संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग १० रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग १० रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग १० Translation - भाषांतर घुटिकासिद्धिःप्रणम्य परया भक्त्या भैरवं भैरवी शिवम् ।उवाच विनयेनेदं लोकानां हितकांक्षिणी ॥१॥श्रीभैरवी ।देवदेव कृपामूर्ते सर्वानुग्राहक प्रभो ।त्वत्प्रसादान्मया ज्ञातं रहस्यम् अतिदुर्लभम् ॥२॥कान्ताभ्रहेमकुलिशरसभस्म रसायनम् ।अतः परं महादेव श्रोतुमिच्छामि भैरव ॥३॥एतैर् घनाद्यै रचितघुटिकानां रसायनम् ।श्रुत्वा सविनयं वाक्यं भैरव्यास्त्वादिभैरवः ॥४॥स्थित्वेत्युवाच वचनं तद्वक्ष्यामि रसायनम् ।श्रीभैरवः ।१. सञ्जीवनी घुटिकाशृणु पार्वति यत्नेन सावधानेन साम्प्रतम् ॥५॥प्रथमं जारणं कार्यं पश्चात्पारदबन्धनम् ।तस्माज्जारणबीजानि घनादीनां वदामि ते ॥६॥गन्धतालशिलातुत्थखर्परीहिङ्गुलामलाः ।भूनागताप्यकासीसनृपावर्ताभ्रगैरिकम् ॥७॥कान्तत्रिक्षारवैक्रान्तास्त्वेते चूर्णसमांशकः ।सिद्धचूर्णमिदं ख्यातं श्रेष्ठं स्याद् बीजकर्मणि ॥८॥द्वन्द्वमेलोपलिप्तायां मूषायां निक्षिपेत्प्रिये ।कृष्णसत्वाभ्रसत्वं च द्रावयेत्समशुल्बकम् ॥९॥समित्रपञ्चकं तस्मिन्सिद्धचूर्णं मुहुर्मुहुः ।घनाद्दशगुणं क्षेप्यं धमेद्गाढं वरानने ॥१०॥घनसत्वावशिष्टं स्याद्धमनीयं च तावता ।कालेनेदं व्योमसत्वबीजं जार्यं रसायने ॥११॥समुखे पारदे बीजं चतुःषष्ट्यंशके क्षिपेत् ।तप्तखल्वेऽम्लवर्गेण मर्दयेद् दिवसत्रयम् ॥१२॥तं सूतं कच्छपे यन्त्रे सबिडे जारयेत्प्रिये ।ततो द्वात्रिंशदंशं च षोडशांशं रसस्य तु ॥१३॥अष्टमांशं चतुर्थांशं द्व्यंशं चैव समांशकम् ।पारदे जारयेदेवं क्रमाद्बीजं सुरेश्वरि ॥१४॥सूतमेवंविधं व्योमसत्वं बीजसमं प्रिये ।तप्तखल्वेऽम्लवर्गेण मर्दयेदेकवासरम् ॥१५॥पिष्टिं पारदराजं तं जम्बीरान्तर्विनिक्षिपेत् ।दोलायन्त्रेऽम्लयुक्ते तं विपचेत्सप्तवासरम् ॥१६॥तमादाय बलिं क्षिप्त्वा सिद्धचूर्णेन पार्वति ।ततस्तं भूधरे यन्त्रे पचेल्लघुपुटेन च ॥१७॥यावत्कठिनतां याति तावत्कार्यं मुहुर्मुहुः ।दोलापाकं सिद्धचूर्णलेपं भूधरके पुटम् ॥१८॥मृतसञ्जीवनी नाम्ना घुटिका सर्वसिद्धिदा ।वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥१९॥हेम्ना सुवेष्टिता सम्यग्वलीपलितनाशिनी ।वक्त्रस्था मृत्युहा वर्षाद्विषविग्रहनाशिनी ॥२०॥शुद्धं गन्धं कर्षमात्रं गव्यं क्षीरं पलं पिबेत् ।अनेन क्रमणेनैव सूतः संक्रमते तनुम् ॥२१॥२. दिव्या घुटिकाकान्तम्लेच्छमुखं रूप्यं लिप्तमूषान्तरे समम् ।द्रावयित्वा सिद्धचूर्णं कान्ताद्दशगुणं शनैः ॥२२॥वहेन्मुहुर्मुहुर्द्राव्यं यावत्कान्तोऽवशिष्यते ।कान्तबीजमिदं प्रोक्तं श्रेष्ठं जार्यं रसायने ॥२३॥समुखे पारदे चेदं बीजं चार्यं च पूर्ववत् ।चतुःषष्ट्यंशकं पूर्वं समांशं तं क्रमेण वै ॥२४॥एवंविधं सूतराजं कान्तबीजं द्वयं समम् ।मर्दयेत्तप्तखल्वे च साम्लवर्गे दिनत्रयम् ॥२५॥पिष्टीभूतं च जम्बीरे क्षिप्त्वाम्लगणपूरिते ।दोलायन्त्रे पचेत्सम्यगेवम् आ सप्तवारकम् ॥२६॥तमादाय लिहेद्बाह्ये सिद्धचूर्णेन भैरवि ।ततो दिव्यौषधैर्लिप्ते संपुटे भूधरे पचेत् ॥२७॥यावत्कठिनतां याति तावत्कुर्यात्क्रमेण च ।दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥२८॥पुटे तौ जारयेद् दिव्यनाम्नाथ परमेश्वरि ।वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥२९॥हेम्ना सुवेष्टितं धार्यं वलीपलितनाशनम् ।पूर्ववत्फलदा पुण्या धार्या यत्नेन मानवैः ॥३०॥पूर्ववत्क्रामणं कार्यं देहे संक्रमते रसः ।३. कामेश्वरी घुटिकासमुखे पारदे व्योमकान्तबीजं च मारयेत् ॥३१॥प्रत्येकं पारदसमं पूर्ववच्च शनैः शनैः ।चतुःषष्ट्यंशकं चादौ समांशं तं क्रमाद्रसे ॥३२॥अस्य सूतस्य तुल्यांशं कान्तबीजाभ्रबीजकम् ।तप्तखल्वेऽम्लवर्गेण मर्दयेद्वासरत्रयम् ॥३३॥पिष्टीकृतं च जम्बीरे क्षिप्त्वा दोलागतं पचेत् ।पुनरादाय तां पिष्टिं सिद्धचूर्णेन लेपयेत् ॥३४॥दिव्यौषधिगणैर्लिप्ते संपुटे भूधरे पचेत् ।यदा कठिनतां याति द्विधा कुर्यात्क्रमेण तु ॥३५॥दोलास्वेदं चूर्णलेपं कृत्वा भूधरपाचनम् ।कामेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥३६॥पूर्ववत्क्रामणं कार्यं रसेन्द्रः क्रामते तनुम् ।४. हेमसुन्दरी घुटिकास्वर्णं रूप्यं म्लेच्छमुखं कान्तसत्वाभ्रसत्वकम् ॥३७॥द्वन्द्वमेलोपलिप्तायां मूषायां तद्विनिक्षिपेत् ।तस्मिन्द्रुते सिद्धचूर्णं स्वर्णाद्दशगुणं क्षिपेत् ॥३८॥यावत्स्वर्णावशेषं स्यात्तावद्द्राव्यं शनैः शनैः ।हेमबीजम् इदं ख्यातं श्रेष्ठं रसरसायने ॥३९॥समुखे पारदे देवि बीजं रससमं क्रमात् ।जारयेत् पूर्ववद्देवि चतुःषष्ट्यंशकादिकम् ॥४०॥एतद्रसं हेमबीजं समं खल्वे च तापिते ।मर्दयेद् अम्लवर्गेण त्र्यहात् पिष्टिर् भवेद्रसः ॥४१॥पिष्टिं जम्बीरजां कृत्वा दोलायन्त्रेऽम्लपूरिते ।षडहं पाचयेद्देवि सिद्धचूर्णप्रलेपनम् ॥४२॥तथा संपुटलेपं च तथा भूधरपाचनम् ।यावत् कठिनतां याति तावत्कुर्याच्च पूर्ववत् ॥४३॥इयं तु घुटिका दिव्या विख्याता हेमसुन्दरी ।वक्त्रस्था सिद्धिदा न्ःणां जरामृत्युविषापहा ॥४४॥पूर्ववत् क्रामणं कार्यं सूतः संक्रमते पुनः ।५. मदनसुन्दरी घुटिकामुखीकृते रसे व्योमबीजं हाटकबीजकम् ॥४५॥समं समं क्रमाज्जार्यं चतुःषष्ट्यंशकादिकम् ।इत्येवं जारितं सूतं बीजं गगनरुक्मयोः ॥४६॥मर्दयेत् पारदसमं तप्तखल्वेऽम्लवर्गतः ।त्रिदिनाज्जायते पिष्टिः पुनर् जम्बीरगाम् कुरु ॥४७॥दोलायन्त्रेऽम्लभरिते पचेत्तां सप्तवासरम् ।लेपनं सिद्धचूर्णस्य तथा संपुटलेपनम् ॥४८॥तथा भूधरपाकश्च यावत्कठिनतां व्रजेत् ।सिद्धिदा घुटिका ह्येषा नाम्ना मदनसुन्दरी ॥४९॥आस्यान्तरस्थिता कुर्यात् सर्वसिद्धीश् चिरायुषः ।व्यालव्याघ्रगजादीनां राज्ञां वश्यं स्त्रियामपि ॥५०॥पूर्ववत् क्रामणं कार्यं कायम् आक-रामते रसः ।६. खेचरी घुटिकामुखीकृते रसे कान्तहेमबीजं समं समम् ॥५१॥रसोन्मिते पृथक् जार्यं चतुःषष्ट्यंशकादिकम् ।इत्थं जीर्णं रसं बीजं कान्तहेम्नो रसोन्मितम् ॥५२॥पूर्ववत् पिष्टिकां कृत्वा दोलायन्त्रे च पाचनम् ।यावत् कठिनतां याति तावत् कार्यं मुहुर्मुहुः ॥५३॥घुटिका जायते नाम्ना खेचरी सर्वसिद्धिदा ।पूर्ववत् क्रामणं कार्यं सुगन्धं गोपयः पिबेत् ॥५४॥तेन संक्रमते देहं घुटिकान्तर्गतो रसः ।७. वज्रेश्वरी घुटिकासमुखे पारदे व्योमकान्तहेम्नां समं समम् ॥५५॥बीजं पृथक्पृथक् जार्यं चतुःषष्ट्यंशकादिकम् ।इत्थंभूतस्य सूतस्य समं व्योमादिबीजकम् ॥५६॥त्रयं तापितखल्वेन त्र्यहमम्लेन मर्दयेत् ।स सूतः पिष्टिम् आप्नोति तां पिष्टिं पूर्ववत्प्रिये ॥५७॥दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।यावत्कठिनतां याति तावत्कार्यम् अतन्द्रितैः ॥५८॥वज्रेश्वरीति घुटिका वक्त्रस्था सर्वसिद्धिदा ।पूर्ववत्क्रामणं कार्यं गात्रं व्याप्नोति पारदः ॥५९॥८. महावज्रेश्वरी घुटिकाशुद्धं स्वर्णं वज्रभस्म लोहचूर्णाभ्रसत्वकम् ।एतच्चतुःसमं नागं मूषायां चान्ध्रितं धमेत् ॥६०॥द्वन्द्वमेलोपलिप्तायां पुनरादाय तं प्रिये ।एकीभूतं च मूषायां प्रकटं च धमेत्पुनः ॥६१॥धौतसत्त्वं माक्षिकं च स्वल्पं स्वल्पं मुहुः क्षिपेत् ।वज्रहेमावशेषं तु यावत्स्यात् तत उद्धरेत् ॥६२॥एतस्मिन् व्योमसत्वायश्चूर्णनागांश्च पूर्ववत् ।द्वन्द्वमेलोपलिप्तायाम् अन्ध्रयित्वा दृढं धमेत् ॥६३॥एकीभूतं समादाय मूषायां प्रकटं धमेत् ।हेमवज्रावशेषं स्याद् यावत् तत् पुनराहरेत् ॥६४॥व्योमसत्वम् अयश्चूर्णं नागं वाह्यं पुनः पुनः ।पूर्ववत् क्रमयोगेन माक्षिकं धौतसत्त्वकम् ॥६५॥मुहुः क्षिप्य धमेत्तं तु बाह्यमेवं तु षड्गुणम् ।वज्रबीजमिदं श्रेष्ठं जार्यं रसरसायने ॥६६॥समुखे पारदे जार्यं वज्रबीजं रसोन्मितम् ।चतुःषष्ट्यंशकाद्यं च क्रमात् संक्रामयेत् प्रिये ॥६७॥इत्थं जारितसूतस्य समं कुलिशबीजकम् ।तप्तखल्वेऽम्लवर्गेण मर्दयेद् दिवसत्रयम् ॥६८॥स पिष्टिर् जायते सूतस्तां पिष्टीं च समाहरेत् ।दोलापाकः सिद्धचूर्णलेपः सम्पुटभूधरम् ॥६९॥कुर्वीत पूर्ववत् सर्वं यावत् कठिनतां व्रजेत् ।महावज्रेश्वरी नाम्ना घुटिका सिद्धिदायिनी ॥७०॥वक्त्रस्था क्रामणं कार्यं पूर्ववत् क्रामते रसः ।९. वज्रखेचरी घुटिकामुखीकृते रसे व्योमवज्रबीजं रसोन्मितम् ॥७१॥पृथक् पृथक् जारणीयं चतुःषष्ट्यंशकादिकम् ।अमुष्य जीर्णसूतस्य समं वज्राभ्रबीजकम् ॥७२॥तप्तखल्वेऽम्लवर्गेण त्रिदिनं मर्दयेद्दृढम् ।स रसो जायते पिष्टिस्तां पुनः पूर्ववत्प्रिये ॥७३॥दोलास्वेदं सिद्धचूर्णलेपं भूधरपाचनम् ।यावत् कठिनतां यति तावद् एवं मुहुर्मुहुः ॥७४॥घुटिका जायते दिव्या नाम्नेयं वज्रखेचरी ।वक्त्रस्था सिद्धिदा नृणां पूर्ववत् क्रामणं प्रिये ॥७५॥१०. कालविध्वंसिनी घुटिकामुखीकृते रसे कान्तवज्रबीजं रसोन्मितम् ।पृथक्पृथग् जारणीयं चतुःषष्ट्यंशकादिकम् ॥७६॥अस्य जीर्णस्य सूतस्य समं कुलिशकान्तयोः ।बीजं संतप्तखल्वे ऽम्लवर्गे मर्द्यं दिनत्रयम् ॥७७॥पिष्टिर् भवत्येष सूतः पिष्टिं तां पुनराहरेत् ।दोलास्वेदः सिद्धचूर्णलेपः संपुटभूधरम् ॥७८॥यावत् कठिनतां याति तावदेवं मुहुर्मुहुः ।कालविध्वंसिनी नाम्ना घुटिका जायते शुभा ॥७९॥मुखस्था सिद्धिदा दिव्या पूर्ववत् क्रामणं पिबेत् ।११. गगनेश्वरी घुटिकामुखीकृते सूतराजे वज्रकान्ताभ्रबीजकम् ॥८०॥पृथक्पृथक्सूतराजे चतुःषष्ट्यंशकादिकम् ।रसस्य तस्य सदृशं वज्रबीजाभ्रबीजकम् ॥८१॥तप्तखल्वेऽम्लवर्गेण त्र्यहात् पिष्टिः सुमर्दनात् ।दोलापाकः सिद्धचूर्णलेपः संपुटभूधरम् ॥८२॥यावत् कठिनतां याति तावत् कुर्यान्मुहुर्मुहुः ।गगनेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥८३॥पूर्ववत् क्रामणं कार्यं देहे क्रामति सूतकः ।१२. वज्रघण्टेश्वरी घुटिकामुखीकृते सूतराजे बीजं वज्रसुवर्णयोः ॥८४॥पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् ।अस्य सूतस्य सदृशं हेम्नो वज्रस्य बीजकम् ॥८५॥तप्तखल्वेऽम्लवर्गेण त्र्यहात् पिष्टिर् भवेद्रसः ।तां पिष्टिं पुनरादाय पूर्ववत् परिकल्पयेत् ॥८६॥दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।यावत् कठिनतां याति तावत् कुर्यान्मुहुर्मुहुः ॥८७॥वज्रघण्टेश्वरी ह्येषा घुटिका सिद्धिदायिनी ।मुखस्था सिद्धिदा दिव्या पूर्वोक्तं क्रामणं पिबेत् ॥८८॥१३. वज्रभैरवी घुटिकामुखीकृते सूतराजे हेमवज्राभ्रबीजकम् ।पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् ॥८९॥अस्य सूतस्य सदृशं हेमवज्राभ्रबीजकम् ।मर्दयेद् अम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥९०॥पिष्टिर्भवेत् पुनस्तां च समादाय ततः प्रिये ।दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥९१॥यावत् कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।घुटिका जायते दिव्या नाम्नेयं वज्रभैरवी ॥९२॥मुखस्थिता सिद्धकरी क्रामणं पूर्ववत्प्रिये ।१४. त्रिपुरभैरवी घुटिकामुखीकृते रसे कान्तवज्रहाटकबीजकम् ॥९३॥जार्यं पृथक्सूतसमं चतुःषष्ट्यंशकादिकम् ।जीर्णसूतसमं कान्तवज्रकाञ्चनबीजकम् ॥९४॥तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयम् ।जायते पारदः पिष्टिः पूर्ववत्तां समाहरेत् ॥९५॥दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।यावत् कठिनताम् एति तावत्कार्यं मुहुर्मुहुः ॥९६॥घुटिका जायते दिव्या नाम्ना त्रिपुरभैरवी ।मुखस्था सिद्धिदा ह्येषा पूर्ववत् क्रामणं प्रिये ॥९७॥१५. महाभैरवी घुटिकामुखीकृते रसे कान्तवज्राभ्रस्वर्णबीजकम् ।पृथक्सूतसमं जार्यं चतुःषष्ट्यंशकादिकम् ॥९८॥अस्य सूतस्य जीर्णस्य समं व्योमादिबीजकम् ।मर्दयेद् अम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥९९॥पिष्टिर् भवति सूतेन्द्रस्तां पिष्टिं पुनराहरेत् ।दोलापाकं सिद्धचूर्णलेपं संपुटभूधरे ॥१००॥यावत् कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।नाम्ना महाभैरवीयं घुटिका सर्वसिद्धिदा ॥१०१॥धारयेन्मुखमध्ये तत् पूर्ववत् क्रामणं पिबेत् ।क्रामणानित्रिफला मुसली मुण्डी भृङ्गराजश्च वाकुची ॥१०२॥नीली कन्या काकमाची हयगन्धा शतावरी ।उत्तरा वारुणी देवदाली चित्रा पुनर्नवा ॥१०३॥निर्गुण्डी सहदेवी च रुदन्ती गजकर्णिका ।भूतावरातभल्लातकाकतुण्डामृतालताः ॥१०४॥पलाशः कुक्कुरूटश्च धात्रीफलरसः पयः ।पलाशबीजकं तैलं घृतं मधु शिवाम्बु च ॥१०५॥बिल्वमज्जा च तैलं च तैलं ज्योतिष्मतीभवम् ।एतानि क्रामणार्हाणि चौषधानि भवन्ति हि ॥१०६॥एते चाष्टार्धगदिताः क्रामणार्थे प्रयोगतः ।रसभस्मप्रयोगे च घुटिकानां रसायने ॥१०७॥पञ्चदशघुटिकाफलम्प्रिये पञ्चदशानां च घुटिकानां फलं शृणु ।अभ्रबीजेन रचितघुटिका रससंयुता ॥१०८॥मुखस्थिता द्वादशाब्दं सर्वरोगविनाशनी ।स जीवेद्वत्सरशतं पुमांश्च परमेश्वरि ॥१०९॥कान्तबीजेन रचिता घुटिका रससंयुता ।आस्यस्था सर्वरोगघ्नी द्वादशाब्दं वरानने ॥११०॥धातुदार्ढ्यप्रजननी सहस्रायुष्यदायिनी ।कान्ताभ्रबीजरचिता रसयुग्घुटिका शुभा ॥१११॥द्वादशाब्दं मुखान्तस्था जरामयविनाशिनी ।अयुतायुष्यदा दिव्या महाबलविवर्धिनी ॥११२॥हेमबीजयुता सूतघुटिका मुखमध्यगा ।आ द्वादशाब्दं देहस्य वलीपलितरोगहा ॥११३॥आयुष्यप्रदा पुण्या नागायुतबलप्रदा ।हेमाभ्रबीजघटिता घुटिका युक्तपारदा ॥११४॥वक्त्रास्थितार्कसंख्याब्दं दशलक्षाब्दजीवदा ।दिव्यबुद्धिप्रजननी दिव्यसत्वप्रदायिनी ॥११५॥कान्तकाञ्चनबीजाभ्यां ससूता घुटिका कृता ।द्वादशाब्दं मुखान्ता कोट्यायुष्यविवर्धिनी ॥११६॥महातेजःप्रजननी बिलनिध्यादिदर्शिनी ।कान्ताभ्रहेमघटिता घुटिका रससंयुता ॥११७॥मुखस्था द्वादशाब्दान्ताद् दशकोट्यब्दजीवदा ।हालाहलादिसंवर्तखेचरत्वप्रदायिनी ॥११८॥निर्मुक्तवज्रबीजेन रसयुग्घुटिका शुभा ।मुखस्था द्वादशाब्दान्तं सर्वलोकगतिप्रदा ॥११९॥यावद्भूमिः स्थिरतरा तावदायुःप्रवर्धिनी ।तरुणः सर्वदा कामः कान्तानां सुरतक्षमः ॥१२०॥वज्राभ्रबीजरचिता घुटिका रसगर्भिता ।घुटिका रससंख्याब्दं मुखस्था सर्वसिद्धिदा ॥१२१॥ब्रह्मायुष्यप्रदा पुंसां जगत् सृष्टुं क्रमात् प्रभुः ।पूज्यते ब्रह्मवद्देवैर् वेदवेदाङ्गपारगः ॥१२२॥सरस्वत्या च सावित्र्या सेव्यते सर्वलोकगः ।अष्टाभिः सिद्धिभिर् युक्तो ह्यणिमादिभिर् ईश्वरि ॥१२३॥वज्रकाञ्चनबीजेन ससूता घुटिका कृता ।मुखस्था द्वादशाब्दान्तं विष्ण्वायुष्यप्रदा नृणाम् ॥१२४॥स च विष्णुत्वमाप्नोति विष्णुवत् पालितुं क्षमः ।सेव्यते सनकाद्यैश्च श्रिया युक्तो महाबलः ॥१२५॥स्वेच्छागतिर् महेन्द्राद्यैर् निर्जरैः सेव्यते सदा ।हेमाभ्रवज्रबीजेन रचिता घुटिका प्रिये ॥१२६॥सपारदा मुखान्तःस्था द्वादशाब्दं वरानने ।रुद्रायुष्प्रदा न्ःणां रुद्रत्वं सा ददाति हि ॥१२७॥संहर्ता रुद्रवल्लोकं विष्ण्विन्द्राद्यैश्च सेव्यते ।अणिमाद्यैश्च सहितः सर्वज्ञः सर्वलोकगः ॥१२८॥सेव्यते प्रमथश्रेष्ठैर् दिव्यशक्त्या समन्वितः ।योगीन्द्रैर् ध्यायते धीरो महातेजा महाबलः ॥१२९॥कान्तकाञ्चनवज्राणां बीजैः सूतयुता कृता ।घुटिका भानुसंख्याब्दं मुखस्था सिद्धिदा नृणाम् ॥१३०॥ईश्वरायुष्यमाप्नोति खेचरत्वं च मानवः ।तिरोधत्ते स्वयं लोकाद्ब्रह्मेन्द्राद्यभिवन्दितः ॥१३१॥कोटिसूर्यप्रतीकाशो महामारुतसत्त्ववान् ।महाकल्पान्तकालेऽपि विनाशं न व्रजेद्ध्रुवम् ॥१३२॥योगक्रीडानुषक्तात्मा ध्यायते योगवित्तमैः ।कान्ताभ्रहेमवज्राणां कृता बीजै रसात्मिका ॥१३३॥घुटिका रविसंख्याब्दवक्त्रस्था यस्य भैरवि ।सदाशिवायुः स भवेत् सर्वानुग्राहकः प्रभुः ॥१३४॥सदाशिवत्वम् आप्नोति देवानामधिपस्तथा ।वह्नौ वह्निर् जले वारि मारुते मारुतात्मकः ॥१३५॥पृथिव्यां पृथिवीरूपः शून्ये शून्यात्मको भवेत् ।तस्याक्षिणीन्दुवह्न्यर्का ब्रह्मेन्द्राद्याश्च सेवकाः ॥१३६॥गायका नारदाद्याश्च नर्तक्यश्चाप्सरोऽङ्गनाः ।तदाज्ञयैव ब्रह्मेन्द्राः सृष्टिस्थितिविनाशकाः ॥१३७॥सच्चिदानन्दकः शक्तः सर्वगः सर्वविच्छिवः ।पराशक्तियुतः पुण्यो निर्मायो निष्कलः परम् ॥१३८॥एवं गुणाः प्रकथिता घुटिकानां मया प्रिये ।शस्त्रस्तम्भकरश्चासां सर्वासाम् अपि विद्यते ॥१३९॥रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।घुटिकासिद्धौ मन्त्रप्रयोगःवक्ष्यते मन्त्रराजोऽयं सर्वसिद्धिप्रदायकः ॥१४०॥ऐं ह्रीं श्रीं क्लीं सौः अमृतेश्वरभैरव अमृतं कुरु अमृतेश्वरभैरवाय हुं ।सौः क्लीं श्रीं ह्रीं ऐं हुं फट् स्वाहा ।सौः क्लीं श्रीं ह्रीं ऐं ।पुमाननेन मन्त्रेण शीघ्रं सिद्धिमवाप्नुयात् ॥१४१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP