संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ११ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ११ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ११ Translation - भाषांतर जीवत एव दिव्यदेहसिद्धिः॑ भूतकालान्तकरसःश्रीभैरवी ।देवदेव महादेव कथितानि त्वयाधुना ।रसायनानि दिव्यानि सिद्धिदानि महेश्वर ॥१॥चिरकालेन देहानां कल्पानां सिद्धिदानि हि ।सद्यः सिद्धिर्यथा देव जायते परमेश्वर ॥२॥तद्ब्रूहि न्यूनाभ्यधिकहीनक्षीणाङ्गिनाम् अपि ।अथ गद्गदमूकानां कुब्जानामथ कुष्ठिनाम् ॥३॥अन्धपङ्ग्वबलानां च जराजर्जरितात्मनाम् ।सदा रोगार्तषण्डानां कृशानां भ्रान्तचेतसाम् ॥४॥भूतप्रेतपिशाचापस्मारोन्मत्तयुजामपि ।प्रमादाज्जीवशेषाणां देहसिद्धिप्रदं नृणाम् ॥५॥श्रीभैरवः ।श्रुत्वा तद्भैरवीवाक्यं साधु पृष्टं त्वया प्रिये ।तथाविधां प्रवक्ष्यामि देहसिद्धिं वरानने ॥६॥पञ्चभूतात्मिकाः पञ्च कर्तव्या घुटिकाः प्रिये ।जीवात्मिका भवेत्षष्ठी घुटिका पिण्डकोष्टयुक् ॥७॥काले तु या कन्या कुर्यात्संभोगमायतम् ।तद्वराङ्गस्थितं रक्तं शुक्लं स्याद्व्योमसत्वकम् ॥८॥तस्याः सद्यः प्रसूतस्य विष्ठा पुत्रस्य मारुतम् ।तत्त्वं स्यात्केवलं तस्या रजस्तेजात्मसत्त्वकम् ॥९॥तदपत्यस्य रुधिरं जलतत्त्वं प्रकीर्तितम् ।तत्सूतस्य वपुः सर्वं पार्थिवं तत्त्वमुच्यते ॥१०॥सूतसेवकशुक्लं च जीवतत्त्वं भवेत्प्रिये ।कोटिवेधकरं सूतं कर्षं कर्षं नियोजयेत् ॥११॥एकैकतत्त्वमध्ये तु प्रसेकं तानि मर्दयेत् ।तेषां च गोलकान्कृत्वा षड्रसं स्थापयेत्पृथक् ॥१२॥नृमानमुन्नतं कायमायामं तु तदर्धकम् ।कटाहं ताम्रघटितं पिण्डस्थौल्यं षडङ्गुलम् ॥१३॥चतुर्मुखमयं कोष्ठं तस्योपरि कटाहकम् ।धारयेन्निश्चलं सम्यक्तदन्तः पूरयेत्प्रिये ॥१४॥गोघृतं च महातैलं समभागमिदं द्वयम् ।अर्चयेद्दशदिक्पालान् योगिनीश्च कुमारिकाम् ॥१५॥श्रीगुरुं सिद्धचक्रं च भैरवं भैरवीं तथा ।गणाधिपं क्षेत्रपालं निजेष्टदैवतं तथा ॥१६॥नवग्रहाग्निविप्रांश्च दैवज्ञान् भिषगुत्तमान् ।तथान्तरायकर्त्ःंश्च भूतप्रेतपिशाचकान् ॥१७॥यक्षराक्षसगन्धर्वान्मन्त्रज्ञान्स्वजनानपि ।तर्पयेन्मद्यमांसैश्च वस्त्रभूषणकाञ्चनैः ॥१८॥तत्तत्प्रियकरैर् दिव्यैर्बलिं दिक्षु विनिक्षिपेत् ।चतुर्भिर्वङ्कनालैश्च धमयेत्खदिराग्निना ॥१९॥फेनहीनम् अधूमं च संतप्तं च यदा भवेत् ।श्रीगुरुं निजदेवं च चन्द्रसूर्याग्नितारकाः ॥२०॥भुवनानि नमस्कृत्य कटाहे निक्षिपेत्तनुम् ।ज्ञात्वा सम्यग्द्रुतं देहं पार्थिवाख्यं रसं क्षिपेत् ॥२१॥धमेद्गाढं प्रयत्नेन तत्कल्कं च यदा भवेत् ।ततो ऽप्तत्त्वाख्यरसकं निक्षिपेद् रक्ततां नयेत् ॥२२॥तेजस्तत्त्वरसं पश्चात्क्षिपेत्तन्मांसतां व्रजेत् ।निक्षिपेद्वायुतत्त्वाख्यं रसं तत्र विनिक्षिपेत् ॥२३॥शुभ्रवर्णत्वमाप्नोति ततश्चाकाशतत्त्वकम् ।निक्षिपेज्जीवतत्त्वाख्यं रसतत्त्वं च पार्वति ॥२४॥रसं क्षिपेत्त्वन्ध्रितस्य स्वर्णस्य तत्समं भवेत् ।सजीवो जायते सिद्धो हुंकारत्रयम् उच्चरेत् ॥२५॥यथोदितो भानुबिम्बो महाबुद्धिपराक्रमः ।महावपुर्महातेजा नागायुतमहाबलः ॥२६॥मन्मथोपमरूपाढ्यो वाचा वागीश्वरीसमः ।बुद्ध्या जीवसमः श्रीमान्विष्णुवद्धनदोपमः ॥२७॥त्यागे रोषे च कालाग्निर्गाम्भीर्येण महोदधिः ।स्रष्टा हर्ता च गोप्ता च सर्वानुग्राहकः प्रभुः ॥२८॥दिव्यदृष्टिर् वज्रदेहः स साक्षाद्भैरवस्त्वयम् ।अर्धयोजनविस्तीर्णहेमकिङ्किणिमण्डितम् ॥२९॥चलद्भ्रमरसशोभं नानामाणिक्यमण्डितम् ।हेममालापरिष्वक्तं घण्टानादमनोहरम् ॥३०॥दिव्यदीप्तमहानादिशङ्खकाहलसंकुलम् ।वीणावेणुमृदङ्गाद्यैर् वादित्रैर् मुरजैः समम् ॥३१॥तालैर्बहुविधैश्चान्यैर्दिव्यघोषैः समाकुलम् ।गायत्किन्नरगन्धर्वैस्तथा किंपुरुषैर्युतम् ॥३२॥लसन्माणिक्यकेयूरहारकङ्कणमुद्रकाः ।काचनूपुरसंयुक्ता दिव्याभरणभूषिताः ॥३३॥दिव्यमालापरिष्कारा दिव्यगन्धानुलेपनाः ।दिव्याम्बराश्चारुरूपा मत्तमन्मथविह्वलाः ॥३४॥दिव्याङ्गनास्तदा चैनं समाश्रित्य ब्रुवन्ति च ।किं कर्म सिद्धसंखेदास् त्वादेशो देव दीयताम् ॥३५॥उपासते सिद्धकन्याः परः शतसहस्रकम् ।यत्र यास्यति तत्रैव चानुयामो वयं वृताः ॥३६॥दिव्यालयांश्च विविधान्हेममाणिक्यमण्डितान् ।दिव्यानि स्नानपानानि स्वीकुर्वाणो मुहुर्मुहुः ॥३७॥वज्र्यादिसर्वलोकेषु स्वेच्छया विहरत्यसौ ।पूज्यते देवसिद्धौघैः यथायं भैरवस्तथा ॥३८॥भुञ्जानः सर्वभोगांश्च क्षुत्पिपासाविवर्जितः ।योगिनीशतसाहस्रं भोक्ता संचिन्तयन् सुखम् ॥३९॥महाकल्पान्तकालेऽपि प्रक्षीणेऽस्मिन्वरानने ।लीयते परमे व्योम्नि लीयन्ते यत्र देवताः ॥४०॥भूतकालान्तको नाम रसस्यास्य प्रभावतः ।अभेद्यो ऽयम् अखण्ड्यश्च त्वदाह्यो भवति प्रिये ॥४१॥रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।वक्ष्यते मन्त्रराजोऽयं रससिद्धिप्रदायकः ॥४२॥ऐं ह्रीं श्रीं क्लीं सौः श्रीभैरव ॥४३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP