संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग १ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग १ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग १ Translation - भाषांतर कूर्दयतु अत्र : सुचलनम्, अन्वेषणम्कैलासशिखरासीनं कालकन्दर्पनाशनम् ।प्रसन्नं परमेशानं जगदानन्दकारणम् ॥१॥प्रणम्य परया भक्त्या भैरवी स्तुतिमातनोत् ।देवदेव महादेव जन्मदारिद्र्यनाशन ॥२॥प्रसीद करुणामूर्ते प्रसन्न परमेश्वर ।दिव्यागमरहस्यानि कुलकौलादिकानि च ॥३॥जाने तव प्रसादेन मायामङ्गलविग्रह ।श्रोतुमिच्छामि सर्वेश तव दिव्यरसायनम् ॥४॥जराजन्मामयघ्नं च खेचरत्वादिसिद्धिदम् ।दारिद्र्यदुःखशमनं ब्रह्मत्वादिवरप्रदम् ॥५॥ईश्वर उवाच ।साधु साधु महाभागे सर्वलोकोपकारिणि ।तत्सर्वं जायते सूताच्छुद्धात्मप्राणवल्लभे ॥६॥सर्वलोकोपकारार्थं गुह्यात् गुह्यतमं हितम् ।रसेन्द्रस्य समुत्पत्तिं लक्षणं च सुरार्चिते ॥७॥तत्सर्वं सम्प्रवक्ष्यामि शृणु भैरवि सम्प्रति ।रसोत्पत्तिःसुरेन्द्रैर् मुनिभिर् दिव्यैः गन्धर्वोरगकिंनरैः ॥८॥प्रार्थितो भवत्यां तु कुमारोत्पत्तिम् इच्छद्भिः ।तारकासुरनाशाय लोकानां रक्षणाय च ॥९॥तदा हिमालयगिरेः गुहायां सुचिरं प्रिये ।संक्रीडमानयोः कालो गतो नः पुत्रलिप्सया ॥१०॥त्रिजगत्क्षोभि सुरतं त्यजितुं प्रेषितः सुरैः ।कपोतरूपमास्थाय वह्निः प्रागाद् गवाक्षतः ॥११॥तं दृष्ट्वा लज्जया देवि विसृष्टं सुरतं मया ।निक्षिप्तं वदने वह्नेरावयोस्तेज उज्ज्वलम् ॥१२॥तेन दन्दह्यमानोऽग्निर्गङ्गायां तन्न्यमज्जयत् ।तेन गङ्गापि संतप्ता तद्बहिर् विससर्ज च ॥१३॥तत् द्विधाभूद्बहिः प्राप्य चैकं स्कन्दप्रसूतये ।अन्यच्छुद्धरसो जातो ह्यापदंबुधिपारदः ॥१४॥शतयोजननिम्नेषु पञ्चकूपेषु संस्थितः ।तन्मला धातवो जाता मणयो दिव्यवस्तु च ॥१५॥तत्तत्क्षेत्रविशेषेण नामवर्णादिकान् गुणान् ।भिन्नः प्राप्तो रसेन्द्रोऽयं जन्मदारिद्र्यभञ्जनः ॥१६॥ते कूपाः प्रलये पञ्च संज्ञा जातादि वै मुखाः ।ससंचवर्णां निवृत्त्या निक्षिप्ता नियुतानि हि ॥१७॥पञ्चवर्णानि देवेशि सर्वसत्त्वयुतानि च ।पूर्वस्यां पारदः श्वेतो नानावर्णैर्गदापहः ॥१८॥चञ्चलो दक्षिणस्यां तु रसेन्द्रो नीलवर्णवान् ।दोषहीनोऽतिरूक्षश्च सुतरां चपलः प्रिये ॥१९॥तेन जाता भुजङ्गेन्द्रा जराजन्मगदोषोज्झिताः ।पश्चिमस्यां तु सूताख्यः पीतवर्णो ऽतिरूक्षकः ॥२०॥सर्वदोषयुतोऽसौ तु शुद्धोऽष्टादशकर्मभिः ।सर्वसिद्धिप्रदो देवि देहलोहादिसिद्धिदः ॥२१॥उत्तरस्यां दिशो रक्तः सर्वदोषविवर्जितः ।रसायनं तु तेनैव देवा जन्मजरोज्क्षिताः ॥२२॥मध्ये तु मिश्रको ज्ञेयः सर्ववर्णसमन्वितः ।बहिश्चन्द्रार्काच्छायो रसो दोषसमन्वितः ॥२३॥स चाष्टादशसंस्कारैः शुद्धः सिद्धिप्रदो भवेत् ।अमराणां स्वरूपं तु रसेन्द्रो हि महेश्वरः ॥२४॥पूरयामासतुस्तौ च स्तोकतो ह्यतिदुर्लभौ ।अन्येषु सर्वकार्येषु सिद्धदोऽपि हि कर्मभिः ॥२५॥अष्टादशभिरत्यन्तं शुद्धः सिद्धिप्रदो द्रुतम् ।रसावतारं यो वेत्ति स तु धार्मिकसत्तमः ॥२६॥आयुष्यसुखसंतानधनारोग्यमवाप्नुयात् ।रसपर्यायाः तन्निरुक्तैस्तजन्मरोगजरामृत्युदारिद्र्यांभोनिधेः परम् ॥२७॥पारं ददाति तेनैव पारदः परिकीर्तितः ।रसोपरसलोहादिकर्तृत्वाच्च रसेन्द्रकः ॥२८॥मम प्रत्यङ्गसूतत्वात् सूत इत्यभिधीयते ।सूते यस्मात्सर्वसिद्धिं तस्मात्सूत इति स्मृतः ॥२९॥मम देहरसो यस्मात् रसस्तस्मात्प्रकीर्तितः ।जरामरणदारिद्र्यरोगनाशाय शस्यते ॥३०॥तस्माश्रस इति प्रोक्तो धातुत्वाच्च वरानने ।सर्वधातून्रसत्येषः तस्माच्च रस ईरितः ॥३१॥मित्रकारी सवर्णत्वात्सर्वसिद्धिप्रदायकः ।पारदो व्याधिसंहर्ता रसेन्द्रो रसकर्मणि ॥३२॥धातुकर्मसु सूतः स्याद् रसेन्द्रो रससाधने ।सर्वकर्मार्हततया सर्वतया प्रिये ॥३३॥सर्वसिद्धिप्रदो देवि मिश्रकोऽयमुदाहृतः ।रसगता दोषाःअमोघसिद्धिममलं सर्वसिद्धिप्रदं रसम् ॥३४॥आलोक्य त्रिदशाः सर्वे ब्रह्मविष्णुपुरेगमाः ।मामभिप्रार्थयामासुः स्तोत्रैश्च विविधैः प्रिये ॥३५॥रसेन्द्रदर्शनादेव नरपक्षिमृगादयः ।सिद्धिं नानाविधां यान्ति तन्निवारय शंकर ॥३६॥तस्मात् त्रिधा कञ्चुकाभिर्दोषैश्चासौ नियोजितः ।तदा प्रभृति दोषैश्च कञ्चुकाभिश्च वर्जितः ॥३७॥शुद्धोऽष्टादशसंस्कारैः सूतो भवति सिद्धिदः ।रसावस्थाःधूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ॥३८॥सकंपश्च विकंपश्च पञ्चावस्था रसस्य तु ।रसगतयःरसस्य गतयः पञ्च जले स्याज्जलवद्गतिः ॥३९॥धूमे धूमगतिः सूतः स्तरणे हंसवद्गतिः ।किट्टे किट्टनिभा देवि पञ्चमो जीववद्गतिः ॥४०॥चतस्रो गतयो दृश्याः अदृश्या पंचमी गतिः ।यन्त्रौषधाद्यै रोद्धव्याश्चतस्रो गतयः प्रिये ॥४१॥ध्यानमन्त्रौषधाद्यैश्च रोद्धव्या पञ्चमी गतिः ।नैसर्गिका दोषाःपार्थिवश्च तथैवाप्य आग्नेयश्चानिलस्तथा ॥४२॥नाभसो गजचर्माख्यः पुण्डरीको विसर्पकृत् ।हारिद्रो रक्तचर्माख्यो नारङ्गो रक्तबिन्दुकः ॥४३॥असह्याग्निश्च मण्डूको मला नैसर्गिकाः स्मृताः ।औपधिका दोषाःकालिका मलिनी चैव कपोती रक्तकञ्चुका ॥४४॥सलोमी गिरिजा चैव पिङ्गली सप्त कञ्चुकाः ।औपाधिका इमा ज्ञेयाः पारदे कीर्तिताः प्रिये ॥४५॥यौगिका दोषाःविषं नागश्च वङ्गश्च यौगिकश्च त्रयः स्मृताः ।दोषाणां स्वरूपम्भौमः कुष्ठकरश्चाप्यो दोषोद्रेकं करोति सः ॥४६॥आग्नेयः कुरुते दाहं वायव्यः शूलकृद्भवेत् ।बाधिर्यं नाभसो दोषो गजत्वग्गजचर्मकृत् ॥४७॥पुण्डरीको दद्रुकरो विसर्पश्च विसर्पकृत् ।हारिद्रः पाडुकृत्प्रोक्तो रक्तचर्माक्षिपाटलम् ॥४८॥नारङ्गो दुम्बरं कुष्ठं रक्तबीजो मसूरिकाः ।असह्याग्निर् मोहकारी मण्डूकश्चर्मकीलकृत् ॥४९॥मलो मूर्च्छाकरो देवि ख्याता दोषोद्भवास्तथा ।कालिका कृष्णवर्णं च मलिनी मलसग्रहम् ॥५०॥कपोती स्वरसादं च विस्फोटं रक्तकञ्चुका ।सलोमी वमनं कुर्यात् गिरिजा जाड्यकारिणी ॥५१॥पिङ्गली नेत्रघ्नी दोषाः कचुकजाः स्मृताः ।विषं मृत्युप्रदो नागो जाड्यं वङ्गस्सुरार्चिते ॥५२॥कुरुते पूतिगन्धत्वं गदा यौगिकसम्भवाः ।रसस्य स्थानान्तरगतिःप्रथमार्तवसुस्नाता सुरूपा शुभलक्षणा ॥५३॥शुद्धाम्बरधरा माल्यगन्धन्लिप्ता सुभूषिता ।उत्तमाश्वसमारूढा रतिसङ्गविवर्जिता ॥५४॥अभ्यर्च्य गणनाथं च भैरवं च गुरुं पुरा ।रसेन्द्रभैरवं ध्यात्वा कूपस्थं पारदं प्रिये ॥५५॥पश्येच्छीघ्रं ततो गच्छेत् न पुनः पृष्ठमीक्षयेत् ।एषा योजनमात्रोआ कुमारी हयसाधना ॥५६॥तदानीम् आहरेत्ततु कुमारासंजिघृक्षया ।कूपमध्यात् समुत्पत्य सोऽनुधावति तां प्रति ॥५७॥यावद्योजनमागत्य पुनः कूपे विशेत्क्षणात् ।परितः कृतगर्तेषु तेषु तेषु च संस्थितम् ॥५८॥तं रसेन्द्रं शुचिर्भूत्वा गृह्णीयाद्रसदेशिकः ।गौरवादग्निवदनात् पतितो दरदाह्वये ॥५९॥देशे स सूतो भूलीनः तन्त्रज्ञै रसकोविदः ।निक्षिप्य मृत्तिकायन्त्रे पातनाख्ये समागतः ॥६०॥पारदो गृह्यते देवि दोषहीनस्स उच्यते ।एवमेव तत्र तत्र सिद्धविद्याधरैस्सदा ॥६१॥निक्षेपितः पारदेन्द्रो विद्यते देवि सिद्धिदः ॥६२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP