संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ५ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ५ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ५ Translation - भाषांतर विशेषजारणाक्रमःश्रीभैरवी ।सामान्यजारणा प्रोक्ता त्वया पूर्वं सदाशिव ।विशेषजारणं ब्रूहि यथा जानाम्यहं प्रभो ॥१॥श्रीभैरवः ।शृणु देवि वक्ष्यामि भूचराख्यं तु जारणम् ।भूचरी जारणाकृष्णं पीतं तथा रक्तं शुल्बे तीक्ष्णे च मेलयेत् ॥२॥शुल्बं शुद्धं यदा जीर्णं द्वाविंशतिगुणं मते ।गन्धनागं ततोऽर्धं तु क्रमेणैव तु मेलयेत् ॥३॥हेम्ना तु सह दातव्यं सूतकैकेन षोडश ।गन्धनागं यदा जीर्णं तदा बद्धो भवेद् रसः ॥४॥हेम्नि जीर्णे ततोऽर्धेन मृतलोहेन रञ्जयेत् ।गन्धकेन हतं शुल्बं माक्षिकं दरदायसम् ॥५॥पुटेन मारयेच्छुद्धं हेम दद्यात्तु षड्गुणम् ।सूतके हेमबीजं च यदा जीर्णं चतुर्गुणम् ॥६॥बद्धरागं विजानीयाद्धेमाभो जायते रसः ।सारणायन्त्रमध्यस्थं तेनैव सह सारयेत् ॥७॥त्रिभागं सारितं कृत्वा पुनस्तत्रैव जारयेत् ।जारितः सारितश्चैव पुनर्जारितसारितः ॥८॥सप्तशृङ्खलिकायोगात् कोटिवेधी भवेद्रसः ।भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु ॥९॥खेचरी जारणाहीनरागानि रत्नानि रसोच्छिष्टानि कारयेत् ।कटुतुंबस्य बीजानि तस्यार्धेन तु दापयेत् ॥१०॥महाजारसमायुक्तं कल्कं कुर्याद् विचक्षणः ।वज्रमूषामुखे चैव तन्मध्ये स्थापयेद् रसम् ॥११॥कतकं कनकं चैवम् एकीकृत्य विमर्दयेत् ।पद्मरागप्रलेपं तु रसे ग्रासं तु दापयेत् ॥१२॥भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः ।सर्वसिद्धान् नमस्कृत्य देवताश्च विशेषतः ॥१३॥मूर्च्छाङ्गदाहश्च ततो जायते नात्र संशयः ।आत्मानमुत्थितं पश्येद् दिव्यदेहो महाबलः ॥१४॥शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह ।इच्छया विचरेल्लोकान् कामरूपी विमानगः ॥१५॥देवा वै यत्र लीयन्ते सिद्धस्तत्रैव लीयते ।अन्यो जारणाप्रकारःपुनरन्यं प्रवक्ष्यामि जारणायोगम् उत्तमम् ॥१६॥सुघृष्टं पातितं सूतं सर्वदोषोज्झितं ततः ।शाकपल्लवसारेण विष्णुक्रान्तारसेन च ॥१७॥पालाशपुष्पतोयेन भावितं गन्धकं समम् ।समं कृष्णाभ्रसत्वं च रसकं चाष्टकं गुणम् ॥१८॥तीक्ष्णशुल्बोरगं चैव कूर्मयन्त्रेण जारयेत् ।काञ्चनं जारयेत् पश्चाद् बिडयोगेन पार्वति ॥१९॥ततः सिद्धं विजानीयाद् द्वैधं शुल्वस्य दापयेत् ।कर्मसंख्याप्रमाणेन नागो भवति काञ्चनम् ॥२०॥अतः परं प्रवक्ष्यामि जारणाक्रमम् उत्तमम् ।बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः ॥२१॥षोडशांशेन तं ग्रासमङ्गुल्या मर्दयेच्छनैः ।आर्द्रकादि ततो योगाद् दातव्यं षोडशांशतः ॥२२॥भूर्जे दत्त्वा ततो देयं डोलायन्त्रे विनिक्षिपेत् ।अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये ॥२३॥समुद्धृत्य रसं देवि खल्वे संमर्दयेत् ततः ।ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना ॥२४॥तप्तं समुद्धृतं यन्त्रात् तप्तखल्वे विमर्दयेत् ।मर्दयित्वार्द्रके पिण्डे क्षिप्त्वाथ त्रिपुटं दहेत् ॥२५॥ततो गर्भे पतत्याशु जरते तत्सुखेन तु ।डोलायन्त्रे ततो दद्याद् आर्द्रपिण्डेन संयुतम् ॥२६॥तृतीयदिवसे सूतो जरते ग्रसते ततः ।समजीर्णं ततो यावत् डोलायन्त्रे विचक्षणः ॥२७॥पश्चात्कच्छपयन्त्रेण समजीर्णं तु पार्वति ।ताम्रांशद्वादशांशेन कच्छपेन तु जारयेत् ॥२८॥प्राग्वद् आर्द्रकयोगं च गर्भद्रावणम् एव च ।पश्चात् तं देवि निक्षिप्य पुटं दद्याद् विचक्षणः ॥२९॥अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत् ।कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकम् ॥३०॥पुटयेद्वार्तिकस्तावत् यावत् कन्दो न दह्यते ।पादांशेन तु मूषायां ग्रासः सूते विधीयते ॥३१॥पूर्ववच्च बिडं दद्याद्गर्भद्रावणमेव च ।एवं चतुर्गुणे जीर्णे सूतको बलवान् भवेत् ॥३२॥ततः शलाकया ग्रासमग्निस्थो ग्रसते रसः ।ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु ॥३३॥अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च ।रसानुपरसान्दत्त्वा महाजारसमन्वितम् ॥३४॥वज्रकन्दलतां ब्राह्मीमेषशृङ्ग्यमृतायसम् ।कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत् ॥३५॥सर्वाणि समभागानि शिखिशोणितमर्दितम् ।तावत्तं मर्दयेत्प्राज्ञो यावत्कर्म दृढं भवेत् ॥३६॥मूषा मल्लाकृतिश्चैव कर्तव्याच्छादनैः सह ।तन्मध्ये स्थापयेत्सूतमधोवातेन धामयेत् ॥३७॥आदौ तावत्प्रकर्तव्यं वज्रमौषधलेपितम् ।गृह्यते नात्र सन्देहो यथा तीव्रहुताशने ॥३८॥कुलिशादि भवेद् दग्धं करीषा तेन मर्दयेत् ।यावदेकादशगुणं कुलिशं जारयेद्बुधः ॥३९॥संदग्धा शङ्खनाभिश्च मातुलुङ्गरसप्लुता ।मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके ॥४०॥अनेन क्रमयोगेन ह्येकादशगुणं भवेत् ।केवलं शिखिपित्तं च नीलीनिर्यासमिश्रितम् ॥४१॥नीलोत्पलानि लिप्तानि निक्षिप्तानि तु सूतके ।रसः पिबेन्महारागान् हीनरागान् परित्यजेत् ॥४२॥रत्नानि शिखिपित्तं च महारत्नसमन्वितम् ।सद्रत्नं लेपयेत् तेन प्रक्षिपेद् रसमध्यतः ॥४३॥रजनी चैव कङ्कुष्ठं ब्रह्मनिर्यासभावितम् ।जारणं पुष्परागस्य तेनैव सह दापयेत् ॥४४॥बहुरत्नेषु जीर्णेषु भृङ्गराजेषु सुव्रते ।रसेन्द्रो दृश्यतां देवि नीलपीतारुणच्छविः ॥४५॥धूमवेधीरसःशुद्धानि हेमपत्राणि शतांशेनानुलेपयेत् ।पुटेन मारयेदेतदिन्द्रगोपनिभं भवेत् ॥४६॥संस्पर्शाद् वेधयेत् सर्वम् इदं हेम मृतं प्रिये ।त्रिभागं सूतकेन्द्रस्य तेनेव सह कारयेत् ॥४७॥मूषामध्ये स्थिते तस्मिन् पुनस्तेनैव जारयेत् ।धूमवेधी भवेद्देवि पुनः पुनः प्रसारितः ॥४८॥अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला ।वेधयेन्नात्र सन्देहो गिरिपाषाणभूतलम् ॥४९॥पार्श्वे ज्योतिः प्रदृश्येत ऊर्ध्वं दृश्येत तेन वै ।भूचरं तं विजानीयाद् रसेन्द्रं नात्र संशयः ॥५०॥तेनाश्रान्तगतिर् देवि योजनानां शतं व्रजेत् ।दिव्यतेजा महाकायो दिव्यदृष्टिर् महाबलः ॥५१॥सर्वरोगविनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् ।तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति ॥५२॥अन्ये वेधप्रकाराःसमजीर्णेन वज्रेण हेम्ना च सहितेन च ।अग्निस्थो जारयेल्लोहान् बन्धम् आयाति सूतकः ॥५३॥सारयेत्तेन बीजेन सहस्रमपि वेधयेत् ।सारितं जारयेत्पश्चात् लेप्यं क्षेप्यं सहस्रतः ॥५४॥सारयेत्तेन बीजेन लक्षवेधम् अवाप्नुयात् ।अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥५५॥केवलं तु यदा वज्रं समजीर्णं तु कारयेत् ।बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः ॥५६॥अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात् ।हठाग्निना धाम्यमानो ग्रसते सर्वमादरात् ॥५७॥ग्रसते जरते सूतम् आयुर्द्रव्यप्रदायकः ।मूषास्थं धमयेत् सूतं हठाग्नौ नैव कम्पयेत् ॥५८॥जारयेत् सर्वरत्नानि बद्धः खेचरतां नयेत् ।अष्टलोहे ऽष्टगुणिते जीर्णे स्याद्रसबन्धनम् ॥५९॥लोहानि सर्वांस्त्रिगुणं त्रिगुणं कनकं तथा ।धूमावलोके वेधी स्यात् भवेन्निर्वाणदोऽम्बरः ॥६०॥आदावष्टगुणं जार्यं व्योमसत्त्वं महारसे ।समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥६१॥समं च जारयेद् वज्रं तदासौ खेचरो रसः ।क्रमे प्रदक्षिणावर्तः कोटिवेधी च जायते ॥६२॥जीर्णद्रव्यमानभेदाद्वेधे विशेषःसमे तु पन्नगे जीर्णे दशवेधी भवेद्रसः ।द्विगुणे शतवेधी स्यात् सहस्रं त्रिगुणे भवेत् ॥६३॥चतुर्गुणेऽयुतं देवि क्रमेणानेन वर्धयेत् ।उत्तरोत्तरवृद्ध्या तु जारयेत् तत्र पन्नगम् ॥६४॥कुटिलं पन्नगं जार्यं नवसंख्याक्रमेण तु ।दत्त्वा क्रमेण देवेशि कोटिवेधी भवेद्रसः ॥६५॥गन्धकादिमपाषाणे षड्गुणे जीर्णतां गते ।रोगहर्ता रसः स्यात्तु समुखे तवदा भवेत् ॥६६॥तस्मिन् शतगुणे जीर्णे रुग्जरामृत्युहा भवेत् ।अभ्रकादिमपाषाणसत्त्वान्यात्मसमं ग्रसन् ॥६७॥रुग्जरा मरणं जित्वा शतवेधी रसो भवेत् ।शतायुर्द्विगुणे जीर्णे सूतः साहस्रवेधकः ॥६८॥चतुर्गुणे सहस्रायुः पारदो ऽयुतवेधकः ।रसश्चाष्टगुणे जीर्णे लक्षायुर् लक्षवेधकः ॥६९॥ब्रह्मायुः षोडशगुणे कोटिवेधी भवेद् रसः ।द्वात्रिंशद्गुणिते जीर्णे खेचरत्वादिसिद्धिदः ॥७०॥विष्णोर् आयुर्बलं दत्ते पारदः स्पर्शवेधकः ।चतुःषष्टिगुणे जीर्णे शिवायुः शब्दवेधकः ॥७१॥षड्गुणाभ्रकजारणेन सर्वदोषनाशःरसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेण तु ।जीर्णेन नाशम् आयान्ति नात्र कार्या विचारणा ॥७२॥तदा ग्रसति लोहानि त्यजेच्च गतिम् आत्मनः ।पञ्चावस्थाधूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ॥७३॥सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ।समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणः ॥७४॥वृद्धः षड्गुणजीर्णस्तु सर्वकर्मकरः शुभः ।जारणे क्रमःगन्धकं जारयेदादौ सर्वसत्त्वान्यतः परम् ॥७५॥ततः सर्वाणि लोहानि द्वन्द्वानि विविधानि च ।पक्वबीजानि रत्नानि द्रुतिसत्त्वे च जारयेत् ॥७६॥चतुःषष्ट्यंशके पूर्वं द्वात्रिंशांशे तृतीयकः ।तृतीयः षोडशांशे तु चतुर्थश्चाष्टमेन च ॥७७॥पञ्चमोऽथ चतुर्थांशे षष्ठो द्व्यंशे प्रकीर्तितः ।शतांशे सप्तमो ज्ञेयो ग्रासमानं रसस्य तु ॥७८॥ग्रासमानभेदेन स्वरूपभेदःचतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद् रसः ।जलूकाभो द्वितीये तु ग्रासयोगे सुरेश्वरि ॥७९॥ग्रासे रसात् तृतीये च काकविष्ठासमो भवेत् ।चतुर्थो गोलकाकारः पञ्चमे दहनप्रभः ॥८०॥षष्ठे सूर्यप्रभः सूतस्तेजःपुञ्जश्च सप्तमे ।रसराजस्य देवेशि क्रमाज्जीर्णस्य लक्षणम् ॥८१॥समांशं द्विगुणं ग्रासं ततः सूते चतुर्गुणम् ।तथा चाष्टगुणं देवि जारयेच्च कलागुणम् ॥८२॥द्वात्रिंशद्गुणितं देवि चतुःषष्टिगुणं क्रमात् ।संस्कारैर् जायमाना गुणाःतीव्रत्वं जनयेत् स्वेदाद् अमलत्वं च मर्दनात् ॥८३॥मूर्छनाद् दोषराहित्यम् उत्थानात् पूतिनाशनम् ।रसायनं पातनेन रोधादाप्यायनं भवेत् ॥८४॥अचापल्यं नियमनाद् दीपनात्समुखो ज्वलेत् ।वासनाद् योगसांगत्यं चारणाद्बलचारिता ॥८५॥जारणाद्बन्धनं सम्यगेकत्वं द्रावणद्वयात् ।रक्तत्वं रञ्जनात् तस्य व्यापित्वं सारणात्रयात् ॥८६॥क्रामित्वं क्रामणाद् देहलोहेष्वपि च वेधनात् ॥८७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP