संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २१ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २१ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २१ Translation - भाषांतर योगसिद्धिदकुटीनिर्माणविधिःश्रीभैरवी ।कुटी प्रोक्ता त्वया पूर्वं कथं कार्या च कीदृशी ।तत्र कालं कियच्छंभो वस्तव्यं ब्रूहि मे प्रभो ॥१॥श्रीभैरवः ।वक्ष्यामि तां कुटीं सम्यक् शृणु त्रिपुरसुन्दरि ।मेदिनीम् उन्नतीकृत्य पुनस्तां सुहृदं प्रिये ॥२॥स्तंभांश्च क्रमशः षट् षट् पङ्क्तिशः स्थापयेदृजून् ।तुला उपरि चारोप्य दारूणि सुदृढानि च ॥३॥स्थापयेदिष्टकाः पश्चात्सुधया सान्द्रमालिपेत् ।परितो वलभिं कृत्वा भित्तिं त्रिवलयां शुभाम् ॥४॥कुर्यात्कुटीं च तन्मध्ये तृतीयावरणैः पुनः ।निखनेच्चतुरश्रं च दशप्रादेशमात्रकम् ॥५॥पञ्चप्रादेशमात्रे च त्वधोनिम्नं तथोर्ध्वतः ।एवं दशवितस्त्याभिर् अचिन्त्यां तां मनोहराम् ॥६॥प्राग्द्वारं बाह्यवलये द्वितीये वलये शिवे ।याम्यद्वारं तृतीये तु प्रत्यग्द्वारं विधीयते ॥७॥द्वाराणां च प्रमाणं हि वितस्तिद्वयमुच्यते ।सकवाटं प्रतिद्वारमच्छिद्रं चार्गलान्वितम् ॥८॥सुधाप्रलेपितं कुर्याद्भित्तिं श्लक्ष्णतरं स्थलम् ।दक्षिणे चोत्तरे चैव कुट्यन्तर्वेदिकाद्वयम् ॥९॥सार्धत्रयं वितस्तीनां विशालं चायतं दश ।प्रादेशमात्रम् उत्सेधं मध्यं प्रादेशिकत्रयम् ॥१०॥तत्र गोमयसम्भूतं भस्म वस्त्रेण गालितम् ।पूरयेच्च कुटीभित्तौ चित्रं बहु सुविस्तरम् ॥११॥भैरवं कालमेघाभं ज्वलदूर्ध्वशिरोरुहम् ।फालाक्षं वक्रदंष्ट्रं च नागकुण्डलमण्डितम् ॥१२॥नागयज्ञोपवीतं च किङ्किणीमुण्डमालिनम् ।दिगम्बरं तु काकोटीभूषिताङ्घ्रिशिरोरुहम् ॥१३॥हारकेयूरकटकमुद्रिकादिविभूषितम् ।दशहस्तं च डमरुमङ्कुशं खड्गशूलकम् ॥१४॥वरदं सव्यहस्ताब्जैर् नागं पाशं च घण्टिकाम् ।मधुपत्रं भयहरं बिभ्राणं वामबाहुभिः ॥१५॥कृष्णाङ्गरागमालाढ्यं सर्वव्याधिविनाशनम् ।व्याधिभूताहिशत्रुघ्नं क्ष्वेलादिभयनाशनम् ॥१६॥ततो मृत्युञ्जयं शान्तं वटुकं विलिखेत्प्रिये ।पारदेन्दुहिमश्वेतं बालं द्विभुजशोभितम् ॥१७॥किङ्किणीमालया बद्धकर्णनूपुरशोभितम् ।बालं कुण्डलसच्छोभं त्रिनेत्रं नग्नरूपिणम् ॥१८॥श्वेतमाल्यानुलेपं च पूर्णपात्रं च वामतः ।दण्डं दक्षिणहस्तेन दधानं मृत्युनाशनम् ॥१९॥मायाबीजं च वटुकं ह्येनं प्रथममुच्चरेत् ।आपदुद्धारणायेति लिखेत्पञ्चाक्षरद्वयम् ॥२०॥वटुकायेति मायां च वटुकस्य मनुः स्मृतः ।मूर्तिद्वयोरयं मन्त्रः कथितः सुरवन्दिते ॥२१॥मन्त्रस्यास्य च यद्यन्त्रं तद्यन्त्रं तत्र संलिखेत् ।रमां च भुवनेशीं च कामं चिन्तामणिं क्रमात् ॥२२॥कर्णिकायां लिखेत्पूर्वं वटुकायेति वीप्सितम् ।अष्टपत्रे लिखेच्छेषाण्यक्षराण्यष्टपत्रके ॥२३॥बहिः षोडशपत्रेषु विलिखेत्षोडश स्वरान् ।द्वात्रिंशद्दलके कादिसान्तद्वात्रिंशदक्षरान् ॥२४॥अन्ये दले हलक्षांश्च विलिखेद्भूपुरं बहिः ।आपदुद्धारणं यन्त्रमपमृत्युनिवारणम् ॥२५॥रक्षाकरं ग्रहार्तानां सर्वेषां प्राणिनामपि ।स्त्रीवश्यं राजवश्यं च पुंवश्यं पशुवश्यकम् ॥२६॥नानासिद्धिप्रदं नित्यं सर्वरोगविषापहम् ।हारकेयूररुचिरं कान्त्या विश्वविमोहनम् ॥२७॥महामृत्युञ्जयं देवं भावयेन्मृत्युजिद्भवेत् ।एवं द्वितीयवर्गस्य तृतीयं पञ्चमेन च ॥२८॥स्वरेण बिन्दुना युक्तं सोन्तं साध्यपदं ततः ।रक्षशब्दयुगं पश्चात्पूर्वं बीजत्रयं पुनः ॥२९॥प्रतिलोमं समुच्चार्य मन्त्रं मृत्युञ्जयं जपेत् ।तारं मध्ये ससाध्याख्यं दिग्दले भं समालिखेत् ॥३०॥आग्नेयादिदलेष्वन्त्यमक्षरं क्रमशो लिखेत् ।बाह्ये भूपुरमालिख्य दिक्षु सान्द्रं समालिखेत् ॥३१॥चतुष्कोणे ठकारं च यन्त्रं मृत्युञ्जयात्मकम् ।अपमृत्युज्वरव्याधिक्ष्वेलमोहविनाशनम् ॥३२॥तत्र चिन्तामणिं देवं चिन्तितार्थप्रदं लिखेत् ।नीलप्रवालरुचिरं त्रिणेत्रं रुचिराननम् ॥३३॥पाशारुणोत्पलं वामे दक्षे शूलकपालकौ ।दधानम् इन्दुमकुटं ध्यायेदर्धाम्बिकेश्वरम् ॥३४॥वह्निप्रथमवर्गादिषमरेफाः क्रमात्ततः ।प्राणसद्यान्तसहितः षष्ठस्वरसबिन्दुकः ॥३५॥इदं चिन्तामणेर् मन्त्रं चिन्तितार्थप्रदं शुभम् ।षोडशस्वरसंवीतं चिन्तामणिमभीष्टदम् ॥३६॥ठकारावेष्टितं कुर्याज्ज्वरापस्मृतिमृत्युहम् ।ततश्च शारदादेवीम् आलिखेत् सिद्धिदायिनीम् ॥३७॥शङ्खकुन्देन्दुधवलां मकुटेन्दुकलाधराम् ।सुधाकुम्भं वराक्षस्रक्संविन्मुद्रां करांबुजैः ॥३८॥बिभ्राणां श्वेतवसनां मौक्तिकाभरणोज्ज्वलाम् ।वाग्बीजं भुवनेशीं च वदवाक्यद्वयं ततः ॥३९॥वाग्वादिनीं ससम्बुद्धिम् अग्निपत्नीं समुच्चरेत् ।एष श्रीमातृकामन्त्रः प्रोक्तः सारस्वतप्रदः ॥४०॥आदिबीजद्वयं हित्वा शेषं पूर्ववद् उच्चरेत् ।दशार्णशारदामन्त्रो वाग्विलासप्रदायकः ॥४१॥वियद्वर्णसुकारं च सद्यान्तं सविसर्गकम् ।कर्णिकायां लिखेत्पूर्वं किञ्जल्केषु स्वरानपि ॥४२॥अष्टच्छदेष्व् अष्टवर्गान्य् अशहाद्यैः परैस्त्रिभिः ।काद्यैश्च पञ्चभिर्वर्णैरष्टवर्गाः समीरिताः ॥४३॥लिखेद्भूपुरकोणेषु ठकारान्दिक्षु विन्यसेत् ।इदं हि मातृकायन्त्रं विषमृत्युगदापहम् ॥४४॥अघोरं विलिखेद्देवि नीलजीमूतसन्निभम् ।क्रूरदंष्ट्रं त्रिणेत्रं च नागेन्द्राष्टविभूषितम् ॥४५॥रक्ताङ्गरागवसनं रक्तमालाविराजितम् ।परश्वथुं च डमरुं खड्गं खेटम् इषुं धनुः ॥४६॥त्रिशूलं पूर्णपात्रं च बिभ्राणं चाष्टबाहुभिः ।भुवनेशीं स्फुरद्वन्द्वं ततः प्रस्फुरवीप्सितम् ॥४७॥घोरं ततोऽघोरतरं तनुरूपं चटद्वयम् ।प्रकटद्विगुणं चैव कहशब्दयुगं ततः ॥४८॥वमशब्दद्वयं देवि बन्धशब्दं च वीप्सितम् ।घातयद्वितयं देवि कवचं च फडन्तकम् ॥४९॥एकोत्तरोऽयं पञ्चाशदर्णो ऽघोरः स्मृतो मनुः ।वश्यार्थं तप्तहेमाभं पूर्वोक्ताकृतिसंयुतम् ॥५०॥मुक्तौ मृत्युञ्जयार्थे तु श्वेतं पूर्वोक्तविग्रहम् ।सर्वार्थसिद्धिदं शान्तमघोरास्त्रं लिखेत्प्रिये ॥५१॥मायाबीजं ससाध्यं स्यान्मध्ये च स्वरसंयुतम् ।तद्बहिःकेसरेष्वेवं विलिखेदष्टवर्गकम् ॥५२॥ततस्त्वष्टदले मन्त्रवर्णान्गुणमितान् लिखेत् ।अग्रशेषेषु तद्वत् तत्षट्कोणे कवचास्त्रकौ ॥५३॥तद्बहिर्भूपुरं लेख्यम् एनदाघोरयन्त्रकम् ।स्फुरद्वयावृतं मध्ये शक्तिबीजं लिखेत्ततः ॥५४॥षट्कोणे प्रस्फुरयुगं ततश्चाष्टदले क्रमात् ।षड्भिश्चतुर्भिर्वेदैश्च रसैर्वस्त्रैश्च गोपदैः ॥५५॥ऋतुभिः शिष्टमन्त्रार्णैर् अमीभिर् विलिखेत्ततः ।षट्कोणे वह्निचास्त्राभ्याम् उद्धृतं वीतकोणकम् ॥५६॥भूपुरेणावृतं यन्त्रमघोरं विलिखेत्प्रिये ।व्यालारिचोरक्षुद्रापस्मारभूतग्रहापहम् ॥५७॥अथो महागणपतिं लिखेद्विद्रुमसन्निभम् ।कोटीरचन्द्रशकलं गजास्यं लोचनत्रयम् ॥५८॥तुन्दिलं रक्तवसनं रक्तमालानुलेपनम् ।दशदोर्दण्डसुभगं वामोरुस्थितयोषितम् ॥५९॥हारकेयूरकटकमुद्रिकाकुण्डलोज्ज्वलम् ।फलपूरं गदाम् इक्षुकोदण्डं च त्रिशूलकम् ॥६०॥चक्रं सरसिजं पाशमुत्पलं शालिमञ्जरीम् ।स्वदन्ततुण्डया रत्नकलशं दशभिः करैः ॥६१॥बिभ्राणं पद्मकरया वामोरुस्थितया श्रिया ।आलिङ्गितं भक्तलोकचिन्तितार्थसुरद्रुमम् ॥६२॥प्रणवं कमलां मायां कामराजं वसुंधराम् ।क्रमाद्गणपतेर्बीजं महागणपतिं ततः ॥६३॥चतुर्थ्यन्तं ससंबुद्धिं वरं च वरदं तथा ।ततः सर्वजनं मे च वशमानय शब्दकम् ॥६४॥अग्निपत्नीं समालिख्य चाष्टाविंशतिवर्णकम् ।मन्त्रं महागणपतेर् मृत्युदारिद्र्यनाशनम् ॥६५॥त्रिकोणे बीजमालिख्य सतारे च गणेशितुः ।दिक्षु श्रीशक्तिमदनभूबीजानि बहिर्लिखेत् ॥६६॥षट्कोणे बीजषट्कं च तत्संधिष्वङ्गमन्त्रकम् ।ततोऽष्टदलमध्येषु मन्त्राणि गणशो लिखेत् ॥६७॥अन्त्याक्षरे चान्त्यदले मातृकामनुलोमतः ।लेखे च प्रतिलोमेनाङ्कुशपाशावृतं ततः ॥६८॥भूमन्दिरेण सुभगं यन्त्रं गणपतेः शुभम् ।गजान्तं श्रीपदं दिव्यमायुष्यारोग्यवर्धनम् ॥६९॥एतानि यन्त्रजालानि कुट्यन्तर्देवता लिखेत् ।कुटीभित्तिबहिर्भागे भैरवं वर्णमालिखेत् ॥७०॥असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् ।कपालिनं भीषणं च संहारं भैरवं क्रमात् ॥७१॥द्वितीयावरणस्यान्तर् भित्तावेकादश क्रमात् ।रुद्रांस्त्रिलोचनांश्चन्द्रकलाजूटजटान् लिखेत् ॥७२॥तद्बाह्ये नव नाथांश्च नव सिद्धांश्च षोडश ।सनत्कुमारसनकसनन्दादीन् लिखेत्ततः ॥७३॥तृतीयावरणस्यान्तर् भित्तौ ब्राह्म्यादिमातरः ।चतुःषष्टिश्च योगिन्यो लेखनीया यथाविधि ॥७४॥तद्भित्तिबाह्ये देवेन्द्रमुखा दिक्पतयः क्रमात् ।ग्रहाश्च चन्द्रसूर्याद्या अश्विन्याद्याश्च तारकाः ॥७५॥मेषाद्या राशयो लेख्याः सालङ्काराश्च सायुधाः ।कुटीद्वारविपार्श्वे च गणेशं भैरवं लिखेत् ॥७६॥द्वितीयावरणद्वारपार्श्वे द्वौ शङ्खपद्मकौ ।गरुत्मन्तं हनूमन्तं तृतीयावरणस्य च ॥७७॥द्वारस्य पार्श्वयोर्देवि विलिखेद्भयभञ्जनौ ।यस्मिन्देशे कुटी दिव्या कल्पिता योगिसत्तमैः ॥७८॥देशो धन्यतरः श्लाघ्यः पुण्यक्षेत्रं च पावनम् ।तत्रत्याश्च प्रजा धन्याः स्फीतार्थाः पुण्यकर्मिणः ॥७९॥राष्ट्रं सुभिक्षम् आरोग्यम् अनामयसुखावहम् ।ईतिहीनं कालवृष्टिसहितं धान्यसङ्कुलम् ॥८०॥तस्करोपद्रवव्याघ्रसर्पादिभयवर्जितम् ।तत्र तीर्थानि सर्वाणि गङ्गादीनि वसन्ति च ॥८१॥इन्द्रादयोऽपि विबुधाः सूर्यचन्द्रादयो ग्रहाः ।योगिन्यो भैरवाः सिद्धा गणेशगुहमातरः ॥८२॥तत्रस्थस्य महीपस्य जयार्थावाप्तिरायुषः ।सम्भवेच्चक्रवर्तित्वं पुनर्नित्योत्सवोज्ज्वलम् ॥८३॥वन्ध्यानां पुत्रसम्पत्तिः कुटीसंदर्शनाद्भवेत् ।कुष्ठापस्मारभूतादिमहाव्याधिविनाशनम् ॥८४॥कुटीगता भवेयुस्ते ये सेवन्ते रसायनम् ।सिद्धिं यान्ति सुखेनैव देवानामपि दुर्लभाम् ॥८५॥अमरीकल्पःदेवि चित्रं प्रवक्ष्यामि दिव्यं गुह्यतमं शिवम् ।अमरीकल्पमनघं सुलभं निजदेहजम् ॥८६॥अणिमाद्यष्टकैश्वर्यदेहलोहादिसिद्धिदम् ।वमनादिविशुद्धाङ्गो लवणाम्लविवर्जितः ॥८७॥कुटीगतस्तु देवेशि शिवतोयमुदारधीः ।स्थूलस्य कतकस्यैव दारुणा पानपात्रकम् ॥८८॥कुर्याच्च त्रिफलां पिष्ट्वा लेपयेच्चषकान्तरे ।कर्षं शिवाम्बुना रात्रौ पात्रं चाधोमुखं प्रिये ॥८९॥स्थापयित्वा पुनः प्रातराद्यन्तं प्रस्रवं त्यजेत् ।मध्यधाराश्च तत्पात्रे क्षिपेत्तत्त्रिफलां ततः ॥९०॥लोडयेदमरीयुक्तं पिबेत्प्रागाननः सदा ।इष्टदेवान्गुरून्वृद्धान् नत्वार्चितगणेश्वरः ॥९१॥मिताहारो युक्तचेष्टो वातातपविवर्जितः ।एकमण्डलमात्रेण बाह्यान्तः शुचिभाग् भवेत् ॥९२॥मण्डलेन द्वितीयेन सर्वकुष्ठविनाशनम् ।मण्डलेन तृतीयेन चतुर्विधविषापहम् ॥९३॥मण्डलेन चतुर्थेन नालिकेराम्बुवद् भवेत् ।आत्मतोयं पञ्चमेन मलदौर्गन्ध्यनाशनम् ॥९४॥षष्ठमण्डलयोगेन देहदौर्गन्ध्यनाशनम् ।सप्तमण्डलयोगेन भवेदिन्द्रियपाटवम् ॥९५॥ततोऽष्टमे मण्डले तु रजनीचूर्णकर्षयुक् ।सेवेत शिवतोयं च यावद्द्विः सप्तमण्डलम् ॥९६॥वलीपलितहीनः स्यान्महाविषभयोज्झितः ।मण्डले पञ्चदशके कर्षांशौ शृङ्गगन्धकौ ॥९७॥शिवतोयेन सम्मिश्रं प्रपिबेदेकविंशतिम् ।मण्डलं च तदन्ते स्यात्सिद्धिभाग्देहलोहयोः ॥९८॥द्वाविंशन्मण्डले देवि चाभ्रकं वरया युतम् ।एवं भजेद्यमी यावदष्टाविंशतिमण्डलम् ॥९९॥मत्तहस्तिबलोपेतो गृध्रदृष्टिरनामयः ।एकोनत्रिंशति प्राप्ते मण्डले वरया युताम् ॥१००॥सकान्तचूर्णविमलां गोधामपि पिबेत् प्रिये ।पञ्चत्रिंशन्मण्डलान्तं वज्रकायो भवेन्नरः ॥१०१॥षट्त्रिंशन्मण्डलादि स्वर्णधात्रीरजोऽन्वितम् ।आत्मगोधान्वितं पेयं तत्तु यावद्द्व्यधिकम् ॥१०२॥चत्वारिंशन्मण्डलान्तं सशरीरः खगो भवेत् ।त्रिचत्वारिंशन्मण्डले तु प्राप्ते पारदसंयुतम् ॥१०३॥वरायुतं पिबेद् ऊनपञ्चाशन्मण्डलावधिः ।अणिमादिगुणोपेतो वज्रकायश्च खेचरः ॥१०४॥सिद्धैर् युक्तो निरातङ्को निरपायो निरञ्जनः ।यदृच्छया सर्वलोके विहरत्येव सर्वदा ॥१०५॥आरभ्य प्रथमं देवि मण्डलान्नित्यमाचरेत् ।आत्मतोयेन धुत्तूररसेन परिलोडयेत् ॥१०६॥भस्म तेनैव सर्वाङ्गमसकृत्परिमर्दयेत् ।अन्यकालसमायातम् आत्मतोयं विशेषतः ॥१०७॥मूर्ध्नि नासापुटे कर्णे दृशि पादकरद्वये ।शीलयेत्सततं देवि शुद्धदेहो भवेन्नरः ॥१०८॥कदाचिदप्यात्मगोधां भूमौ न विसृजेत्प्रिये ।अमरीसेविनः पुंसः शिवतोयेन जायते ॥१०९॥सर्वलोहं च कनकं दिव्यं मनुजदुर्लभम् ।विजयासहितां गोधां प्रतिवासरमापिबेत् ॥११०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP