संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय ११ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय ११ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय ११ Translation - भाषांतर अथ बीजनिर्वाहणं आरभ्यते ।स्वीकृत्य सर्वसरितो गङ्गा जलधौ यथा तथा हैमं ।प्रविशति रसे गृहीत्वा संमिलिति सर्वलोहगुणान् ॥१॥जीर्यति मिलति च शुल्बे तत्सत्वं किट्टतां याति ।सुवृत्तः सद्रृतारम्भः सुज्ञः संज्ञानदर्शकः ।(तारक्रिया) हेमक्रियासु करिणा त्रपुणा तारक्रियासु निर्व्यूढं ॥२॥घनसत्वं खलु रविणा रसायने द्वंद्वकं योज्यं ।रक्तगणपातभावितगिरिजतुमाक्षिकगैरिकदरदैः ॥३॥मृदुलताम्रकान्तघनसत्वं मृतनागतीक्ष्णकनकं च ।कुर्वीत बीजशेषं दरदशिलातालमाक्षिकैर्वापात् ॥४॥मृतनागं वङ्गं वा शुल्वं घनसत्वतारकनकं वा ।ध्मातं तदेव सर्वं गिरिणाधिकशोधनैर्वापात् ॥५॥रक्तगणं पीतं वा माक्षिकराजावर्तं अथो विमलं ।एकतमं वा गैरिककुनटीक्षितिगन्धकखगैर्वा ॥६॥निर्व्यूढैरेव रसो रागादि गृह्णाति बन्धमुपयाति ।मृतलोहोपरसाद्यैर्निर्व्यूढं भवति शृङ्खलाबीजं ॥७॥(आयसशलाकिकाभ्यां अद्वन्द्वाख्यैश्च सङ्कराख्यैश्च ।निर्व्यूढं रसलोहैर्जारणकर्मोचितं भवति ॥८॥बीजमिदं रक्तगणे निषेचितं तेन कृतवापं ।चारितजारितमात्रं सूतं रञ्जयति बध्नाति ॥९॥रक्तस्नेहविशोधितमृतलोहरसादिभिस्तु सर्वेषां ।बीजानां कुरु वापं रक्तस्नेहे निषेकं च ॥१०॥वङ्गाभ्रं अभ्रतारं सितशैलमलाहतौ च सितवङ्गौ ।रक्तं सितताप्यहतं रमति निर्व्यूढवङ्गाभ्रं ॥११॥निर्वाहणविधिरेषः प्रकाशितोऽशेषदोषशमनाय ।बीजानामप्येवं घनसत्वं युज्यते प्रथमं ॥१२॥छागास्थिभस्मनिर्मितमूषां कृत्वैव मल्लकाकारां ।दलयोगे घनरन्ध्रां टङ्कणविषगुञ्जाकृतलेपां ॥१३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP