संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ८ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ८ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ८ Translation - भाषांतर रसायनसेवासूतो वज्रं सुवर्णं च कान्तलोहं तथाभ्रकम् ।पञ्चैतान्यमृतानि स्युः कल्पितानि नृणां मया ॥१॥मत्तकाशिनि यो वेत्ति सोऽपि साक्षान्महेश्वरः ।अहं रसो रसश्चाहमावयोरन्तरं न हि ॥२॥तेन युक्तास्तु वज्राद्याः सिद्धिदाः स्युर्न संशयः ।पुरुषं रससेवार्हं वदामि शृणु पार्वति ॥३॥स्त्रीक्लीबबालकानां च न हि योज्यं रसायनम् ।बालाः पञ्चदशाब्दा ये कुमारांस्त्रिंशदब्दकाः ॥४॥पञ्चाशद्वर्षदेशीया युवानः परिकीर्तिताः ।अतः परं च स्थविराः भवेयुस्ते रसायने ॥५॥यथोक्तकाले सिद्धिः स्यात्कुमारस्य रसायनात् ।तस्माद्द्विगुणकालेन यूनः सिद्धिर्भवेद्ध्रुवम् ॥६॥तस्मात्त्रिगुणकालेन वृद्धः सिद्धिमवाप्नुयात् ।ज्ञातव्याः क्रमशो देवि ह्युत्तमो मध्यमोऽधमः ॥७॥रसायनसेवाक्रमःपूर्वम् अभ्रकमश्नीयात्ततः कान्तरसायनम् ।अथ कान्ताभ्रकं देवि पश्चाद्धेमरसायनम् ॥८॥अथाभ्रकं स्वर्णयोगं कान्तहेमरसायनम् ।घनकान्तस्वर्णयोगं ततो वज्ररसायनम् ॥९॥अथाभ्रवज्रसेवां च कान्तवज्रमतः परम् ।घनायस्कान्तहीरं च हेमवज्रं ततो भवेत् ॥१०॥पश्चादभ्रस्वर्णवज्रं कान्ताष्टापदवज्रकम् ।घनकान्तं हेमवज्रमतः पारदभक्षणम् ॥११॥तथाभ्ररसयोगं स्यात्ततः कान्तरसं भवेत् ।घनकान्तरसं देवि पश्चाद्धेमरसं भवेत् ॥१२॥घनहेमरसं पश्चात्कान्तहेमरसं ततः ।घनकान्तं हेमसूतमतो वज्ररसं भवेत् ॥१३॥घनवज्ररसं देवि कान्तवज्ररसं ततः ।घनकान्तं वज्रसूतं हेमवज्ररसं ततः ॥१४॥घनहेमपवीसूतं कान्तहेमपवीरसम् ।घनकान्तस्वर्णवज्ररसम् अस्मात्परं न हि ॥१५॥उत्तरोत्तरतः सर्वे चैते सर्वगुणोत्तराः ।रसायनानि पञ्च स्युरेकैकानि वरानने ॥१६॥रसा द्विद्व्यौषधभवास्त्रित्र्यौषधभवा दश ।चतुश्चतुर्भवाः पञ्च त्वेकः पञ्चौषधोद्भवः ॥१७॥एकत्रिंशद्वरारोहे रसायनमिति प्रिये ।घनं कान्तं हेम वज्रं पारदश्चेतरम् ॥१८॥पूर्वोत्तरोत्तरगुणा भवन्ति प्राणवल्लभे ।रसस्य क्रामणं वज्रं हेमकान्तघनं भवेत् ॥१९॥वज्रसंक्रामणं हेम कान्तं व्योम भवेत्प्रिये ।हेम्नः कान्तभवं योज्यं कान्तस्य क्रामणं घनम् ॥२०॥अभ्रस्य क्रामणं चाभ्रसत्त्वं सिद्धिप्रदं यतः ।एकैकौषधसेवायां यथोक्तं क्रामणं भवेत् ॥२१॥युक्तो द्वित्रिचतुःपञ्चभैषज्यैः क्रामणं न हि ।त्रिफलामधुसर्पींषि सामान्यक्रामणं भवेत् ॥२२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP