संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय ४ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय ४ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय ४ Translation - भाषांतर कृष्णो रक्तः पीतो योऽभ्रः स्यात्स्थूलतारकारहितः ।वज्री स पीतकर्मणि पातितसत्त्वो घनो योज्यः ॥१॥निश्चन्द्रिकं हि गगनं वासितमपि वासनाभिरिह शतधा ।तदपि न चरति रसेन्द्रः सत्त्वं कथमत्र यत्नतः प्रभवेत् ॥२॥मुक्त्वैकमभ्रसत्त्वं नान्यः पक्षापकर्तनसमर्थः ।तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखं ॥३॥(पक्षच्छेद) पक्षच्छेदमकृत्वा रसबन्धं कर्तुं ईहते यस्तु ।बीजैरेव हि स जडो वाञ्छत्यजितेन्द्रियो मोक्षं ॥४॥नाधः पतति न चोर्ध्वं तिष्ठति यन्त्रे भवेदनुद्गारी ।अभ्रकजीर्णः सूतः पक्षच्छिन्नः स विज्ञेयः ॥५॥(अभ्रः:) श्वेतादिचतुर्वर्णाः कथितास्ते स्थूलतारकारहिताः ।वज्री सत्वं मुञ्चत्यपरे ध्माताश्च काचतां यान्ति ॥६॥सितरक्तासितपीता ये केचिदुदाहृता घना लोके ।अल्पबला निःसत्त्वा वज्री श्रेष्ठस्तु सर्वेषां ॥७॥सूतेऽपि रसायनिनां योज्यं परिकीर्तितं परं सत्वं ।त्रिविधं गगनमभक्ष्यं काचं किट्टं च पत्त्ररजः ॥८॥(अभ्रः: सत्त्व) मुञ्चति सत्वं ध्मातस्तृणसारविकारकैर्घनः स्विन्नः ।परिहृत्य काचकिट्टं ग्राह्यं सारं प्रयत्नेन ॥९॥(अभ्रः: सत्त्वः: पातन) स्वेद्य बद्ध्वा पिण्डं माहिषदधिदुग्धमूत्रशकृदाज्यैः ।अथ पंचगव्ययुक्तः सत्वं पातयति लोहनिभं ॥१०॥(सत्त्वः: ) सूर्यातपपीतरसाः स्वल्पं मुञ्चन्ति धातवः सत्वं ।स्वस्थानस्थाः सन्तो मुञ्चन्ति त एव भूयिष्ठं ॥११॥बहुगम्भीरं ध्मातो वर्षति मेघः सुवर्णधाराभिः ।देवमुखतुल्यममलं पतितं सत्वं तथा विन्द्यात् ॥१२॥(अभ्रः: सत्त्वः: मुख) यदि लोहनिभं पतितं जातं गगनस्य तद्रसश्चरति ।मिलति च सर्वद्वन्द्वे ह्यौषधिभिश्चरति विनापि मुखैः ॥१३॥(अभ्रः: सत्त्वः: मुख) माक्षिकसहितं गगनं ध्मातं सत्वं मुखप्रदं भवति ।तदनु च नागैर्वङ्गैः सहितं च मुखप्रदं सत्वं ॥१४॥(अभ्रः: सत्त्वः: गर्भद्रुति, रञ्जन अन्द्बन्धन) माक्षिकसत्वे योगाद्घनसत्वं चरति सूतको निखिलं ।नियतं गर्भद्रावी स रज्यते बध्यते चैवं ॥१५॥(अभ्रः: सत्त्वः: ) सत्वं घनस्य कान्तं तालकयुक्तं सुरुन्धितं ध्मातं ।वारैस्त्रिभिरिह सत्वं भवति रसेन्द्रबन्धकारि परं ॥१६॥(अभ्रः: सत्त्वः: गर्भद्रुति) लोहं चाभ्रकसत्वं तालकसमभागसारितं चरति ।अभिषवयोगाच्चाङ्गुलिमृदितं गर्भे च तद्द्रवति ॥१७॥(अभ्रः: सत्त्वः: चारण) वंगमथो घनसत्वं तालकषड्भागसारितं चरति ।अभिषवयोगाच्चरति व्रजति रसो नात्र सन्देहः ॥१८॥(अभ्रः: सत्त्वः:चारण) बहलं सुवर्णवर्णं निचुलपुटैः पतति पञ्चभिः सत्वं ।वटकीकृतमृतगगनं निरञ्जनं किट्टरहितं च ॥१९॥तच्चूर्णीकृत्य ततः क्षाराम्लैर्भावितं घनं बहुशः ।सृष्टित्रयनीरकणातुम्बुरुरसमर्दितं चरति ॥२०॥(शुल्वाभ्रः: ) घनसत्वशुल्बमाक्षिकसमभागनियोजितं तथा मिलितं ।तच्छुल्बाभ्रं कथितं चरति रसो जीर्यति क्षिप्रं ॥२१॥इति ताप्यशुल्बसहितं घनसत्वं लोहखल्वके मृदितं ।चरति रसेन्द्रः काञ्जिकवेतसजम्बीरबीजपूराम्लैः ॥२२॥(भस्मन् रञ्जन) इति तीक्ष्णशुल्बनागं माक्षिकयुक्तं च तत्कृतं खोटं ।तद्भस्म च पुटविधिना निर्व्यूढं सत्वरञ्जकं भवति ॥२३॥चार्यं यत्नेन रसे घनसत्वं तद्विधं घनं तस्य ।संयोज्य सर्वबीजं निर्वाह्य द्वन्द्वसंकरतः ॥२४॥अभ्रकचारणमादौ गर्भद्रुतिचारणं च हेम्नोऽन्ते ।यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥२५॥(अभ्रः: सत्त्वः: ग्रासः:) गगनग्रासरहस्यं वक्ष्याम्येकं घनार्कसंयोगात् ।केवलमभ्रकसत्वं ग्रसते यत्नान्न सर्वाङ्गं ॥२६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP