रसहृदयतंत्र - अध्याय ६

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


ग्रासमिति चारयित्वा गर्भद्रुतिं ततो भूर्जे ।
लवणक्षाराम्लसुधासुरभीमूत्रेण कृतलेपे ॥१॥
दृढवस्त्रबाह्यबद्धे दोलास्वेदेन जारयेद्ग्रासं ।
सौवीरेणार्धपूर्णे कुम्भे सक्षारमूत्रकैरथवा ॥२॥
अमुना क्रमेण दिवसैस्त्रिभिस्त्रिभिर्जारयेद्ग्रासं ।
गर्भद्रुतिजारणमाह ग्रासमित्यादि ॥ टीका ६.१२:१॥
जीर्णस्य लक्षणमथो ज्ञेयं यन्त्रात्समुद्धृत्य ॥३॥
उद्धृतमात्रं पात्रे प्रक्षाल्य कांजिकेनातः ।
समलं च कांजिकमतो हरणार्थं वस्त्रयोगेन ॥४॥
तदनु सुखोष्णे पात्रे संमर्द्योऽसौ यथा न हीये ।
तावद्यावच्छुष्यति तल्लग्नं काञ्जिकं सकलं ॥५॥
इत्थं च शोषितजलः करमर्दनतः सुनिर्मलीभूतः ।
पीड्यः पात्रस्योपरि वस्त्रेण चतुर्गुणेनैव ॥६॥
यदि परिगलितः सकलो वस्त्राद्ग्रासेन चैकतां यातः ।
न भवति यदि दण्डधरो जीर्णग्रासस्तदा ज्ञेयः ॥७॥
(ग्रासाजीर्णः:) ग्रासादजीर्णपिष्टीं सूतादुद्धृत्य पातयेद्यन्त्रे ।
स्वस्थो भवति रसेन्द्रो ग्रासः पक्वः पुनर्जरति ॥८॥
दोलायां चत्वारो ग्रासा जार्या यथाक्रमेणैव ।
शेषाः कच्छपयन्त्रे यावद्द्विगुणादिकं जरति ॥९॥
नादौ कर्तुं शक्योऽत्र ग्रासप्रमाणनियमस्तु ।
ग्रसते न हि सर्वाङ्गं गगनमतो लक्षणैर्ज्ञेयं ॥१०॥
यदि हि चतुःषष्ट्यंशान्ग्रसति रसस्तदा धरेद्दण्डं ।
चत्वारिंशद्भागप्रवेशतः पायसाकारः ॥११॥
भवति जलौकाकारस्त्रिंशद्भागादविप्लुषश्च विंशत्या ।
छेदीव षोडशांशादत ऊर्ध्वं दुर्जरो ग्रासः ॥१२॥
पञ्चभिरेभिर्ग्रासैर्घनसत्वं जारयित्वादौ ।
गर्भद्रावे निपुणो जारयति बीजं कलांशेन ॥१३॥
धूम्रश्चिटिचिटिशब्दो मण्डूकगतिस्तथा सकम्पश्च ।
निष्कम्पो भवति रसो विज्ञातव्योऽभ्रजीर्णस्तु ॥१४॥
कपिलोऽथ निरुद्गारी विप्लुषभावं च मुञ्चते सूतः ।
निष्कम्पो गतिरहितो विज्ञातव्योऽभ्रजीर्णस्तु ॥१५॥
(कच्छपयन्त्र) जलपूर्णपात्रमध्ये दत्त्वा घटखर्परं सुविस्तीर्णं ।
तदुपरि मध्यगतः सूतः स्थाप्यस्ततः कुड्ये ॥१६॥
लघुलोहकटोरिकया कृतपटमृत्सन्धिलेपयाच्छाद्य ।
पूर्णं तद्घटखर्परं अङ्गारैः करीषतुषमिश्रैः ॥१७॥
स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति ।
अग्निबलेनैव ततो गर्भद्रुतिः सर्वलोहानां ॥१८॥
एवं दत्त्वा जीर्यति न क्षयति रसो यथा तथा कार्यः ।
क्षयमेति क्षारविडैः स तूपरसैर्ग्रासमुद्गिरति ॥१९॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP