥३७॥चतुर्भुजं शूलपात्रवरदाभयशोभितम् ।कालाम्बुदनिभं नागभूषणं किङ्किणीस्रजम् ॥३८॥त्रिनेत्रं वक्रदंष्ट्रं च ध्यात्वा लक्षं जपेन्मनुम् ।दशांशं तर्पणं होमं पायसं त्रिमधुप्लुतम् ॥३९॥हुनेदिति समादिश्य सामयाचारिकं भजेत् ।देवतापरिचर्यां च शुश्रूषां च गुरोः कुरु ॥४०॥अतन्द्रितो जपं कुर्यात् शास्त्रश्रवणमादरात् ।पूर्वोक्ताचारमार्गेण निरतो भव संततम् ॥४१॥प्रह्वः कृताञ्जलिर्भूत्वा करिष्यामि तथा प्रभो ।धन्योऽहं कृतकृत्योऽस्मि श्रीनाथ त्वत्प्रसादतः ॥४२॥इति विज्ञापयेच्छिष्यः समयाचारबृंहितः ।प्रातस्तरां समुत्थाप्य गुरूंश्च शिरसि स्मरेत् ॥४३॥निवेद्यावश्यकं कर्म स्नातः संध्यां समाचरेत् ।नद्यास्तीर्थे तटाके वा पुष्करिण्यां शुचौ जले ॥४४॥उपस्पृश्य च संकल्प्य नित्यतर्पणमाचरेत् ।आदौ शिवत्रयं विघ्ननाथं क्षेत्राधिपं हरिम् ॥४५॥ब्रह्माणं भास्करादींश्च ग्रहान् दुर्गां च मातृकाः ।भैरवानसिताङ्गादीन् ततः सिद्धत्रयं वदेत् ॥४६॥आदिनाथं मीननाथं गोरक्षं कोङ्कणेश्वरम् ।जालन्ध्रेशं कन्धनीशम् ओड्डीशं चिञ्चिणीश्वरम् ॥४७॥चौरङ्गिम् एतान् नाथाख्यान्नव संतर्पयेत्ततः ।चौरङ्गिं चर्पटिं घोडाचूलिं रामद्वयं ततः ॥४८॥भोलगोविन्दसिद्धं च व्याडिं नागार्जुनं तथा ।कोरण्डं शूर्पकर्णं च मुक्तायीं रेवणं तथा ॥४९॥सिद्धं कुक्कुरपादं च शूर्पपादं कणैरिकम् ।सिद्धं किङ्किणिकाख्यं च सिद्धान् षोडश तर्पयेत् ॥५०॥ततो गुरुत्रयं तर्प्य मातरं पितरं गुरुम् ।आचार्यं भ्रातरं मित्रं तर्प्य चान्यान्कुलोद्भवान् ॥५१॥तर्पयेद्विधिनाचम्य देवताराधनं ततः ।नद्यास्तीरे तटाके वा गोष्ठे देवालये तथा ॥५२॥शुचिस्थले वा संस्तीर्य सैकतं वर्तुलाकृतिम् ।आवाहयेद्दिनाधीशं पाटलं शिवरूपिणम् ॥५३॥द्विनेत्रपद्मयुगलधारिणं द्विभुजं परम् ।रक्तस्रगम्बरालेपभूषापद्मासनोज्ज्वलम् ॥५४॥ध्यात्वार्चयेद्रक्तपुष्पैस्ततो विघ्नेशभैरवौ ।ध्यात्वा पूर्वोक्तवत्तौ द्वौ रक्तपुष्पैः समर्चयेत् ॥५५॥अष्टाङ्गदण्डप्रणतिं कुर्यात् द्वादशवारकम् ।पुनः संस्थापयेत्स्वान्ते सेवायै स्वगुरोर्व्रजेत् ॥५६॥इत्युक्ता समया दीक्षा साधका कथ्यतेऽधुना ।साधकदीक्षासमयाचारनिरतं सच्छिष्यं पक्वमानसम् ॥५७॥दीक्षयेत्सुदिने लग्ने दीक्षया साधकाख्यया ।कुर्यान्नैमित्तिकीं पूजां शिष्यमावाहयेद्गुरुः ॥५८॥स्वयं शिवतनुः शिष्यं गौरीगर्भगतं स्मरेत् ।भूमौ विभूतिं संस्तीर्य तस्मिन्कोणत्रयं लिखेत् ॥५९॥तत्रोपवेश्य शिष्यं च बन्धयित्वा विलोचने ।गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥६०॥जातकर्म च दीक्षाङ्गं नामधेयं च कल्पयेत् ।व्रतकर्मणि सम्प्रोक्ष्य मूलमन्त्रेण भस्मना ॥६१॥गौरीपुत्रं भावयित्वा तस्य दीक्षां प्रकल्पयेत् ।शिवदृष्ट्या विलोक्यामुं शिवभस्म च मूर्धनि ॥६२॥निधाय मूलमन्त्रं च पूजयेद्दशवारकम् ।तस्य दक्षिणकर्णे च उपदिश्याद् दशाक्षरम् ॥६३॥रसगायत्रीरसेन्द्रभैरवं मन्त्रं गायत्रीं रससंज्ञिकाम् ।स बिन्दुहुतभुग्बीजं रसेन्द्रस्य पदं ततः ॥६४॥भैरवं च चतुर्थ्यन्तं कर्मास्त्रं च दशांशकम् ।वह्निबीजं दीर्घयुक्तं करन्यासं समाचरेत् ॥६५॥अघोराख्य ऋषिश्छन्दो विराड्देवो महेश्वरः ।पूर्वसेवाजपं लक्षं दशांशं होमतर्पणम् ॥६६॥तिलाज्यव्रीहिभिः कुर्याद्धोमं निश्चलमानसः ।पूर्वोक्तां रसगायत्रीं जपेल्लक्षं च तर्पणम् ॥६७॥हुनेद्दशांशमाज्येन सतिलव्रीहिभिः प्रिये ।दद्याच्छिष्यायाक्षमालां रसलिङ्गं रसागमम् ॥६८॥पूर्वोक्ताचारवान् भूत्वा रसलिङ्गं समर्चयेत् ।स्वशास्त्रार्थावगमनं कुर्यात्सूतेन्द्रसंस्कृतिम् ॥६९॥गुरुसेवारतं नित्यं शिष्यमाज्ञापयेदिति ।शिष्यो बद्धाञ्जलिर् नम्रस्तवाज्ञाम् आचराम्यहम् ॥७०॥इत्युक्ता साधका दीक्षा निर्वाणाख्या प्रशस्यते ।निर्वाणदीक्षाकृतनित्यक्रियः पूर्वं कृतनैमित्तिकार्चनः ॥७१॥पूर्ववच्छिवकुम्भादि वर्धनीं स्थापयेत्क्रमात् ।स्ववामे भस्म संस्तीर्य षट्कोणं भूगृहं लिखेत् ॥७२॥शिष्यं संवेश्य कुम्भस्थजलैः संप्रोक्षयेद्गुरुः ।मूलाभिमन्त्रितं भस्म तस्य मूर्ध्नि निक्षिपेत् ॥७३॥गन्धपुष्पाक्षतं दद्यात् बध्नीयाद्दक्षिणे करे ।कङ्कणं चरणाङ्गुष्ठब्रह्मरन्ध्रान्तमानकम् ॥७४॥सूत्रं तन्मूलमन्त्रेण मन्त्रितं सुरभीकृतम् ।शिवहस्तं च तन्मूर्ध्नि निधाय गुरुसत्तमः ॥७५॥रसांकुशां द्वादशार्णाम् उपदिश्यान् मनुं परम् ।रसभैरवदैवत्यं दद्याच्छिष्याय देशिकः ॥७६॥ऋषिश्छन्दो देवता च न्यासं पूर्वोक्तवत्प्रिये ।तर्पणं चाथ होमं च ध्यानं कुर्याच्च पूर्ववत् ॥७७॥उत्थाय च गुरुं नत्वा बहुशः स्तोत्रमुच्चरेत् ।गुरुः शिष्याय वै दद्याद्व्याघ्रचर्मासनं च यत्र ॥७८॥भस्त्रिकां वस्त्रसम्पूर्णां दद्याद्भैषज्यभस्त्रिकाम् ।रसागमं पाठयित्वा भव शिष्य चिकित्सकः ॥७९॥रुद्ररूपी भवान् जातः सर्वभूतहितो भव ।इत्यादिशेद्गुरुः शिष्यं शिष्यो हृष्टमनास्ततः ॥८०॥कृतकृत्योऽस्मि पूतोऽस्मि तीर्णसंसारसागरः ।इति विज्ञापयेच्छिष्यः स्तुत्वा च बहुधा गुरुम् ॥८१॥प्रोक्ता निर्वाणदीक्षेयम् अथाचार्याभिषेचनम् ।आचार्यदीक्षानिर्वाणदीक्षितस्यास्य शिष्यस्यापि महात्मनः ॥८२॥आचार्यदीक्षां कुर्वीत यथावद्गुरुसत्तमः ।यथा निर्वाणदीक्षायास्तथा सर्वं प्रकल्पयेत् ॥८३॥विशेषाच्छिववर्धन्योः पुरतः स्थापयेद्घटम् ।रूप्यगन्धादिलोहाशादिव्यौषधगणान्वितम् ॥८४॥शिवकुम्भवदन्यच्च सर्वमस्मिन् विनिक्षिपेत् ।गुरुकुम्भं जपेत्स्पृष्ट्वा मूलमष्टोत्तरं शतम् ॥८५॥गुरुकुम्भमिमं विद्धि गुरुमन्त्रेण पूजयेत् ।आवाहनासनार्घ्याद्यैर् उपचारैश्च षोडशैः ॥८६॥शिवादिपङ्क्तिं तत्रैव पूजयेद्गुरुणा सह ।यथापूर्वं समासीनं शिष्यं चैकाग्रमानसम् ॥८७॥पूर्ववच्छिववर्धन्योरम्बुना परिषेचयेत् ।पूर्ववच्छिवहस्तं च मूलमन्त्रोपदेशकम् ॥८८॥कृत्वा तदुत्तमाङ्गे च गुरुपङ्क्तिं गुरुं तथा ।आवाहनाद्यैः सम्पूज्य गन्धस्रग्दीपकैः ॥८९॥फलगन्धोत्तमोपेतैर्नैवेद्यैः पूजयेत्क्रमात् ।गुरुः कुम्भजलैः कुर्यात्प्रोक्षणं पञ्चपल्लवैः ॥९०॥मूलमन्त्रेण शतधा शिवपङ्क्त्या त्रिसप्तधा ।तथैव सिद्धपङ्क्त्या च गुरुपङ्क्त्या तथैव च ॥९१॥शिष्याय गुरुभक्ताय शक्तियुक्ताय धीमते ।हारकेयूरकटकमुद्रिकामकुटानि च ॥९२॥वाहनासनसच्छत्रचामरव्यजनानि च ।मणिकुण्डलयुग्मं च भूत्याढ्यं पात्रमक्षयम् ॥९३॥सशिरस्त्राणमुष्णीषं पट्टकूर्पासमुत्तमम् ।योगपट्टं योगदण्डं तथैवोड्याणबन्धनम् ॥९४॥दद्यात्तस्मै तथैवाज्ञां त्वमाचार्योऽसि संप्रति ।ईश्वरोऽस्यद्य धन्योऽसि सर्वेषां देशिको भव ॥९५॥रसागमानां दिव्यानां व्याख्याता भव तत्त्ववित् ।इत्यादिशेद्गुरुः शिष्यं प्रणतं गुरुवत्सलम् ॥९६॥इति चाचार्यदीक्षेयं सिद्धदीक्षाद्य कथ्यते ।सिद्धदीक्षानवं सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥९७॥वीराः शक्तियुताः पूज्याः एकविंशति चान्वहम् ।तत्संख्या योगिनः पूज्याः कुमाराः कन्यकाः स्त्रियः ॥९८॥गन्धपुष्पाक्षतैः पुष्पैः फलगन्धोत्तमार्पणैः ।तोषयित्वा प्रदद्याच्च वस्त्राभरणदक्षिणाः ॥९९॥अथासनसमासीनं शिष्यं भक्तियुतं शुचिम् ।स्पृष्ट्वा कराभ्यां तच्छीर्षं दक्षिणे श्रवणे मनुम् ॥१००॥वह्निं सबीजं शीतांशुं सविसर्गं च दीक्षयेत् ।मूलाधारात्समुद्भूतं रेफं वह्निशिखोपमम् ॥१०१॥षडाधाराम्बुजं तीर्त्वा ब्रह्मरन्ध्रान्तगं स्मरेत् ।ब्रह्मरन्ध्राद्द्रवीभूतं सकारं सोमरूपिणम् ॥१०२॥आप्लावयन्तं सर्वाङ्गं सिद्धः संचिन्तयेन्मनुम् ।उच्छ्वासनिश्वासभवं संहारस्थितिकारणम् ॥१०३॥ज्ञात्वेत्थं मनसा नित्यं सर्वमन्त्रात्मकं सदा ।सर्वदेवमयं पुण्यं सर्वसिद्धिप्रदायकम् ॥१०४॥जीवतो मुक्तिदं शुद्धं शिवशक्त्यात्मकं परम् ।रसमन्त्रमिमं विद्धि चाग्नीषोमात्मकं भज ॥१०५॥एकविंशतिसाहस्रषट्शताधिकसंख्यकम् ।प्रवर्तितं दिवारात्रं मनस्तत्र निधेहि च ॥१०६॥मन्त्रस्यास्य ऋषिर्जीवश् छन्देत्युक्ताः प्रकीर्तिताः ।रसो देवस्तु रं बीजं सं शक्तिस्तु प्रकीर्तितः ॥१०७॥रेफदीर्घयुतं कुर्यात्कराङ्गन्यासमाचरेत् ।ध्यायेद्धृदम्बुजे देवि कोटिसूर्येन्दुसन्निभम् ॥१०८॥शुद्धस्फटिकसंकाशं रसं संसारपारदम् ।एवं निष्कलरूपं तं ध्यात्वा तन्मयतां व्रजेत् ॥१०९॥निष्कलरसस्तोत्रम्त्वं रसस्त्वं शिवस्त्वं हि शक्तिस्त्वं भैरवेश्वरः ।त्वं ब्रह्मा त्वं हि रुद्रश्च सूर्यस्त्वं शीतदीधितिः ॥११०॥त्वं भूस्त्वं सलिलस्त्वं च वह्निस्त्वं च सदागतिः ।त्वं व्योम त्वं पराकाशः त्वं जीवस्त्वं परा गतिः ॥१११॥त्वं सिद्धस्त्वं प्रबुद्धस्त्वं सुगन्धस्त्वं च मन्मथः ।त्वं लोकपालस्त्वं तारा मातृकास्त्वं गजाननः ॥११२॥त्वं स्कन्दस्त्वं गुरुस्त्वं च त्वं सर्वजनकः शुचिः ।त्वं यज्वा त्वं हरिस्त्वं च त्रेताग्निस्त्वं च ऋत्विजः ॥११३॥येन त्वमर्च्यसे तेन पूजिताः सर्वदेवताः ।त्वयि तुष्टे च संतुष्टा ब्रह्मविष्णुमहेश्वराः ॥११४॥त्वत्पादोदकपानेन सर्वतीर्थफलं लभेत् ।यस्त्वां पश्यति सद्भक्त्या तम् आलोकयते शिवः ॥११५॥यस्त्वां संकीर्तयेत्तस्य सर्वमन्त्रफलं भवेत् ।यत्र त्वं क्षणमात्रे च पुण्यक्षेत्रं तदुच्यते ॥११६॥त्वं यं पश्यति सिद्धेन्द्र स ब्रह्मा विष्णुरीश्वरः ।यत्र भुङ्क्षे ऽन्नकवलं तत्र त्रैलोक्यमति हि ॥११७॥येन त्वं ध्रियसे नाथ त्वयायं स्त्रियतेक्षणम् ।स एव चित्सदानन्दः परमात्मा ध्रुवं भवेत् ॥११८॥एवं निश्चितचित्तस्य सिद्धस्य तव योगिनः ।वर्णाश्रमसदाचाराः कृत्याकृत्यविवेकतः ॥११९॥पापं पुण्यं सुखं दुःखं शीतमुष्णं प्रियाप्रिये ।स्नानास्नानं हानिवृद्धी शुद्धाशुद्धं भयाभयम् ॥१२०॥ग्राह्याग्राह्यं क्षुधा तृष्णा न किंचिद् इह विद्यते ।स्वेच्छाहारविहारश्च सुखी संहृष्टमानसः ॥१२१॥निर्ममः सर्वकार्येषु कलत्रादिषु बन्धुषु ।एवमाचार्यवचनमङ्गीकृत्य च दीक्षितः ॥१२२॥अद्य प्रभृति वन्द्यस्त्वं मा कुरु प्रणतिं क्वचित् ।मत्समानोऽसि सिद्धोऽसि जीवन्मुक्तोऽसि संप्रति ॥१२३॥इत्युक्त्वाचार्यवर्योऽपि सिद्धमालिङ्ग्य च क्षणम् ।सिद्धदीक्षेयमाख्याता शिवसायुज्यदायिनी ॥१२४॥दुर्लभा सर्वतन्त्रेषु तव प्रीत्या प्रकाशिता ।देवीत्थमेव मन्तव्यं दुर्लभं समयेषु च ॥१२५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP