संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल १०| सूक्तं ८५ मण्डल १० सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ सूक्तं १०५ सूक्तं १०६ सूक्तं १०७ सूक्तं १०८ सूक्तं १०९ सूक्तं ११० सूक्तं १११ सूक्तं ११२ सूक्तं ११३ सूक्तं ११४ सूक्तं ११५ सूक्तं ११६ सूक्तं ११७ सूक्तं ११८ सूक्तं ११९ सूक्तं १२० सूक्तं १२१ सूक्तं १२२ सूक्तं १२३ सूक्तं १२४ सूक्तं १२५ सूक्तं १२६ सूक्तं १२७ सूक्तं १२८ सूक्तं १२९ सूक्तं १३० सूक्तं १३१ सूक्तं १३२ सूक्तं १३३ सूक्तं १३४ सूक्तं १३५ सूक्तं १३६ सूक्तं १३७ सूक्तं १३८ सूक्तं १३९ सूक्तं १४० सूक्तं १४१ सूक्तं १४२ सूक्तं १४३ सूक्तं १४४ सूक्तं १४५ सूक्तं १४६ सूक्तं १४७ सूक्तं १४८ सूक्तं १४९ सूक्तं १५० सूक्तं १५१ सूक्तं १५२ सूक्तं १५३ सूक्तं १५४ सूक्तं १५५ सूक्तं १५६ सूक्तं १५७ सूक्तं १५८ सूक्तं १५९ सूक्तं १६० सूक्तं १६१ सूक्तं १६२ सूक्तं १६३ सूक्तं १६४ सूक्तं १६५ सूक्तं १६६ सूक्तं १६७ सूक्तं १६८ सूक्तं १६९ सूक्तं १७० सूक्तं १७१ सूक्तं १७२ सूक्तं १७३ सूक्तं १७४ सूक्तं १७५ सूक्तं १७६ सूक्तं १७७ सूक्तं १७८ सूक्तं १७९ सूक्तं १८० सूक्तं १८१ सूक्तं १८२ सूक्तं १८३ सूक्तं १८४ सूक्तं १८५ सूक्तं १८६ सूक्तं १८७ सूक्तं १८८ सूक्तं १८९ सूक्तं १९० सूक्तं १९१ मण्डल १० - सूक्तं ८५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ८५ Translation - भाषांतर सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥सोमेनादित्या बलिनः सोमेन पृथिवी मही ।अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् ।सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥३॥आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥४॥यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥५॥रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥६॥चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥७॥स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः ।सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥सोमो वधूयुरभवदश्विनास्तामुभा वरा ।सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥९॥मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥१०॥ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥११॥शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥१३॥यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥१४॥यदयातं शुभस्पती वरेयं सूर्यामुप ।क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१५॥द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥सूर्यायै देवेभ्यो मित्राय वरुणाय च ।ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥१७॥पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् ।विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥१८॥नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् ।भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥१९॥सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥२०॥उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे ।अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥२१॥उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा ।अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥२२॥अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥२३॥प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः ।ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥२४॥प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥२५॥पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२६॥इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि ।एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥२७॥नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२८॥परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥२९॥अश्रीरा तनूर्भवति रुशती पापयामुया ।पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥३०॥ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु ।पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥३१॥मा विदन्परिपन्थिनो य आसीदन्ति दम्पती ।सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥३२॥सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥३३॥तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥३४॥आशसनं विशसनमथो अधिविकर्तनम् ।सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥३५॥गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥३६॥तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥३७॥तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह ।पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥३८॥पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥३९॥सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥४०॥सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम् ॥४१॥इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥४२॥आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा ।अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥४३॥अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥४४॥इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥४५॥सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥४६॥समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥४७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP