संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २० रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २० रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २० Translation - भाषांतर योगरसायनम्श्रीभैरवी ।देवदेव कृपाम्भोधे कालकन्दर्पनाशन ।अष्टमूर्ते महामूर्ते पञ्चकृत्यपरायण ॥१॥प्रपञ्चितं जगत्सर्वं त्र्यम्बक त्रिपुरान्तक ।जटाकलितभोगीन्द्रफूत्कारक्लान्तचन्द्रमः ॥२॥सूर्येन्दुवह्निनयन स्मेरपञ्चानन प्रभो ।कुण्डलाहिफणारत्नद्योतमानकपोलभूः ॥३॥कुन्दाग्रदन्तसुभगपल्लवाधरशोभित ।हालाहलासितगल सप्तभोगीन्द्रभूषण ॥४॥महाहिवलयप्रोद्यदष्टादशभुजोज्ज्वल ।सर्वदिव्यायुधोपेत वरव्याघ्राजिनांबर ॥५॥नमत्सुरासुराधीशमकुटोत्पलरश्मिभिः ।नीराजितपदद्वन्द्व योगिजन्मजरापह ॥६॥सच्चिदानन्दविभव प्रसन्न करुणाम्बुधे ।ओङ्कारगम्य विमलातर्क्याचिन्त्याप्रमेय भोः ॥७॥स्तोता स्तुत्यः स्तुतिस्त्वं हि कर्ता कार्यं च कारकः ।सर्वोऽपि हि त्वमेवासि प्रसीद परमेश्वर ॥८॥त्वन्मायया जगत्सर्वं सृष्टं त्रातं हतं तथा ।त्वं भूस्त्वमापस्त्वं वह्निस्त्वं वायुस्त्वं नभः शशी ॥९॥रविस्त्वं परमात्मा त्वं गुणास्त्वं प्रकृतिस्तथा ।पुरुषस्त्वं मनस्त्वं च बुद्धिश्चित्तमहंकृतिः ॥१०॥रसायनं च सकलमाख्यातुं च सविस्तरम् ।आज्ञापयाहं यदि ते हृद्या प्राणप्रिया विभो ॥११॥जीवन्मुक्तिः कथं नाथ योगरूपं च कीदृशम् ।अनुगृह्णीष्व देवेश सुखोपायं भवापहम् ॥१२॥श्रुत्वा स्तुतिं स्मितमुखो भैरवः परया मुदा ।उवाच देवीं कल्याणीं पर्वताधिपनन्दिनीम् ॥१३॥श्रीभैरवः ।साधु साधु महामाये सर्वं वेत्सि सनातने ।तथापि पृच्छसीशानि लोकानां हितकाम्यया ॥१४॥प्रवक्ष्यामि समासेन सावधानं शृणु प्रिये ।त्वत्तोऽन्या वल्लभा का मे रहस्यार्थविभाषणे ॥१५॥जीवन्मुक्तलक्षणम्शृणु वक्ष्यामि देवेशि जीवन्मुक्तस्य लक्षणम् ।कामं क्रोधं भयं लोभं मदं मोहं च मत्सरम् ॥१६॥मानं लज्जां कुलं शीलं कुत्सां दम्भं च वञ्चनाम् ।अविद्यां जडतां गर्वं शीतमुष्णं तथातपम् ॥१७॥वातं सुखं च दुःखं च पापं पुण्यं हिताहितम् ।तापत्रयं पुत्रमित्रकलत्रादीनि यस्त्यजेत् ॥१८॥न सक्तः सर्वविषये तत्त्वचिन्तापरायणः ।पद्मपत्रम् इवाम्भोभिर् निर्लिप्तहृदयो भवेत् ॥१९॥मैत्रीकृतातटोपेक्षामदैतैर् मण्डिताशयः ।ऐहिकामुष्मिकसुखप्राप्तिकार्याविरक्तधीः ॥२०॥नित्यानित्यविवेकज्ञो ह्यन्तःकरणनिग्रहः ।जरामरणहीनश्च शिवसामरसात्मवान् ॥२१॥जीवन्मुक्तः स विज्ञेयस्तीर्णसंसारसागरः ।देवदैत्यादिभिर्वन्द्यः स सेव्यः स गुरुः शिवः ॥२२॥यथाहं सर्वलोकेषु पूजनीयो महेश्वरि ।तथासौ सर्वलोकेषु सर्वैः सम्पूज्यते सदा ॥२३॥देहान्तेषु तु मुक्तिर्या प्राणिनां साप्रयोजना ।देहान्ते देहिनः सर्वे मुक्तिं यान्ति न संशयः ॥२४॥भगसंद्रावणान्मुक्तिर् भवेच्चेद् गर्दभादयः ।पक्षिणो वृषभा मेषाः किं मुक्तास्त्रिपुराम्बिके ॥२५॥रेतोविण्मूत्रसेवायां यदि मुक्तिर्भवेत्प्रिये ।कपिश्च सूकराद्याश्च कथं मुक्ता भवन्ति ते ॥२६॥न केवलामरत्वाच्च न शिवत्वाद्भवेत्तथा ।तद्द्वयोर् मेलनाच्च स्याज्जीवन्मुक्तिरियं स्मृता ॥२७॥सर्वस्मिन्समये शास्त्रे मुक्तिरस्त्यन्तकालजा ।न दृश्यते करान्तस्थमणिवत्सा च शाम्भवि ॥२८॥अतिगोप्यमवाच्यं यद्देवानामपि दुर्लभम् ।कथयिष्यामि देवेशि देहस्थैर्यं सदातनम् ॥२९॥जीवन्मुक्तिसाधकशरीरस्थैर्यसंपादनोपायः॑ योगसिद्धिःशिवत्वं खेचरत्वं च सर्वसिद्धिप्रदं शुभम् ।देहं विना न किंचित् स्याद्देहोऽयं सर्वसाधनम् ॥३०॥तस्माद्देहं प्रयत्नेन रक्षयेत्सर्वतः सदा ।देहपाते धर्मनाशो धर्मनाशे क्रियाच्युतिः ॥३१॥क्रियाच्युतौ कुतो योगो योगभ्रंशे न चिद्भवेत् ।चिदभावे कुतो मोक्षो मोक्षे भ्रष्टे न किंचन ॥३२॥अन्योपायशतेनापि न देहो धार्यते सदा ।पारदः पवनश्च स्यात्सर्वसिद्धिद उत्तमः ॥३३॥संमूर्छितौ मृतौ बद्धावुभौ पवनपारदौ ।क्रमाद्रोगहरौ नित्यं मृत्युघ्नौ खेचरप्रदौ ॥३४॥रसः पूर्वं मया ख्यातोऽधुना वायुः प्रशस्यते ।वायोः संधारणाज्ज्ञानं ज्ञानान्मोक्षः प्रजायते ॥३५॥सर्वेषां देहमूलं स्यात्तत्स्थैर्ये पवनः प्रभुः ।परस्मादक्षरात्तस्मादाकाशं समभूत्ततः ॥३६॥वायुस्तस्माच्च दहनस्तस्मादापस्ततो मही ।एतेषां पञ्चभूतानामक्षरं कारणं परम् ॥३७॥व्योम शब्दात्मकं वायुः शब्दस्पर्शात्मको भवेत् ।वह्निः शब्दस्पर्शरूपमयः सलिलमुच्यते ॥३८॥शब्दरूपस्पर्शरसात्मकं भूमिर्विशेषतः ।शब्दरूपरसस्पर्शगन्धरूपा भवेत् प्रिये ॥३९॥भूवाय्वग्न्यनिलाकाशाधिष्ठात्र्यश्चैव देवताः ।ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ॥४०॥भूमिर् नष्टाम्बुसंमग्ना ताश्च ग्रस्ता महाग्निना ।स च चण्डसमीरेण शमितः सोऽपि पार्वति ॥४१॥व्योम्नि लीनः क्रमात् तस्माद् आकाशाद् उद्भवन्ति ते ।अन्तर्बहिः स्थितं व्याप्तं निराधारं निराश्रयम् ॥४२॥आकाशं चेतसा ध्यायन् प्रच्छिन्द्याद् भवबन्धनम् ।जगत्प्राणमयं वायुं चिदानन्दप्रदं जलम् ॥४३॥निश्चलीकुरुते युक्त्या वायुवत्स्यात्स खेचरः ।अनन्तार्काग्निसंदीप्तं दहन्तं जगतां त्रयम् ॥४४॥तेजो ध्यात्वा स्वहृदये नाग्निना स तु बाध्यते ।सुधातरङ्गनिकरप्लाव्यमानमहीतलम् ॥४५॥अप्तत्त्वं भावयन् स्वान्ते वारि तं न हि बाधते ।अभूतलचराक्रान्तं भूतलं भूतसंप्लवम् ॥४६॥हृदये भावयन्नित्यं तस्य नो पार्थिवं भयम् ।यद्यद्भावयते चित्ते तत्तद्रूपम् अवाप्नुयात् ॥४७॥यथाग्नित्वं व्रजेत् काष्ठः कीटो भ्रमरतां यथा ।योगाङ्गानिआसनं प्राणनियमः प्रत्याहारश्च धारणा ॥४८॥ध्यानं समाधिः षोढा स्युर्योगाङ्गानि क्रमेण च ।१. आसनविधिःचतुरशीतिलक्षाणि ह्यासनानि भवन्ति हि ॥४९॥तेषु मुख्यासने द्वे च सिद्धपद्मासने स्मृते ।सिद्धासनम्स्वयोनिं पादमूलेन चैकेन घटयेद् दृढम् ॥५०॥अन्यच्चरणमूलं च मेहनोपरि विन्यसेत् ।अवक्राङ्गः समासीनो वशीभूतेन्द्रियः प्रिये ॥५१॥निश्चलाक्षो भ्रुवोर्मध्यं पश्यन्निश्चलमानसः ।सिद्धासनमिदं ज्ञेयं मुक्तिमार्गप्रदायकम् ॥५२॥पद्मासनम्दक्षिणोरौ पदं वामं वामोरौ दक्षिणं पदम् ।विन्यस्य करयुग्मेन पृष्ठभागगतेन च ॥५३॥विपरीतेन चाङ्गुष्ठं वामं वामकरेण च ।दक्षिणं दक्षिणेनैव दृढं धृत्वा निजोरसि ॥५४॥विन्यस्य चुबुकं ध्यायेन्नासाग्रं संयतेन्द्रियः ।एतत्पद्मासनं ख्यातं सर्वरोगनिबर्हणम् ॥५५॥२. प्राणायामः॑ अजपामुद्राआधारं तु गुदस्थाने चतुर्दलसरोरुहम् ।वादिसान्ताक्षरोपेतं बालारुणसमप्रभम् ॥५६॥स्वाधिष्ठानं षड्दलाब्जं बादिलान्ताक्षरान्वितम् ।विद्युत्प्रभं ततो देवि रत्नाभं मणिपूरकम् ॥५७॥डादिफान्तार्णसंयुक्तं नाभौ दलशतात्मकम् ।अनाहतं सुवर्णाभं द्वादशच्छदपङ्कजम् ॥५८॥हृदये कादिठान्तार्णं विशुद्धिस्तु प्रशस्यते ।षोडशारं महापद्मं षोडशस्वरभूषितम् ॥५९॥आज्ञाचक्रं द्वयदलं पद्महस्तविराजितम् ।श्वेतमेवं क्रमाद्देवि षट्चक्रं समुदाहृतम् ॥६०॥नाभेर् अधस्तान्मेढ्रस्योपरिष्टात् कन्द उच्यते ।विहंगमाण्डसङ्काशस्तत्र नाडीसमुद्भवः ॥६१॥सप्ततिद्विसहस्राः स्युस्तासु मुख्या दश स्मृताः ।इडा च प्रथमा नाडी पिङ्गला च द्वितीयका ॥६२॥सुषुम्ना च तृतीया स्याद्गान्धारी च चतुर्थिका ।पञ्चमी हस्तिजिह्वा स्यात्षष्ठी पूषा तरस्विनी ॥६३॥सप्तम्यलम्बुषा नाडी चाष्टमी च कुहूः स्मृता ।नवमी शङ्खिनी चैव दशमी च क्रमेण हि ॥६४॥एतास्तु प्राणवाहिन्यो वायवस्तु जपाः स्मृताः ।प्राणापानौ तथा व्यानोदानौ चैव समानकः ॥६५॥नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ।सर्वेषु नाडीचक्रेषु वर्तन्ते दश वायवः ॥६६॥वामदक्षिणमार्गाभ्यामध ऊर्ध्वं च चञ्चलाः ।प्राणापानवशो जीवः प्रधावति न दृश्यते ॥६७॥हस्ताभ्यामाहतो भूमौ कन्दुको न स्थिरो यथा ।प्राणापानपरिक्षिप्तस्तथा जीवोऽपि न स्थिरः ॥६८॥प्राणापानसमाकर्षे तथा प्राणमपानतः ।बहिर्गच्छद्धकारेण सकारेणान्तराविशेत् ॥६९॥हंसः सोऽहं मनुममुं सदा जीवो जपेत् प्रिये ।एकविंशत्सहस्रं च षट्शताधिकमीश्वरि ॥७०॥हंसमन्त्रस्य संख्या स्यादहोरात्रेण सर्वदा ।हंसाख्योऽयं महामन्त्रो ह्यजपेति प्रकीर्तितः ॥७१॥जपाख्येयं च गायत्री यमिकैवल्यदायिनी ।एतत्समं तपो ज्ञानं जपः पुण्यं न किंचन ॥७२॥अनुच्चार्या ह्यवर्णा च कुण्डलिन्याः समुद्भवा ।प्राणसंचारिणी ह्येषा ज्ञातव्या योगिभिः सदा ॥७३॥माता कुण्डलिनी शक्तिः कन्दादूर्ध्वं प्रतिष्ठिता ।अष्टधा परिवृत्ता च प्रसुप्तभुजगाकृतिः ॥७४॥ब्रह्मद्वारमुखं सा तु स्वमुखेन पिधाय च ।तां च प्रबोधयेदादौ वह्नियोगेन पार्वति ॥७५॥वायुना मनसा सार्धं मध्यनाड्या व्रजेच्छिवे ।हठादाकुञ्चनाद् ब्रह्मद्वारम् उद्घाटयेत्तु सा ॥७६॥यथा नयेद्गुणं सूची तद्वद् ब्रह्मबिलं तु सा ।सुखं पद्मासनासीनः पाणी चोत्तानितौ प्रिये ॥७७॥अङ्कमध्ये निधायैव चुबुकं वक्षसि न्यसेत् ।दृढं गुदमुखं गाढम् आकुञ्च्यापानरन्ध्रकम् ॥७८॥मुहुर्मुहुर्वायुमूर्ध्वं चालयेत्त्वरितं प्रिये ।प्राणं मुञ्चन्कुण्डलिन्याः प्रभावान्मोक्षवर्त्मजम् ॥७९॥उपैति सत्प्रबोधं च देवानामपि दुर्लभम् ।तदोद्भूतैः श्रमजलैः स्वाङ्गानि परिमार्जयेत् ॥८०॥क्षीराहारी मितान्नाशी कट्वम्ललवणं त्यजेत् ।जितेन्द्रियो ब्रह्मचारी कुटीस्थः कर्मवर्जितः ॥८१॥एवमभ्यासनिरतो वत्सरात्सिद्धिमेति सः ।प्राणायामे मुद्राःजालन्धरं मूलबन्धम् ओड्डीयाणं च खेचरीम् ॥८२॥महामुद्रां च यः कुर्यात्स भवेद्देहसिद्धिभाक् ।एषां वक्ष्ये लक्षणानि गोप्यानि तव शाम्भवि ॥८३॥जालन्धरबन्धःजालन्धरं कण्ठसिरासमूहानां च बन्धनम् ।कृत्वाधो नमयित्वा कं तदा स्यन्दति मूर्धतः ॥८४॥नभस्तः स्यन्दमाना च सुधा दोग्धौ पतेन्न च ।न धावति मरुत्तत्र कर्णसंकोचने कृते ॥८५॥कर्णामयसमूहघ्नं मृत्युघ्नं तत्परं भवेत् ।मूलबन्धःमूलबन्धं पार्ष्णिभागाद्योनिस्थानं प्रपीडयेत् ॥८६॥गुदमाकुञ्चयेद्योगी नयेदूर्ध्वम् अपानकम् ।एवं कृते मूलबन्धे क्षीयते मलमूलकम् ॥८७॥प्राणापानौ च संयुक्तौ स्यातां वृद्धोऽपि यौवनम् ।प्राप्नुयान्मूलबन्धेन मृत्युथोपि विवस्वताम् ॥८८॥ओड्याणबन्धःओड्डियाणे नाभिविवरमूर्ध्वं जठरे दृढम् ।आकृष्य पश्चिमं तानं बन्धयेत्पवनस्तदा ॥८९॥विश्रान्तः स्यान्महामाये चोड्याणो ऽयं प्रकीर्तितः ।मृत्युदावानलो दीप्तो जरारोगाब्धिवाडबः ॥९०॥खेचरीमुद्राआस्यान्तर्विवरे जिह्वां तालुरन्ध्रे प्रवेशयेत् ।विपरीतां भ्रुवोर्मध्ये पश्येन्निश्चलया दृशा ॥९१॥एषा हि खेचरी मुद्रा गोपनीयातिदुर्लभा ।जिह्वा तु खगता यस्मान्मनश्चरति खे ततः ॥९२॥खेचरीति प्रसिद्धेयं मृत्युरोगजरापहा ।निद्रा क्षुधा तृषा नास्ति खेचर्या मुद्रितस्य च ॥९३॥मूर्च्छा भवति साध्वी च कर्मबन्धभयं न हि ।रमण्या संगतस्यापि रेतो न पतति ध्रुवम् ॥९४॥यावच्छुक्रं स्थिरं देहे तावत्कालभयं न हि ।येन बद्धा नभोमुद्रा बीजस्तस्य न गच्छति ॥९५॥यदि गच्छेत्तस्य बीजो हुताशनमुपैति हि ।स बीजश्चोर्ध्वमायाति शक्त्या प्रतिहतः स्वयम् ॥९६॥योनिमुद्रानिबद्धः सन्सा मुद्रा तेन दुर्लभा ।बीजस्तु द्विविधः प्रोक्तः शुक्रं चैव महारजः ॥९७॥शिरःस्थानगतं शुक्रं योनिस्थानगतं रजः ।शुक्रं तु श्वेतवर्णं स्यात्प्रवालाभं रजः स्मृतम् ॥९८॥शुक्रं चन्द्रगतं नित्यं रजः सूर्येण सङ्गतम् ।शुक्रं शिवो रजः शक्तिस्तया योगः सुदुर्लभः ॥९९॥मरुता शक्तिचारेण रजश्चोर्ध्वं प्रणीयते ।ऐक्यं तद्बिन्दुना याति तदा दिव्यं वपुर्भवेत् ॥१००॥महामुद्रावामाङ्घ्रिमूलभागेन योनिस्थानं प्रपीडयेत् ।दक्षिणाङ्घ्रिं च विततं हस्ताभ्याम् अभिधारयेत् ॥१०१॥हनुं वक्षसि निक्षिप्य वायुना जठरं ततः ।आपूर्य रेचयेद्देवि स्थित्वा बद्धासनो यमी ॥१०२॥एषा ख्याता महामुद्रा मलसंशोधनी वरा ।सूर्येन्दू घटयेज्जिह्वाशोषणी पापनाशिनी ॥१०३॥तथा दक्षिणपादेन योनिस्थानं प्रपीडयेत् ।वितत्य वामपादं च कराभ्यां धारयेत्प्रिये ॥१०४॥शेषं पूर्वोक्तवत् कुर्यादेवं सव्यापसव्ययोः ।भागयोः समकालः स्यादभ्यासस्तां विवर्जयेत् ॥१०५॥तस्य पथ्यमपथ्यं च षड्रसा नीरसा अपि ।घोरं विषं वातिसुखं पीयूषमिव जीर्यते ॥१०६॥गुल्मोदावर्तकुष्ठाद्या रोगा नश्यन्त्यसंशयम् ।सिद्धिदेयं महामुद्रा कालं हन्ति जराभयम् ॥१०७॥न प्रकाश्या न देया च यस्मै कस्मैचन प्रिये ।३. प्रत्याहारःमुक्तासनस्थितो योगी ऋज्वङ्गग्रीवमस्तकः ॥१०८॥घोणाग्रलोचनः स्वस्थः कुटीस्थः प्रणवं जपेत् ।त्रिलोकश्च त्रिकालश्च त्रिदेवास्त्रीश्वरा अपि ॥१०९॥त्रिज्योतींषीन्दुमुख्यानि त्रिवेदाश्चाग्नयस्त्रयः ।शक्तित्रयं त्रिपदवी ब्राह्मी चैन्द्री च वैष्णवी ॥११०॥वर्णत्रयं च भासन्ते यत्र तज्ज्योतिरोमिति ।तम् ओंकारं च मनसा वचसा कर्मणा तु यः ॥१११॥ध्यायेज्जपेदभ्यसेच्च स मुक्तो भवबन्धनात् ।गच्छंस् तिष्ठञ्जपञ्जाग्रच्छुचिर् वाप्यशुचिर् यदि ॥११२॥न कर्मणा च लिप्तः स्याज्जलेनाब्जदलं यथा ।वायौ चलति सर्वेऽपि चलन्तीन्द्रियधातवः ॥११३॥स्थिते वायौ स्थिरे सर्वं वपुःप्रभृति शाम्भवि ।तस्माद्वायुं निबध्नीयात्स्थिरे वाते स्थिरं मनः ॥११४॥स्थिरे मनसि जीवश्च स्थिरो भवति भैरवि ।यावत्संयमितो वायुर्यावच्चेतोऽपि सुस्थिरम् ॥११५॥बीजं यावद्भ्रुवोर्मध्ये तावत्कालभयं न हि ।षट्त्रिंशद्व्यङ्गुलं नित्यं ततः प्राणः प्रकीर्तितः ॥११६॥बद्धपद्मासने स्थित्वा ऋज्वङ्गः स्थिरमानसः ।वामनासापुटेनैव पूरयेत्प्राणमारुतम् ॥११७॥यावत्षोडशमात्रं च कुम्भयेद् द्वादश प्रिये ।रेचयेद्दशमात्रं च दक्षनासापुटेन च ॥११८॥पुनश्च सूर्यमार्गेण पूरयेत् पूर्ववत्प्रिये ।कुम्भयित्वा रेचयेच्च वामनासापुटेन च ॥११९॥प्राणायामविधिः प्रोक्तस्त्रिविधो योगिवन्दिते ।अधमो मध्यमो देवि ह्युत्तमोऽपि यथाक्रमम् ॥१२०॥प्रोक्तो ऽयम् अधमस् तस्माद् द्विगुणो मध्यमः स्मृतः ।उत्तमस्त्रिगुणः प्रोक्तः प्राणायामोऽयमीश्वरि ॥१२१॥यदा तु वामनासायां पूरयेच्चन्द्रमक्षरम् ।ध्यायेदमृतवारीशमध्यस्थं क्षीरसन्निभम् ॥१२२॥यदा तु दक्षनासायां पूरयेत् सूर्यमक्षरम् ।ज्वलज्ज्वलनसङ्काशं नाभिस्थं चिन्तयेत्सदा ॥१२३॥एवं बीजद्वयं ध्यात्वा नासारन्ध्रद्वयेन च ।पूरयेद्यस्तु मतिमान्नाडीशुद्धिरतो भवेत् ॥१२४॥एवं मासत्रयाभ्यासाद्यथेष्टं वायुधारणम् ।प्रदीप्तो जाठरो वह्निर्नादव्यक्तिश्च जायते ॥१२५॥आरोग्यं प्राप्नुयाद्देवि नित्यमभ्यासयोगतः ।प्रथमेयं न धर्मः स्याद्द्वितीये कम्पते वपुः ॥१२६॥उत्तिष्ठति तृतीये तु बद्धपद्मासनस्थितेः ।प्राणायामादिषट्केन प्रत्याहारो भवेच्छिवे ॥१२७॥तद्द्विषट्केन विधिना धारणा तु प्रशस्यते ।धारणाद्वादशेन स्याद्ध्यानं तद्द्वादशात्मकः ॥१२८॥समाधिः कथ्यते देवि तेन दृश्यं परात्परम् ।तस्मिन्परापरे धाम्नि क्षीयते कर्मसंचयः ॥१२९॥जन्ममृत्यू न भवतो जरारोगश्च नश्यति ।युक्तियुक्तेन योगेन चिरायुश्च सुखी भवेत् ॥१३०॥अयुक्त्याभ्यासनाद्धिक्काकर्णरोगशिरोव्यथा ।श्वासकासादयो रोगा दोषाः स्युर्बहवस्तथा ॥१३१॥विपरीतकरणीमुद्रासौम्यस्थानात्समायाता द्वाभ्यां चैका तु भुज्यते ।ततस्तृतीयो यः कश्चित्स स्याज्जन्मजरोज्झितः ॥१३२॥प्रज्वलज्ज्वलनाकारो नाभिमध्ये स्थितो रविः ।तालुमध्ये शशी भाति सुधां वर्षत्यधोमुखः ॥१३३॥तां ग्रसत्यूर्ध्ववदनो भास्करः किरणत्विषा ।एतस्य विपरीतं यत्करणं विपरीतकम् ॥१३४॥काकचञ्चुवदास्यं च कृत्वा वायुं ससूत्कृतम् ।आदाय नासारन्ध्रेण पुनस्तं श्वसनं त्यजेत् ॥१३५॥शीतलीकरणाख्योऽयं योगस्तु ज्वरपित्तहृत् ।अमृतं शीतलं तस्य पिबतश्च जरा न हि ॥१३६॥जिह्वया तालुमूलेन प्राणं यः पिबति प्रिये ।तस्य षण्मासतः सर्वे रोगा नश्यन्ति योगिनः ॥१३७॥रसनामूर्ध्वतः कृत्वा सोमं पिबति यः प्रिये ।सिद्धिर्मासार्ध आयाति रोगास्तस्य न सन्ति हि ॥१३८॥जिह्वाग्रेण च संपीड्य रसनान्तर्बिलं महत् ।ध्यात्वामृतझरीमम्बाम् अर्धाब्देन भवेत्कविः ॥१३९॥अमृताप्लाविततनोर् योगिनो वत्सरत्रयात् ।रेतश्चोर्ध्वं प्रयात्येव सिध्यन्ति ह्यणिमादयः ॥१४०॥त्रिविधं गरलं तस्य शरीरे च न संक्रमेत् ।जरा च मरणं नास्ति दुष्टसत्त्वभयं तथा ॥१४१॥४. धारणम्उक्तासनसमारूढः प्राणायामरतः सदा ।प्रत्याहारप्रसन्नः सन्नभ्यसेद्धारणं ततः ॥१४२॥चेतसो निश्चलत्वं यद्धारणा सा स्मृता शिवे ।पृथ्व्यादिपञ्चभूतानां या पृथग्धारणा हृदि ॥१४३॥चतुरश्रा सुवर्णा सलकारा च हृदि स्थिता ।ब्रह्मणा सहिता भूमिर्ध्यातव्या पञ्च नाडिकाः ॥१४४॥प्राणं तत्रैव मनसा धारयेत्सह शांभवि ।एषा स्तम्भकरी विद्या पृथ्वीजयमवाप्नुयात् ॥१४५॥अर्धचन्द्रप्रतीकाशं कर्पूरहिमनिर्मलम् ।कण्ठस्थानगतं नित्यं सुधाप्लुतवकारयुक् ॥१४६॥जलतत्त्वं च संयुक्तं विष्णुना तत्र धारयेत् ।प्राणं चित्तेन सहितं ध्यातव्यं पञ्चनाडिकाः ॥१४७॥एषा हि वारुणी विद्या विषपित्तज्वरापहा ।ग्रसने कालकूटस्य मयैव परिकल्पिता ॥१४८॥त्रिकोणं तप्तहेमाभं सरेफं रुद्रदैवतम् ।तालुस्थानगतं ध्यायेद्वह्नितत्त्वं ज्वलत्प्रभम् ॥१४९॥तत्रैव पञ्चघटिकाः प्राणं च मनसा सह ।धारयेन्निहितं योगी ह्येषा वैश्वानरी परा ॥१५०॥विषाग्निभीतिसंहर्त्री वातश्लेष्मादिरोगहृत् ।वर्तुलं नीलमेघाभं भ्रुवोर्मध्ये प्रतिष्ठितम् ॥१५१॥सयकारं वायुतत्त्वं नित्यमीश्वरदैवतम् ।तत्रैव नाडिकाः पञ्च प्राणं च मनसा सह ॥१५२॥धारयेद्वायवीयैषा विद्या खगतिदायिनी ।मृगतृष्णाम्बुसङ्काशं हकारेण समन्वितम् ॥१५३॥सदाशिवादिदैवं च ब्रह्मरन्ध्रगतं सदा ।व्योमतत्त्वं निराकाशं शान्तं सर्वगतं प्रिये ॥१५४॥तत्र प्राणं च संयम्य मनसा सह धारयेत् ।यावत्स्युः पञ्च घटिका नभोविद्येयमीश्वरि ॥१५५॥कथिता मोक्षदा देवि योगिनां दुःखहारिणी ।स्तम्भनी पार्थिवी विद्या प्लावनी वारुणी मता ॥१५६॥ततो वैश्वानरी विद्या दाहिनीति प्रकीर्तिता ।वायवी भ्रामणी प्रोक्ता शमनी व्योमरूपिणी ॥१५७॥क्रमशः पञ्चविद्याश्च धारणीयाः पृथक्पृथक् ।स्वनामकर्मसदृशं फलं ददति योगिनाम् ॥१५८॥एषा पञ्चविधा देवि धारणा भुवि दुर्लभा ।५. ध्यानम्तत्त्वेषु निश्चला चिन्ता या तद्ध्यानं प्रकीर्त्यते ॥१५९॥ध्यानं द्विधेति विख्यातं सगुणं निर्गुणं प्रिये ।सगुणं वर्णसहितं निर्गुणं वर्णवर्जितम् ॥१६०॥लक्षं च वाजपेयानामश्वमेधसहस्रकम् ।सकृद्ध्यानस्य योगस्य कलां नार्हन्ति षोडशीम् ॥१६१॥प्रत्यङ्मना बहिर्दृष्टिर् ऋजुः पद्मासनस्थितः ।ध्यानयोगः स विज्ञेयः सद्यः सिद्धिप्रदः शुभः ॥१६२॥मूलाधारे सुवर्णाभे चक्रेऽस्मिन्प्रथमे प्रिये ।ध्यात्वात्मानं च नासाग्रे लक्षयेद्धन्ति किल्बिषम् ॥१६३॥स्वाधिष्ठाने च रत्नाभे ह्यात्मानं परिचिन्तयेत् ।नासाग्रलक्षो दुःखेभ्यो मुच्यते योगिसत्तमः ॥१६४॥बालारुणाभे चात्मानं चक्रेऽस्मिन्मणिपूरके ।स्मृत्वा नासाग्रदृष्टिः संस्त्रिजगत्क्षोभयेद्यमी ॥१६५॥विद्युन्मालानिभे चक्रेऽनाहते हृदयस्थले ।प्राणायामेन बहुधा साधिते परमेश्वरि ॥१६६॥आत्मानं चिन्तयेद्यस्तु नासाग्रगतलोचनः ।भवेद्ब्रह्मसमो योगी वशीकृतमनाः प्रिये ॥१६७॥घण्टिकायां विशुद्धाख्ये स्वर्णचम्पकसन्निभे ।घ्राणाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत् ॥१६८॥लम्बिकायां सुधापूर्णे चन्द्रमण्डलमण्डिते ।नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत् ॥१६९॥भ्रुवोर्मध्येऽञ्जनाकारे ध्यायेदात्मानमीश्वरि ।जितप्राणो भवेद्योगी योगानन्दमयो भवेत् ॥१७०॥निर्गुणं निरपायं च शिवं शान्तं परात्परम् ।विश्वतैजसम् आत्मानं ध्यायेद्भ्रूमध्यलोचनः ॥१७१॥ब्रह्मानन्दमयो योगी भवत्येव न संशयः ।आज्ञाचक्रमिति ख्यातं परे व्योम्नि निरामये ॥१७२॥शिवम् आत्मानमाचिन्त्य भवेज्ज्ञानमयो वशी ।गगनाकारममलं मृगतृष्णाम्बुसन्निभम् ॥१७३॥ध्यात्वात्मानं सर्वगतं मोक्षं व्रजति संयमी ।अपानमेढ्रौ नाभिश्च हृदयं घण्टिका तथा ॥१७४॥लम्बिका च भ्रुवोर्मध्यं नभश्च ब्रह्मरन्ध्रकम् ।तव चक्रमिति ख्यातं देयं स्थानं च योगिनाम् ॥१७५॥धारणा पञ्चघटिका षण्णाडी ध्यानमुच्यते ।समाधिर्द्वादशाहं स्यात्प्राणसंयमनात्प्रिये ॥१७६॥६. समाधिःजलसैन्धवयोर्योगादेकत्वं च यथा भवेत् ।चित्तात्मनोः सामरस्यं समाधिः स तु कथ्यते ॥१७७॥मनः प्रलीयते चान्ते यदा प्राणक्षयो भवेत् ।सामरस्यं तदा स्याच्च समाधिः स तु कथ्यते ॥१७८॥प्रणष्टाखिलसङ्कल्पो जीवात्मा परमात्मना ।यदेकत्वं भजेद्देवि समाधिः स तु कथ्यते ॥१७९॥परापेक्षोज्झितं चित्तमिन्द्रियेषु प्रवर्तते ।यदा जीवो गतश्चैक्यं तदा नैवेन्द्रियं मनः ॥१८०॥शब्दं स्पर्शं च रूपं च रसं गन्धं परं तथा ।आत्मानं च सुखं दुःखं मानामानं प्रियाप्रिये ॥१८१॥शीताशीतं तथा वातमातपं यो न वेत्ति च ।न बाध्यते स्वकर्मौघैर्न कैश्चिदपि बाध्यते ॥१८२॥न शस्त्रैर्बाध्यते मन्त्रैर्यन्त्रैस्तन्त्रैर्न गृह्यते ।नाग्निना न जलेनापि वायुना न च पीड्यते ॥१८३॥अवध्यो देहिभिः सर्वैर् माननीयः सुरैरपि ।आहारे च विहारे च निद्रायाम् अवबोधने ॥१८४॥सर्वकर्मसु युक्तः सन्स तत्त्वं वेत्ति योगिनि ।निरालम्बं निराकारमनाद्यन्तं निराश्रयम् ॥१८५॥अनालयं निष्प्रपञ्चं निष्क्रियं निर्मलं महत् ।निश्चलं निर्मलं नित्यं निर्गुणं व्योम चिन्मयम् ॥१८६॥सदानन्दमनन्तं च सर्वगं विभु संततम् ।एतद्ब्रह्मपदं तत्त्वं विद्धि त्वं विन्ध्यवासिनि ॥१८७॥अनामये निरालम्बे निरातङ्के महाद्युतौ ।निराभासे परे तत्त्वे योगयुक्तः प्रलीयते ॥१८८॥दुग्धे दुग्धं घृते चाज्यमग्नावग्निर्जले जलम् ।क्षिप्तं व्रजेत्तन्मयत्वं तथा ब्रह्मणि लीयते ॥१८९॥योगाभ्यासफलम्मयोदितमिदं सर्वं दिव्यवायुरसायनम् ।यः सेवेत स पुण्यात्मा कृतकृत्यो जगत्त्रये ॥१९०॥सर्वयज्ञफलोपेतः स स्नातः सर्वतीर्थके ।स यशस्वी स योगीन्द्रः स एवामरवन्दितः ॥१९१॥स एव सिद्धः शुद्धश्च मम तुल्यो वरानने ।तस्मिन्स्निह्यति मे चेतस्तच्चित्तं मे निवासभूः ॥१९२॥सफलं जीवितं तस्य पूतं तदुभयं कुलम् ।तत्पदन्यासमात्रेण धरित्री पावनीकृता ॥१९३॥यत्रोषितं क्षणं तेन पुण्यक्षेत्रं हि सा मही ।धन्या तज्जनयित्री च पुण्यस्तज्जनकः प्रिये ॥१९४॥तद्दर्शनात्सजीवाः स्युः शूलप्रोतादयः शवाः ।तद्वाक्येनैव सर्वेऽपि लभन्तेऽपि शुभाशुभम् ॥१९५॥तन्मूत्रमलसंस्पर्शाल्लोहा यान्ति सुवर्णताम् ।किं पुनः कथ्यते देवि मम तुल्यपराक्रमः ॥१९६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP