संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २५ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २५ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २५ Translation - भाषांतर परिभाषां प्रवक्ष्यामि शृणु त्वं सावधानतः ।वैद्यभागःअर्धं सिद्धरसं देवि त्रिष्वेकं हेमभस्म च ॥१॥पादांशकं रूप्यभस्म षष्ठांशं ताम्रभस्म च ।अष्टमांशं हि कान्ताभ्रं कलांशं नवरत्नकम् ॥२॥रसेश्वरं समुद्दिश्य रसवैद्याय धीमते ।रसाचार्याय सिद्धाय दद्यादिष्टार्थसिद्धये ॥३॥कज्जली पङ्करसश्चधातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः ।सुश्लक्ष्णः कज्जलाभोऽसौ कज्जली साभिधीयते ॥४॥सद्रवे मर्दितः सोऽपि इति पाकरसः स्मृतः ।पिष्टीअर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽपि खल्वे ।अर्कातपे तीव्रतरे विमर्द्यात्पिष्टिर्भवेत्सा नवनीतरूपा ॥५॥खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम् ॥६॥पेषणात्पिष्टितां याति सा पिष्टीति मता परैः ।पातनपिष्टीचतुर्थांशसुवर्णेन रसेन कृतपिष्टिका ॥७॥भवेत्पातनपिष्टी सा तथा रूप्यादिभिः कृता ।हेमपिष्टी तारपिष्टी चरूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ॥८॥समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ।कृष्टीं क्षिप्त्वा सुवर्णान्ते न वर्णो हीयते तया ॥९॥स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ।लोहकम्ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ॥१०॥सगन्धे लिकुचद्रावे निर्गतं वरलोहकम् ।हेमरक्ती ताररक्ती चतेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृता ॥११॥निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।तारस्य रञ्जनी चापि बीजरागविधायिनी ॥१२॥एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥१३॥चन्द्रानलदलम्मृतेन वा बद्धरसेन वान्यलोहेन वा साधितमन्यलोहम् ।सितं हि पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥१४॥आभासमृतबन्धेन रसेन सह योजितम् ।साधितं वान्यलोहेन सितं पीतं हि तद्दलम् ॥१५॥अयोनागम्ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् ।तद्द्वयं द्विपलं वाथ ताम्रभस्म पलद्वयम् ॥१६॥सर्वं निक्षिप्य मूषायां सप्तवारं धमेद्दृढम् ।तदयोनागमित्युक्तं साधकं देहलोहयोः ॥१७॥रसेन सारणायन्त्रे तदीया गुलिका कृता ।सा धृता वदने हन्ति मेहरोगानशेषतः ॥१८॥कुरुते दन्तदार्ढ्यं च दृशौ गृध्रदृशाविव ।तथान्यान् क्षेत्रजान्रोगान् रोगाञ् जत्रूर्ध्वसंभवान् ॥१९॥शुल्वनागम्माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥२०॥नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्तितम् ॥२१॥साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।निहन्ति मासमात्रेण मेहव्यूहमशेषतः ॥२२॥पथ्याशनस्य वर्षेण पलितं वलिभिः सह ।गृध्रदृष्टिर् लसद्दृष्टिः सर्वारोग्यसमन्वितः ॥२३॥पिञ्जरीलोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥२४॥चन्द्रार्कम्भागाः षोडश तारस्य तथा द्वादश भास्वतः ।एकत्रावर्तितास्ते तु चन्द्रार्कमिति कथ्यते ॥२५॥निर्वापहणम्धार्यलोहे ऽन्यलोहश्चेत्प्रक्षिप्तो वङ्कनालतः ।निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥२६॥क्षिपेन्निर्वाहणं द्रव्ये निर्वाह्ये समभागिकम् ।आवाप्यं वापनीयं च भागे दृष्टे च दृष्टवत् ॥२७॥वार्तितर (डेf.)मृतं तरति यत्तोये लोहं वारितरं हि तत् ।रेखापूर्ण (डेf.)अङ्गुष्ठतर्जनीघृष्टं यत्तद्रेखान्तरे विशेत् ॥२८॥मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ।निरुत्थभस्मलक्षणम्गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ॥२९॥न याति प्रकृतिं ध्मानादपुनर्भवमुच्यते ।निरुत्थलोहेन सह संयुक्तं ध्मातं रूप्येण चेल् लिहेत् ॥३०॥तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ।एवं रूप्यं सताम्रं चेद्ध्मातं ताम्रे लगेन्न हि ॥३१॥तदा निरुत्थं मन्तव्यं रजतं च भिषग्वरैः ।बीजम्निर्वाहणविशेषेण तद्वद्वर्णं भवेद्यदा ॥३२॥मृदुलं चित्रसङ्काशं तद् बीजमिति कथ्यते ।उत्तारणम्इदमेव हि निर्दिष्टं वैद्यैरुत्तारणं खलु ॥३३॥संसृष्टलोहयोरेकलोहस्य परिनाशनम् ।ताडनम्प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ॥३४॥धान्याभ्रम्चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥३५॥सत्त्वम्क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।यस्ततो निर्गतः सारः सत्त्वम् इत्यभिधीयते ॥३६॥एककोलीसकःकोष्ठिकाशिखरापूर्णैः कोकिलाध्मानयोगतः ।मूषाकर्णम् अनुप्राप्तैर् एककोलीशको मतः ॥३७॥स्वेदनाद्यर्हाः कोकिलाःशिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः ।कृष्णाङ्गाः कोकिलाश्चेति पर्यायास्ते परस्परम् ॥३८॥छर्चोअल् > wओओद्द्रावणे सत्त्वपाते च माधूकाः खादिराः शुभाः ।दुर्द्रावे वंशजापेस्तु स्वेदने बादराः शुभाः ॥३९॥हिङ्गुलाकृष्टरसःविद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रवमर्दितात् ।समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥४०॥घोषाकृष्टं वङ्गम्स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतम् ॥४१॥गुह्यनागम्पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् ।रूपिकादुग्धसम्पिष्टशिलायां परिलेपितम् ॥४२॥शरावसंपुटे रुद्ध्वा पचेत् क्रोडपुटेन ताम् ।तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते ॥४३॥गुडगुग्गुलुगुञ्जाज्यटङ्कणैः परिमर्द्य तम् ।मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः ॥४४॥चक्रीं तेन पुनः कृत्वा पलप्रमितपारदैः ।लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च ॥४५॥पचेद्गजपुटैरेवं वाराणां खलु विंशतिः ।पुटे पुटे च नागस्य कुर्यादुत्थापनं खलु ॥४६॥नीलज्योतिर्द्रवैः सम्यग्दशवाराणि ढालयेत् ।इति सिद्धं हि तत् सीसं कर्षमात्रावशेषितम् ॥४७॥गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायने ।निष्कमात्रं तु नागेऽस्मिन् लोहाख्ये या द्रुते सति ॥४८॥स्वतो लक्षगुणां हैमीं शलाकां ग्रसते ध्रुवम् ।लगेत्तैलप्रतप्तं तत्स्वर्णमुद्गिरति ध्रुवम् ॥४९॥गुह्यनागोऽयमुद्दिष्टः शक्तिस्वच्छन्दभैरवः ।वरनागम्तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ॥५०॥मृदु कृष्णं द्रुतद्रावं वरनागं तदुच्यते ।उत्थापनम्मृतस्य पुनरुद्भूतिः सा प्रोक्तोत्थापनाख्यया ॥५१॥ढालनम्द्रुतद्रव्यस्य निक्षेपो द्रवे तत् ढालनं मतम् ।चपलःत्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ॥५२॥विमृद्य पुटयेत् तावद् यावत् कर्षावशेषकम् ।न तत्पुटसहस्रेण क्षयमायाति सर्वदा ॥५३॥चपलोऽयं समादिष्टो वार्तिकैर्नागसम्भवः ।इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ॥५४॥तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।स रसो धातुवादेषु शस्यते न रसायने ॥५५॥अयं हि कर्पणाख्येन लोकनाथेन कीर्तितः ।भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशसमन्वितम् ॥५६॥कुमारीमूलतोयेन मर्दयेदेकवासरम् ।शार्ङ्गेरीस्वरसे वापि दिनमेकमनारतम् ॥५७॥एवं भूनागधौतं च मर्दयेद्दिवसद्वयम् ।अथैकपलनागेन तावता त्रपुणापि च ॥५८॥दशनिष्करसेन्द्रेण श्लक्ष्णपिष्टं समाचरेत् ।योजयित्वाद्यकल्केन यथापूर्वं विमर्दयेत् ॥५९॥ततः शाणरसेन्द्रेण सत्त्वेन रसकस्य च ।पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्कैश्च योजयेत् ॥६०॥अथ प्रक्षाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् ।पलार्धं शुद्धसस्येन अष्टगुञ्जारसेन च ॥६१॥विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः ।निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च ॥६२॥शिखित्रैर् नवभिः सम्यग्भस्त्राभ्यां प्रधमेत्खलु ।ततो मूषागतं सत्त्वं समादाय समन्ततः ॥६३॥धमेत्प्रकटमूषायां वङ्कनालेन शोधयेत् ।दशशाणं हि तत्सत्वं भस्मना लवणेन च ॥६४॥सकाञ्जिकेन संपेष्य पुटयोगेन शोधयेत् ।त्रिनिष्कप्रमिते तस्मिन्पूर्वप्रोक्तेन भस्मना ॥६५॥अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत् खलु ।इयता पूर्वसूतोऽसौ क्षीयते न कथंचन ॥६६॥चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ।अनेनापि रसः शीघ्रं पूर्ववद् बध्यते सुखम् ॥६७॥कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः ।भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥६८॥सुखं प्रकटमूषायां भवेच् चातिगुणोत्तरः ।जीर्णग्रासो रसो ह्येषां देहलोहकरो भवेत् ॥६९॥भूनागधौतम्भूभुजङ्गशकृत्तोयैः प्रक्षाल्यापहृतं मलम् ।कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥७०॥द्वन्द्वानम्द्रव्ययोर्मेलनं ध्मानाद् द्वंद्वानं परिकीर्तितम् ।भञ्जनीभागाद्रूप्याधिके क्षेपमनुवर्णसवर्णकम् ॥७१॥दलैर्वा वर्णिकाग्रासो भञ्जनी वादिनिर्मिता ।फुल्लिकापतङ्गीकल्कतो जाता लोहे तारत्वहेमता ॥७२॥दिनानि कतिचित् स्थित्वा यात्यसौ फुल्लिका मता ।पतङ्गीरागःरञ्जितार्धरसाल्लोहादन्यद्वा चिरकालतः ॥७३॥विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञकः ।आवापःद्रुते द्रव्यान्तरक्षेपाल्लोहाद्यैः क्रियते हि यः ॥७४॥स आवापः प्रतीवापस्तदेवाच्छादनं मतम् ।अभिषेकःद्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ॥७५॥सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ।नागं वा वङ्गं वा प्रद्राव्य निषेचयेच्छतं वारान् ॥७६॥उक्तद्रव्ये तद्द्रवताडनमेतद्धि सोऽभिषेकस्तु ।निर्वापतप्तस्याप्सु परिक्षेपो निर्वापस्तपनं च तत् ॥७७॥प्रतिवाप्यादिकं कार्यं द्रुतलोहे सुनिर्मले ।शुद्धावर्तःयदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ॥७८॥शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।रेखावर्तःद्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ॥७९॥द्रवस्योन्मुखता सेयं रेखावर्तः स कथ्यते ।स्वाङ्गशीतं वह्नि(बहिः)शीतं चवह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ॥८०॥अग्नेराकृष्टशीतं यद्वह्निशीतं तदीरितम् ।स्वेदनम्क्षाराम्लैर् औषधैर्वापि डोलायन्त्रे स्थितस्य हि ॥८१॥पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ।मर्दनम्उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ॥८२॥पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ।मूर्छनम्मर्दनादिष्टभैषज्यैर् नष्टपिष्टित्वकारकम् ॥८३॥तन्मूर्च्छनं हि वार्यद्रिभूजकञ्चुकनाशनम् ।नष्टपिष्टिःस्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत् ॥८४॥विवृद्धिर् जितसूतेन नष्टपिष्टिः स उच्यते ।उत्थापनम्स्वेदतापादियोगेन स्वरूपापादनं पुनः ॥८५॥तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनम् ।पातनम्उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।निर्यापनं पातनसंज्ञयोक्तं वङ्गाहिसंपर्कजकञ्चुकघ्नम् ॥८६॥रोधनम्जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ॥८७॥स्थितिराप्यायिनी कुम्भे योऽसौ रोधनमुच्यते ।नियमनम्रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ॥८८॥क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् ।दीपनम्धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यतः ॥८९॥ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ।ग्रासमानम्इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ॥९०॥इयतीत्युच्यते योऽसौ ग्रासमानमितीरितम् ।जारणाग्रासस्य चारणं गर्भद्रावणं जारणं तथा ॥९१॥इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ।ग्रासः पिण्डः परीणामस्तिस्रश्चाख्याः पराः पुनः ॥९२॥समुखा निर्मुखा चेति जारणा द्विविधा मता ।निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ॥९३॥समुखजारणाशुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ।चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥९४॥एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ॥९५॥इयं हि समुखी प्रोक्ता जारणामृतजारणा ।निर्मुखचारणादिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठिषु ॥९६॥भुङ्क्ते निखिललोहाद्यान्योऽसौ राक्षसवक्त्रवान् ।चारणारसस्य जठरे ग्रासक्षेपणं चारणा मता ॥९७॥गर्भद्रुतिःग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ।बाह्यद्रुतिःबहिरेव द्रुतीकृत्य घनसत्वादिकं खलु ॥९८॥जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते ।द्रुति (सुब्स्तन्चे)निर्लेपित्वं द्रवत्वं च तेजस्त्वं लघुता तथा ॥९९॥असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ।द्रुति (प्रोचेस्स्)औषधाज्यादियोगेन लोहधात्वादिकं सदा ॥१००॥उत्तिष्ठते द्रवाकारा सा द्रुतिः परिकीर्तिता ।जारणाद्रुतग्रासपरीणामो बिडयन्त्रादियोगतः ॥१०१॥जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।विडम्क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैः सपटुभिस्तथा ॥१०२॥रसग्रासस्य जीर्णार्थं तद्बिडं परिकीर्तितम् ।रञ्जनम्संसिद्धबीजसत्त्वादिजारणेन रसस्य हि ॥१०३॥पीतादिरागजननं रञ्जनं समुदीरितम् ।सारणासूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ॥१०४॥वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ।वेधःव्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ॥१०५॥वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ।वेधभेदाःलेपः क्षेपश्च कुन्तश्च शब्दाख्यो धूमसंज्ञकः ॥१०६॥लेपवेधःलेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ।लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् ॥१०७॥क्षेपवेधःप्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञकः ।कुन्तवेधःसंदंशधृतसूतेन द्रुतद्रव्याहतिश्च यः ॥१०८॥सुवर्णत्वादिकरणः कुन्तवेधः स उच्यते ।धूपवेधःवह्नौ धूमायमाने ऽन्तःप्रक्षिप्तरसधूमतः ॥१०९॥स्वर्णाद्यापादनं लोहे धूमवेधः स ईरितः ।शब्दवेधःमुखस्थिते रसे नाल्या लोहस्य धमनात्खलु ॥११०॥स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ।उत्पाटनम्पिण्डद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ॥१११॥प्रकाशनं च वर्णस्य तदुत्पाटनमीरितम् ।स्वेदनम्क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः ॥११२॥भूमौ निखन्यते यत्तत्स्वेदनं समुदीरितम् ।संन्यासःरसस्यौषधयुक्तस्य भाण्डे रुद्धस्य यत्नतः ॥११३॥सदाग्नियुतचुल्ल्यन्तःक्षेपः संन्यास उच्यते ।स्वेदनसंन्यासगुणाःद्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ॥११४॥गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा ॥११५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP