संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ७ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ७ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ७ Translation - भाषांतर पद्मरागादिरत्नोत्पत्तिःपुरा कैलासशिखरे गह्वरेऽद्रिसुतेश्वरौ ।चिरमास्तां क्रीडमानौ जिगूषू तौ परस्परम् ॥१॥तदा रेतः सूतरूपप्रवाहोऽभूत्तयोर्महान् ।तत्प्रवाहप्रभावेन वेधिता दृषदोऽभवन् ॥२॥पद्मरागादिमणयो लोहा हेमादयस्तथा ।गन्धकाद्याश्च पाषाणा दिव्या ओषधयो लताः ॥३॥नानावर्णा बहुविधा नानासिद्धिप्रदायकाः ।पूर्वोक्तानां समस्तानां वज्रं श्रेष्ठतमं महत् ॥४॥तज्जातिलक्षणं देवि संस्कारं भजनं फलम् ।क्रमाद्वक्ष्यामि ते देवि सावधानं शृणु प्रिये ॥५॥वज्रलक्षणं वज्रभेदांश्चद्विजन्मानश्च राजन्या ऊरव्या वृषलाः क्रमात् ।शुभ्रशोणहरिद्राभाः काला नानाविधास्तथा ॥६॥स्त्रीपुंनपुंसकाश्चैव ज्ञातव्यास्ते क्रमात्प्रिये ।शुक्लाः फलकसम्पूर्णा ज्योतिष्मन्तो महत्तराः ॥७॥पुमांसस्ते तु विज्ञेया रेखाबीजविवर्जिताः ।बलाढ्याः सत्वसहिता लोहक्रमणहेतवः ॥८॥रसबन्धकराः क्षिप्रं सर्वेषां सिद्धिदायकाः ।रसायनकराः स्थूला ह्यष्टसिद्धिप्रदायकाः ॥९॥षट्कोणबीजरेखाभिरुज्ज्वलास्ताः स्त्रियः स्मृताः ।देहज्योतिःप्रजनना भोगकान्तिसुखप्रदाः ॥१०॥दीर्घास्त्र्यस्राश्च तनवो निबोद्धव्या नपुंसकाः ।क्षीणसत्वाः स्वल्पवीर्याः क्रामकाः सुरनायिके ॥११॥क्लीबा नपुंसके स्त्रीणां स्त्रियः सर्वहिता नराः ।जात्यानुरूपाश्चोत्साहं यथा सत्वं तथा गुणम् ॥१२॥यथा कान्तिस्तथा शीलं कुर्वन्त्येवं द्विजातयः ।वलीपलितरोगघ्नाः क्षत्रिया मृत्युहारिणः ॥१३॥देहस्थैर्यकरा वैश्या लोहानां वेधकारिणः ।वयःस्तंभकराः शूद्रा नानामयविनाशनाः ॥१४॥वज्रसंस्कारःवज्रसंस्कारमधुना कथयामि शृणु प्रिये ।श्यामा शमी मेघनादा वर्षाभूधूर्तकोद्रवाः ॥१५॥मेषशृङ्ग्याखुकर्णी च कुलुत्थं चाम्लवेतसः ।मदनागस्त्यनिर्गुण्डी चैतेषां स्वरसैर्युते ॥१६॥डोलायन्त्रे पाचयेच्च व्याघ्रीकन्दगतं दिनम् ।उद्धृत्य माहिषशकृल्लिप्तं कारीषवह्निना ॥१७॥दहेद्रात्रौ चतुर्यामं रात्र्यन्ते परिषेचयेत् ।हयमूत्रस्नुहीक्षीरकुलत्थकरसैस्तथा ॥१८॥पाचयेद्दाहयेदेवं सेचयेत्सप्तवारकम् ।एवं द्विजातिजातीयाः शोधिताः स्युश्च सिद्धिदाः ॥१९॥वज्ररसायनम्रसायनार्हं वक्ष्यामि वज्रभस्म सुरेश्वरि ।वैक्रान्तताप्यगन्धाश्मशिलामाक्षिकतालकम् ॥२०॥कान्तास्यटङ्कणक्षारकुलीरास्थीनि पेषयेत् ।स्तन्येन गोलके क्षिप्त्वा मूषायां निक्षिपेत् ततः ॥२१॥धमेद्दृढतरं पूर्वं पश्चाद्गजपुटे पचेत् ।तदेव वज्रमादाय तस्मिन्षोडशमात्रके ॥२२॥एकांशं पारदं तस्मिन् पक्वबीजेन जारितम् ।स्तन्येन मर्दयेत्तौ द्वौ पुनर् गजपुटे पचेत् ॥२३॥एवं तत्षोडशपुटाद्बीजजीर्णरसान्वितम् ।दृढं कुर्वीत तद्वज्रं भवेद्भस्म रसायनम् ॥२४॥शृणु रुद्राणि वक्ष्यामि दिव्यं वज्ररसायनम् ।पूर्वोक्तवत्प्रकुर्वीत देहशुद्ध्यादिकं विधिम् ॥२५॥शुभर्क्षे सुमुहूर्ते च चन्द्रताराबलान्विते ।शिवाग्निगुरुगोविप्रभिषजः पूजयेत्पुरा ॥२६॥ततः सेवेत तद्भस्म यवमात्रं वरानने ।कान्ताभ्रसत्त्वं सौवर्णभस्म गुञ्जैकमात्रकम् ॥२७॥त्रिफलामधुसर्पिर्भिः प्रातः शुद्धवपुर् लिहेत् ।एवं षोडशमासान्तम् एकद्वित्रिचतुष्टयम् ॥२८॥प्रतिमासं वर्धयित्वा यावद्यावकषोडशम् ।कान्तादिभस्मत्रितयं गुञ्जावृद्धिक्रमे तथा ॥२९॥द्विनिष्कं त्रिफलाचूर्णं सर्पिर्मधु यथासुखम् ।पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्यान्मम वल्लभे ॥३०॥सेवितं पलमात्रं तु वज्रभस्म दिनं क्रमात् ।वलीपलितरोगघ्नं शतायुष्यं ददाति च ॥३१॥द्विपलं च सहस्रायुर् अयुतं त्रिपलं तथा ।चतुष्पलं लक्षमायुर् दशलक्षं च पञ्चमम् ॥३२॥कोट्यायुष्यं षट्पलं च सुरेन्द्रायुश्च सप्तमम् ।ब्रह्मायुष्यं चाष्टपलं विष्णुत्वं नवमं पलम् ॥३३॥रुद्रत्वं दशमं देवि ईश्वरत्वं ततः परम् ।सदाशिवत्वं द्वादश्यां वज्रभस्म ददात्यलम् ॥३४॥सर्वज्ञत्वं सर्वगत्वं स्वेच्छाविहरणं तथा ।वज्रौदनम्वज्रौदनं प्रवक्ष्यामि रसायनहितं परम् ॥३५॥पूर्ववच्छोधिते वज्रे मृदुकर्म समारभेत् ।मातृवाहकमध्यस्थं तित्तिरीमांसवेष्टितम् ॥३६॥तीक्ष्णकान्ताननरसैः पुनस् तत् परिवेष्टयेत् ।कुलत्थत्रिफलानीरकोद्रवेषु पृथक्पृथक् ॥३७॥त्रिदिनं पाचयेद् एवं तद्वज्रं वेष्टयेद्दलैः ।त्रिवर्षारूढताम्बुल्यास् तथा कार्पासकस्य वा ॥३८॥चेष्टितं जानुमध्यस्थं वज्रं यामद्वयान्मृदु ।वज्रौदनम् इदं प्रोक्तं वज्रद्रुतिर् अथोच्यते ॥३९॥वज्रद्रुतिःत्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसम् ।ज्वालामुखी चेक्षुरकं स्थलकुम्भीरसेन च ॥४०॥पिष्ट्वा स्नुह्यर्कयोः क्षीरैस् तद्गोले मृदु हीरकम् ।निक्षिपेत्तच्च जम्बीरे दोलायन्त्रे त्र्यहं पचेत् ॥४१॥एवं कृते हीरकस्य द्रुतिर् भवति सूतवत् ।अन्यद्रुत्यतिदेशःपद्मरागादिरत्नानां द्रुतिर् एवं कृते भवेत् ॥४२॥अभ्रकादिमपाषाणा द्रवन्त्येवं कृते ध्रुवम् ।द्रवन्ति रसरत्नानि मौक्तिकं चाम्लवेतसम् ॥४३॥सप्ताहं भावयेद् घर्मे क्षिपेज्जम्बीरके ततः ।धान्यराशौ त्रिसप्ताहं पुटपाके द्रवत्यलम् ॥४४॥वज्रभस्मगुणाःवज्रभस्म यथा तद्वद् द्रुतिमार्दवयोरपि ।भवेद् भस्म वरारोहे जरादारिद्र्यमृत्युजित् ॥४५॥रसायने भवेत्सौख्यं भस्म द्रुतिमृदूद्भवम् ।रसायने तु स्त्रीपुंसौ क्रामणे तु नपुंसकः ॥४६॥षड्रसं हिमवीर्यं च सर्वामयविनाशनम् ।सर्वदोषप्रशमनं सर्वसौख्यं रसायनम् ॥४७॥विद्युत्प्रभां देहदार्ढ्यं स्वच्छं स्निग्धं च लेखनम् ।सौन्दर्यं बलमायुष्यं ग्रहालक्ष्मीविनाशनम् ॥४८॥शुद्धिर्मृदुद्रुतीभस्म वैक्रान्तस्य तु वज्रवत् ।स्वर्णं तद्भेदाःअथ वक्ष्ये श्रेष्ठतमं शृणु हेमरसायनम् ॥४९॥हेमोत्पत्तिः पुरा प्रोक्ता तथापि त्रिविधा भवेत् ।रसवेधाद् भवेच्चैकम् इतरत्क्षेत्रसम्भवम् ॥५०॥लोहसङ्करजं चान्यच्छ्रेष्ठमध्यकनीयसः ।क्रमेण पीतरक्ते च पीतरक्तं च वर्णतः ॥५१॥निकर्षछेददाहेषु कुङ्कुमश्वेतशोणितम् ।स्वर्णशुद्धिःदिव्यम् एवंविधं स्वर्णं पट्टकं कणशः कृतम् ॥५२॥हलिनीकञ्चुकीकन्दस्नुह्यर्काग्निकरञ्जकम् ।धूर्तगुञ्जेङ्गुदीचीरमूलतालाश्वगन्धिकाः ॥५३॥पिष्ट्वेन्द्रवारुणी चैषा मूलानि मथितेन वै ।लेपयेत्स्वर्णपट्टानि तापयेज्जातवेदसि ॥५४॥मूत्रे मथिते तैले कुलुत्थाम्भसि काञ्जिके ।जम्बीरार्कपयोमध्ये प्रत्येकं सप्तधा क्षिपेत् ॥५५॥लेपयेत्तापयेत्सिञ्च्याद्भूयो भूयोऽपि सप्तधा ।वल्मीकमृद्धूमसारम् इष्टकापटुगैरिकम् ॥५६॥पिष्ट्वा जम्बीरनीरेण लिप्त्वा पत्रं पुटीकृतम् ।चतुर्वर्णाभ्रकं ताप्यं दरदं तालकं शिलाम् ॥५७॥कान्तकङ्कुष्ठरसकविमलासूतभूलताः ।पिष्ट्वाम्लेन वटीः कुर्यान्निष्कमात्राः सुरेश्वरि ॥५८॥पलादूनं न कर्तव्यम् अधिकं च चतुष्पलात् ।पुटितं हेम शुल्बं च द्रावयेच्च समीकृतम् ॥५९॥तन्मध्ये तद्द्रवीभूते चैकैकां वटिकां क्षिपेत् ।स्वर्णाद् दशगुणा वाह्या वटिकाः शोषिताः क्रमात् ॥६०॥यावच्छेषं भवेत् स्वर्णं तावद् एवं धमेच्छनैः ।शुद्धं तज्जायते दिव्यं जरामरणरोगहृत् ॥६१॥स्वर्णभस्मचिञ्चापत्रनिभं स्वर्णं पत्रं शुद्धं च पारदम् ।एकान्तं मर्दयेद् अम्लैस् तत्पिष्टिम् अपि लेपयेत् ॥६२॥समगन्धकताप्याभ्यां पिष्टिं मूषागतां धमेत् ।षोडशांशं सूतभस्म हेमचूर्णे विनिक्षिपेत् ॥६३॥अम्लेन मर्दयेद् गाढं पचेत् तद्भूधरे पुटे ।एवं षोडशपर्यन्तं रसं प्रतिपुटं क्षिपेत् ॥६४॥निरुत्थं हेमभस्मेदं जायते सर्वसिद्धिदम् ।हेमरसायनम्विरेकवमनाद्यैश्च शुद्धदेहः शुभे दिने ॥६५॥अर्चयेदीशविप्राग्निगुरुवैद्यपुरःसरान् ।सेवेत शुद्धहृदयो दिव्यं हेमरसायनम् ॥६६॥कान्ताभ्रयोः सत्त्वभस्म चैकगुञ्जाप्रमाणकम् ।माषोन्मितं हेमभस्म वरामध्वाज्ययुग्लिहेत् ॥६७॥पूर्वोक्तवद् वज्रमासषोडशिकावधि ।पूर्वोक्तवद् विधिं त्याज्यं प्रकुर्वीत रसायनी ॥६८॥शृणु चित्रां गिरिसुते सेवां हेमरसायने ।पलमात्रोपयोगेन सर्वरोगविवर्जितः ॥६९॥ततो द्विपलयोगेन वलीपलितवर्जितः ।वाक्सिद्धिर्दिव्यदृष्टिश्च त्रिपलेन भवेत्प्रिये ॥७०॥चतुःपलोपयोगेन विषव्याघ्राहिभीर्न हि ।तथा पञ्चपलेनैव दिव्यात्मज्ञानिता भवेत् ॥७१॥देवि षट्पलयोगेन सिद्धसाध्यपदं भवेत् ।तथा सप्तपलेनापि विद्याधरपदं भवेत् ॥७२॥तथाष्टपलयोगेन स्वेच्छाविहरणे पटुः ।पलेन नवमेनापि चाष्टैश्वर्यगुणान्वितः ॥७३॥तथा दशपलेनापि महेन्द्रत्वम् अवाप्नुयात् ।एकादशपलैर् देवि ब्रह्मत्वं नात्र संशयः ॥७४॥द्वादशभिः पलैः कान्ते विष्णुत्वं समुपैति च ।त्रयोदशपलेनापि रौद्रं पदम् अवाप्नुयात् ॥७५॥तथा चतुर्दशपलैर् ऐश्वरं लभते पदम् ।पलैः पञ्चदशैर् एति सदाशिवपदं परम् ॥७६॥तथा स्यात् षोडशपलैः सच्चिदानन्दविग्रहः ।सर्वज्ञः सर्वकर्ता च हर्ता गोप्ता स सर्वगः ॥७७॥हेमद्रुतिःहेमद्रुतिं प्रवक्ष्यामि शृणु संप्रति पार्वति ।फलपांशुर् देवदाल्याः शक्रगोपोऽश्वलालिका ॥७८॥टङ्कणं जालिनीनीरैर् भावयेद्बहुधा प्रिये ।द्रावयेत्काञ्चनं तत्र वपेत्सूतसमा द्रुतिः ॥७९॥इमां द्रुतिं काञ्चनवद् भस्म सेवां च कल्पयेत् ।स्वादु तिक्तं कषायं च शीतम् उष्णं रसायनम् ॥८०॥हृद्यं कान्तिप्रदं शुद्धं चक्षुष्यं गुरु लेखनम् ।धृतिस्मृत्यायुरारोग्यनयवाक्सिद्धिदायकम् ॥८१॥क्षयोन्मादादिरोगाणां नाशनं दोषशान्तिकृत् ।स्निग्धं रुच्यं दीप्तिं वीर्यकृद्बलवर्धनम् ॥८२॥कान्तम् तद्भेदा लक्षणञ्चअथ कान्ते प्रवक्ष्यामि कान्तं कान्तरसायनम् ।दिव्या औषधयः सन्तु सर्वसिद्धिप्रदायिकाः ॥८३॥तेभ्यः कान्तं श्रेष्ठतमं वलीरुक्पलितापहम् ।कल्पान्ते ताण्डवं शंभुः शर्वाणीसहितः स्वयम् ॥८४॥उच्चण्डं व्यतनोत्तत्र संजाताः स्वेदबिन्दवः ।तत्र तत्र गतास्तेऽपि ह्ययस्कान्तत्वमाययुः ॥८५॥जाङ्गले बहवो जाता देशे साधारणे क्वचित् ।जलप्रायेऽस्ति वा नास्ति जात्या पञ्चविधाः स्मृताः ॥८६॥भ्रामकं चुम्बकं देवि कर्षकं द्रावकं तथा ।रोमकं च तथैकद्वित्रिचतुः सर्वतोमुखाः ॥८७॥तेषां पञ्चविधानां तु पीतं कृष्णं च शोणितम् ।मिश्रं पृथक्पृथक्तेषां क्रमात्स्युरधिदेवताः ॥८८॥ब्रह्मविष्ण्वीशभूतात्ममातृकाः परिकीर्तिताः ।पीतवर्णं स्पर्शवेधि कृष्णं श्रेष्ठं रसायने ॥८९॥रसबन्धकरं रक्तं मिश्रं सर्वरुजापहम् ।रोमकं ग्रहभीतिघ्नं द्रावकं चोत्तमोत्तमम् ॥९०॥उत्तमं मध्यमं नीचं कर्षकं चुम्बकं क्रमात् ।भ्रामकं लक्षणं वच्मि लोहं तु भ्रामयेत्ततः ॥९१॥तस्माद्भ्रामकमित्युक्तं चुम्बकं लोहचुम्बकम् ।कर्षकं कर्षयेल्लोहं द्रावकं द्रावयेद्यतः ॥९२॥स्फुटनाद्रोमजननं तद्रोमकमुदाहृतम् ।अत्युत्तमं बहुमुखं चतुःपञ्चास्यमुत्तमम् ॥९३॥मध्यमं स्याद्द्वित्रिमुखं नीचमेकमुखं भवेत् ।भ्रामकं चुम्बकं सर्वरोगाणां नाशने हितम् ॥९४॥कर्षकं द्रावकं श्रेष्ठं रसयोगे रसायने ।रसद्विपाङ्कुशमिदं कान्तं पञ्चविधं प्रिये ॥९५॥समीरणातपस्पृष्टं न ग्राह्यं तत्कदाचन ।हस्तद्वयं समुत्खाय कान्तं ग्राह्यं वरानने ॥९६॥कान्तसत्त्वपातनम्आदौ सम्पूज्य दुर्गां च गणेशं भैरवं प्रिये ।तीव्राग्निना दहेत्कान्तं सेचयेत्त्रिफलाम्बुना ॥९७॥तत्कान्तं चूर्णयेत्सूक्ष्मं काचसामुद्रटङ्कणैः ।लाक्षागुग्गुलुगुञ्जाभिर् ऊर्णाज्यमधुसिक्थकैः ॥९८॥शशास्थिक्षुद्रमीनैश्च भल्लाततिलकल्ककैः ।सर्जक्षारयवक्षाररालैश् चिरगुलैस् तथा ॥९९॥न्यङ्कुसैरिभदन्तीनां विषाणैश्च समांशकैः ।एतत्समांशं तत्कान्तमजाक्षीरेण मर्दयेत् ॥१००॥मेलयेत् पञ्चमाहिष्यैर् दध्याद्यैर् गोमयान्तकैः ।श्लक्ष्णं पिष्ट्वा वटीः कुर्यात् कर्षमात्राः सुरेश्वरि ॥१०१॥कोष्ठीयन्त्रे वङ्कनाले खदिराङ्गारकैर् दृढम् ।पञ्च पञ्च वटीस्तत्र निक्षिपेच्च शनैः शनैः ॥१०२॥त्रियाममथनादेव कान्तात्सत्वं पतेच्छुचि ।तत्सर्वं कणशः कृत्वा काचाद्यैरौषधैः समैः ॥१०३॥मूषागतं धमेत्तीव्रमेवं धाम्यं त्रिधा प्रिये ।एवं कृतं तु तत्कान्तसत्वं सत्त्वतमं भवेत् ॥१०४॥कान्तस्वरूपम्कान्तलोहस्य पात्रस्थजले तैलस्य बिन्दवः ।न सर्पन्ति चणास्त्वेताः कृष्णाः स्युर् नात्र संशयः ॥१०५॥घृष्टहिङ्गोर्न गन्धः स्यात् क्षीरोर्मिः शिखराकृतिः ।न कदाचिद् भुवि पतेच्छिवा मुञ्चति तिक्तताम् ॥१०६॥तल्लोहक्षिप्तम् उष्णाम्बु शीतलं भवति क्षणात् ।लोहशुद्धिःऊनं पञ्चपलान्नैव नोर्ध्वं पञ्चदशात् पलात् ॥१०७॥त्रिफला षोडशपला तच्चतुर्गुणमम्बु च ।क्वाथयेत् पादशेषं तु तस्मिन्पत्राणि ढालयेत् ॥१०८॥शशरक्तप्रलिप्तानि शोषयेदातपे पुनः ।तापितानि पुनस्तक्रतैलसौवीरसर्पींषि ॥१०९॥क्षौद्रार्कक्षीरजम्बीरकुलत्थकरसेष्वपि ।लेपनं शोषणं दाहं सेचनं च क्रमात्प्रिये ॥११०॥प्रत्येकं सप्तधा कुर्याद् गिरिदोषं त्यजेदयः ।लोहसंस्कारमन्त्राःआदौ मन्त्रस्ततः कर्म कर्तव्यो मन्त्र उच्यते ॥१११॥उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तो ऽमृतात् परः ।स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः ॥११२॥ओं अमृतोद्भवोद्भवाय स्वाहा ।रक्षायै लोहनरयोरयमेकोद्भवो मनुः ।विना स्वाहापदं स्थाने फडन्तं यः समुच्चरेत् ॥११३॥ओं अमृतोद्भवाय फट् प्रणवोर्ध्वं नमश्चण्डवज्रपाणय इत्यपि ।ततः परं महायक्षसेनाधिपतये नमः ॥११४॥द्विरुक्तं सुरुशब्दस्य महाविद्याबलाय च ।ततः स्वाहेति मन्त्रोऽयं बलिकर्मणि कीर्तितः ॥११५॥ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये नमः सुरु सुरु महाविद्याबलाय स्वाहा ।लोहभस्मएतानि लोहपत्राणि सूक्ष्मं संचूर्णयेत्ततः ।अयःपात्रे कान्तचूर्णं निक्षिप्य त्रिफलारसैः ॥११६॥सेचयेत्तदयोदर्व्या चालयन्पाचयेदिति ।पिण्डीभूतं तदादाय मृत्तिकापटले शुभे ॥११७॥संपुटे निक्षिपेत्सम्यक् षोडशाङ्गुलगर्तके ।निधायारण्यकारीषमध्यगं कारिषं दहेत् ॥११८॥अहोरात्रं प्रकुर्वीत वातातपविवर्जितम् ।पुनः प्रातः समादाय वराक्वाथेन मर्दयेत् ॥११९॥स्थालीसंपुटयोरेवं कुर्यात्पाकपुटैः क्रमात् ।एवं विदध्यात्सप्ताहं तस्मिन्क्षेप्यं च हिङ्गुलम् ॥१२०॥लोहस्य षोडशांशं च नारीस्तन्येन मर्दयेत् ।स्थाल्यां पाकं संपुटे च पुटं कुर्वीत षोडश ॥१२१॥निरुत्थं तद्भवेद्भस्म देवि योज्यं रसायने ।ल्होहभस्मनोऽमृतीकरणम्यावत्स्यात्त्रिफला तस्माद् भवेद्वारि चतुर्गुणम् ॥१२२॥अष्टावशेषं क्वाथयेत् क्वाथस्य सदृशं घृतम् ।घृततुल्यं कान्तभस्म ताम्रपात्रे पचेत्प्रिये ॥१२३॥लोहदर्व्या प्रचलयन् यावच्छुष्यति तद्रसः ।तावन्मृद्वग्निना पाच्यं लोहतुल्यां सितां क्षिपेत् ॥१२४॥अमृतीकरणमित्युक्तं सर्वयोगवहं परम् ।लोहपाकभेदाःलोहपाकं प्रवक्ष्यामि तद्भवेत्त्रिविधं प्रिये ॥१२५॥मृदुमध्यखराः प्रोक्ता जम्बीरसदृशो मृदुः ।मध्यमः पिण्डसदृशो वालुकासदृशः खरः ॥१२६॥कान्तलोहरसायनसेवाक्रमःअथ सेवां प्रवक्ष्यामि कान्तलोहस्य भस्मनः ।सुमुहूर्ते शुभदिने पूजितेशादिदेवतः ॥१२७॥सेवेत सिद्धिदं दिव्यं कान्तभस्म रसायनम् ।शुद्धदेहो विरेकाद्यैरभ्रभस्म पुरा प्रिये ॥१२८॥मासमेकं तु सेवेत तस्माच्छुद्धवपुर्भवेत् ।माषमात्रं कान्तभस्म गुञ्जामात्राभ्रभस्म च ॥१२९॥द्विनिष्कं त्रिफलाचूर्णं मधुसर्पिःसमन्वितम् ।लिहेत् प्रातर् विशुद्धात्मा स्नानदानादिकर्मभिः ॥१३०॥अनुपेयं ततो लोहाद् गव्यं षष्टिगुणं पयः ।धारोष्णं तदभावे तु कृत्वा क्षीरं समाम्बुकम् ॥१३१॥यावत्क्षीणजलं क्वाथ्यं क्षीरं चानुपिबेत्प्रिये ।तदसात्म्ये वराक्वाथं गुडूच्या वा कषायकम् ॥१३२॥इत्येकमासं सेवेत क्रमाद्द्वित्रिचतुष्टयम् ।प्रतिमासं माषगुञ्जावृद्धिः कान्ताभ्रभस्मनोः ॥१३३॥एवं षोडशमासान्तं वृद्धिः षोडशमात्रकाः ।पूर्वोक्तवद्विधिं त्याज्यं कुर्यात्सिद्धिमवाप्नुयात् ॥१३४॥अस्य वत्सरयोगेन क्षुद्रामयविनाशनम् ।एतद्द्विवर्षयोगेन महारोगप्रणाशनम् ॥१३५॥त्रिवर्षात्पलितं हन्ति चतुर्वर्षाद्वलिं हरेत् ।पञ्चमादपमृत्युघ्नं षष्ठे स्यादायुषः शतम् ॥१३६॥सप्ताब्दे सूर्यवद्दीप्तिं दशमे सिद्धिमेलनम् ।वैद्याधरं समाप्नोति वर्षे चैकादशे प्रिये ॥१३७॥त्रयोदशाब्दे देवत्वम् इन्द्रत्वं च चतुर्दशे ।तथा पञ्चदशाब्दे च सर्वलोकप्रियो भवेत् ॥१३८॥षोडशाब्देऽष्टसिद्धिः स्यात्सत्यं सत्यं महेश्वरि ।कान्तद्रुतिक्रमःसुवर्णद्रुतिवत्कान्तद्रुतिः स्यात्पूर्ववत्प्रिये ॥१३९॥कान्तद्रुतिर्भवेद्भस्म कान्तलोहस्य भस्मवत् ।लोहभेदास्तद्गुणाश्चकिट्टं मुण्डं तथा तीक्ष्णं कान्तं पूर्वोत्तरोत्तरम् ॥१४०॥गुणाढ्याः स्युर् दशशतसहस्रं लक्षकं क्रमात् ।शताधिको भवेत् कान्तस्त्वौषधानां रसायनम् ॥१४१॥त्रिदोषशमनं दिव्यं सर्वरोगापहारकम् ।कान्तिं रुच्यं च चक्षुष्यं हृद्यम् आयुष्यदं शुचि ॥१४२॥स्थैर्यं दार्ढ्यं च धातूनां बलवच्च रसायनम् ।अभ्रकोत्पत्तिः तद्भेदा लक्षणञ्चअथाभ्रकं प्रवक्ष्यामि तदुत्पत्त्यादिकं क्रमात् ॥१४३॥पुरादिशक्तिर् भवती श्वेतद्वीपे मनोरमे ।इन्द्राणीकमलावाणीगायत्रीप्रमुखैः सह ॥१४४॥अरुन्धतीमुखैर् दिव्यमुनिदारैश्च संयुता ।संचिक्रीडे महामाया चित्सदानन्दरूपिणी ॥१४५॥आनन्दाश्रुकणाः क्षौमे न्यपतन्बहवो दृशोः ।तदा ऋतुमती जाता ततः स्वादु सरित्पतेः ॥१४६॥तीरे त्यक्त्वा च तद्वस्त्रं स्नात्वा कैलासमाययौ ।वात्यावशेन तद्वस्त्रं क्षीराब्धौ न्यपतत्तदा ॥१४७॥देवासुरैर् मथ्यमानात् तस्मात् क्षीराम्बुधेस्तदा ।समभूत् तद्रजोवस्त्रं चतुर्धाभ्रकसंज्ञकम् ॥१४८॥कृष्णाभ्रकं साञ्जनाभं पीतं देव्यङ्गलेपनात् ।रक्तं तस्य रजोरूपं क्षौमं श्वेतम् अभूदिति ॥१४९॥चतुर्विधं तदालोक्य रसबन्धनकारणम् ।रसायनं रोगहरं सर्वसिद्धिप्रदायकम् ॥१५०॥इत्यूचिरे सुराः सर्वे साक्षादमृतसंमितम् ।श्वेतं रजतकार्येषु त्रयमन्यत्सुवर्णके ॥१५१॥सर्वं रसायने योज्यं रक्तपीतसितासितम् ।श्वेताच्छतगुणं रक्तं रक्तात्पीतं सहस्रकम् ॥१५२॥पीताल्लक्षगुणं कृष्णं ज्ञेयं लोहे रसायने ।प्रत्येकं तानि जायन्ते चतुर्धा जातितः क्रमात् ॥१५३॥पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ।वज्रं समाहरेन्मुख्यं त्रीण्यन्यानि विवर्जयेत् ॥१५४॥पिनाकमग्निनिक्षिप्तं मुञ्चते दलसंचयम् ।तत्सेवितं मलं बद्ध्वा मारयेद्रोगकारणम् ॥१५५॥दर्दुरं वह्निनिक्षिप्तं कुरुते भेकनिःस्वनम् ।तदुत्पादयते रोगमश्मर्याख्यम् असाध्यकम् ॥१५६॥नागमग्नौ विनिक्षिप्तं फूत्कारं वितनोति यत् ।तत्सेवया महाकुष्ठं मण्डलाख्यं भवेद्ध्रुवम् ॥१५७॥ग्राह्यलक्षणम्एतत्त्रितयसेवाभिर्जायते रोगसंचयः ।वह्निस्थितं तु वज्राभ्रं विकारान्नाचरेत्क्वचित् ॥१५८॥तस्माद्वज्राभ्रकं सेव्यं वलीपलितमृत्युजित् ।राजहस्तात्परं ग्राह्यं खनित्रेन तदाकरात् ॥१५९॥वज्राभ्र॒॒ परीक्षा॒॒ बद् ॠउअलित्य्भारयुक्तं पृथुदलं स्निग्धं मोच्यदलं सुखम् ।काचचन्द्रककिट्टाभं न योज्यं तत्कदाचन ॥१६०॥धान्याभ्रकम्पूर्वोक्तलक्षणयुतं वज्राभ्रं धमयेद् दृढम् ।अर्कक्षीरारनाले च गोमूत्रे त्रिफलारसे ॥१६१॥मेघनादरसे चेत्थं निक्षिपेत्तेषु तत्त्रिधा ।सम्यग्दलं मोचयित्वा मेघनादाम्लयोर् द्रवैः ॥१६२॥भावयेद् आतपे तीव्रे श्लक्ष्णं पिष्ट्वाथ वस्त्रके ।निक्षिप्य धान्यसहितं बद्ध्वा तत्काञ्जिके पुनः ॥१६३॥कराभ्यां घट्टयेद् गाढं सूक्ष्मं तत्काञ्जिके स्रवेत् ।तत् कुर्याद् आतपे शुष्कम् एतद् धान्याभ्रकं स्मृतम् ॥१६४॥अभ्रकसत्वपातनम्कान्तवत्सत्वपतनमभ्रकस्य भवेत्प्रिये ।हेम रूप्यं माक्षिकं च वैक्रान्तं मधु टङ्कणम् ॥१६५॥गुञ्जा गुडं घृतं भल्लम् एकैकं दशनिष्ककम् ।पिष्ट्वार्कपयसा कार्या वटिकाः कर्षमात्रकाः ॥१६६॥शतनिष्के ऽभ्रसत्वे ऽस्मिन् विद्रुते वटिकाः क्षिपेत् ।एकैकघटिकामात्रं वट्यः क्षेप्याः शनैः शनैः ॥१६७॥यावत् तत् सत्त्वशेषं स्यात् तावद् धाम्यम् अतन्द्रितैः ।इदम् अभ्रकसत्त्वं तु देवयोग्यं रसायनम् ॥१६८॥अभ्रकसत्वभस्मचूर्णीकृत्याभ्रसत्त्वं तन्मेघनादः पुनर्नवा ।सूरणोऽर्कदलं मुस्ता जम्बीरस्तालमूलिका ॥१६९॥त्रिफला वज्रवल्ली च शाङ्गेरी मरिचं तथा ।अम्लवर्गो वटजटा कार्पासमुनिशिग्रुकम् ॥१७०॥एकवीरा कोकिलाक्षी सर्पाक्षी तुलसी वचा ।पेटारी वाकुची कन्या चैकैकस्य रसैः पृथक् ॥१७१॥मर्दनं घर्मपाकं च स्थालीपाकं पुटं क्रमात् ।एकैकाहं प्रकुर्वीत ततो दरदमाक्षिके ॥१७२॥सत्वषोडशभागेन योज्यं पेष्यं वरारसैः ।पुटषोडशपर्यन्तं कुर्यादेवं हि भैरवि ॥१७३॥पूर्वोक्तवत् स्याद् अमृतीकरणं कान्तसत्ववत् ।निरुत्थं भस्म भवति चायुरारोग्यदायकम् ॥१७४॥अभ्रकसत्वसेवाक्रमःअथ सेवां प्रवक्ष्यामि घनसत्वरसायने ।वमनादिविशुद्धात्मा पूजितस्वेष्टदेवतः ॥१७५॥गुञ्जामात्राभ्रसत्वं च द्विनिष्कं त्रिफलारजः ।मध्वाज्याभ्यां लिहेत्प्रातरेकमासं भजेदिति ॥१७६॥एवं षोडशमासान्तं मासवृद्धिक्रमेण वै ।गुञ्जावृद्धिर्भवेद्देवि सेवेतेत्थं रसायनम् ॥१७७॥पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्वीत सुरेश्वरि ।वर्षेण देहशुद्धिः स्याद्द्विवर्षादामयाच्च्युतः ॥१७८॥त्रिवत्सरान्महारोगनाशनं भवति ध्रुवम् ।चतुर्वर्षान् महाकान्तिबलवीर्यप्रवर्धनम् ॥१७९॥पञ्चवर्षाद्देहदार्ढ्यं षष्ठे वाक्सिद्धिमेति हि ।सप्तमे दिव्यदृष्टिः स्यादष्टमे विषनाशनम् ॥१८०॥नवाब्दे सिद्धतामेति ततो विद्याधरो भवेत् ।एकादशाब्दे त्विन्द्रत्वं द्वादशे ब्रह्मता भवेत् ॥१८१॥त्रयोदशाब्दे विष्णुत्वं रुद्रत्वं च चतुर्दशे ।ईशत्वं पञ्चदशके षोडशाब्दे सदाशिवः ॥१८२॥अणिमादियुतः स्वैरी सर्वज्ञः सर्वकृद्भवेत् ।अभ्रकद्रुतिःअथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्द एव च ॥१८३॥कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् ।मूषायां द्रावयित्वा तदभ्रसत्वद्रुतिर्भवेत् ॥१८४॥भस्मीकुर्यात्प्रयत्नेन द्रुतिमभ्रकसत्ववत् ।अभ्रकगुणाःषड्रसः सर्वरोगघ्नस्त्रिदोषशमनः परः ॥१८५॥वीर्यायुष्यबलप्रज्ञाकान्तिरूपविवर्धनः ।वपुर्दार्ढ्यस्थैर्ययुक्तो वलीपलितमृत्युहा ॥१८६॥रुच्यो वृष्यो लघुः शीतो मेध्यः स्निग्धो रसायनम् ।अभ्रकं दीपनं ग्राहि श्रेष्ठं पारदबन्धनम् ॥१८७॥पक्षजित्सूतराजस्य भस्मीभूताभ्रसत्वकः ।अभ्रस्य पत्रं रोगघ्नं तच्च सत्वं दृढंकरम् ॥१८८॥चेतसत्वं मृदु हरेद्द्रुतिस्तांश्च दरिद्रताम् ॥१८९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP