संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय ५ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय ५ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय ५ Translation - भाषांतर यदि घनसत्वं गर्भे न पतति नो वा द्रवन्ति बीजानि ।न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः ॥१॥गर्भद्रुत्या रहितो ग्रासश्चीर्णोऽपि नैकतां याति ।एकीभावेन विना न जीर्यते तेन सा कार्या ॥२॥बीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमं ।येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण ॥३॥(गर्भद्रुतियोग्यबीज (१)) सममाक्षिककृतवापं सममाक्षिकसत्वसंयुतं हेम ।गर्भे द्रवति च जरति च जरितं बध्नाति नान्यथा सूतं ॥४॥(तारारिष्ट) माक्षिकसत्वं हेम्ना पादादिकजारितं द्रुतं सूते ।तारारिष्टं कुरुते वरकनकं पत्त्रलेपेन ॥५॥(गर्भद्रुतिः:) समरसतां यदि यातो वस्त्राद्गलितोऽधिकश्च तुलनायां ।ग्रासो द्रुतः स गर्भे द्रुत्वासौ जीर्यते क्षिप्रं ॥६॥न बिडैर्नापि क्षारैर्न स्नेहैर्द्रवति हेमं तारं वा ।माक्षिकसत्वेन विना त्रिदिनं निहितेन रक्तेन ॥७॥(चारण, गर्भद्रुति) लवणं देवीस्वरसप्लुतं अहिपत्रं विचूर्णितं शिलया ।एतत्पुटनत्रितयात्सुमृतं संस्थापयेदयःपात्रे ॥८॥विहितार्धांगुलनिम्ना स्फुटविकटकटोरिका मुखाधारा ।तस्योपर्यादेया कटोरिका चाङ्गुलोत्सेधा ॥९॥विहितच्छिद्रत्रितया शस्ता चतुरंगुलोर्ध्वछिद्रेषु ।लोहशलाका योज्यास्तत्रापि च हेमपत्राणि ॥१०॥संस्थाप्य विधूप्यन्ते यन्त्राधस्तात्प्रदीपयेदग्निं ।धूमोपलेपमात्राद्भवन्ति कृष्णानि हेमपत्राणि ॥११॥तान्यग्नितापितानि च पश्चाद्यन्त्रे मृतानि धूमेन ।पाचितहेमविधानाच्चरति रसेन्द्रो द्रवति गर्भे च ॥१२॥(गर्भद्रुति) तेनैव तारपत्रं विधिना संस्वेद्य यन्त्रयोगेन ।जायेत कृष्णवर्णं तत्तारं द्रवति गर्भे च ॥१३॥(गर्भद्रुति ) अथवा बलिना वङ्गं नागाभिधानेन यन्त्रयोगेन ।हेमाह्वं तारं वा द्रवति च गर्भे न सन्देहः ॥१४॥(रसकः: गर्भद्रुति ) रसकं बलिना युक्तं पूर्वोक्तविधानयोगेन ।पक्वं चूर्णं यावद्भवति भृशं द्रवति गर्भे च ॥१५॥(गर्भद्रुति) व्यूढोऽथ गन्धकाश्मा शतगुणसंख्यं तथोत्तमे हेम्नि ।सूते च भवति पिष्टिर्द्रवति हि गर्भे न विस्मयः कार्यः ॥१६॥(गोल्दः: बीज फ़ोर्गर्भद्रुति) अथवा शतनिर्व्यूढं रसकवरं शुद्धहेम्नि वरबीजं ।बीजं जरति रसेन्द्रे द्रवति च गर्भे न सन्देहः ॥१७॥(बीज ) अथवा तालकसत्वं शिलया वा तच्च हेम्नि निर्व्यूढं ।शतगुणमथ मूषायां जरति रसेन्द्रो द्रवति गर्भे च ॥१८॥ रसदरदाभ्रकताप्यविमलामृतशुल्बलोहपर्पटिका ।स्नुह्यर्कदुग्धपिष्टं कंकुष्ठशिलायुतं नागं ॥१९॥अभ्रकतालकशङ्खरससहितं तत्पुनः पुनः पुटितं ।चिञ्चाक्षारविमिश्रं वङ्गं निर्जीवतां याति ॥२०॥विधिनानेन च पुटितं म्रियते नागं निरुत्थतां च गतं ।वङ्गं च सर्वकर्मसु नियुज्यते तदपि गतजीवं ॥२१॥(बीज ) मृतनागं मृतवङ्गं मृतवरशुल्वं मृतं तथा तीक्ष्णं ।एकैकं हेमवरे शतनिर्व्यूढं द्रवति गर्भे च ॥२२॥(महाबीज) समगर्भे द्रुतिकरणं हेम्नो वक्ष्याम्यहं परं योगं ।भ्रामकसस्यकचूर्णं शतनिर्व्यूढं महाबीजं ॥२३॥(गर्भद्रुति) अथवा गन्धकधूमं तालकधूमं शिलाह्वरसकस्य ।दत्त्वाधोमुखमूषां दीर्घतमां खर्परस्यार्धे ॥२४॥ऊर्ध्वं लग्ना पिष्टी सुदृढा च यथा तथा च कर्तव्या ।दत्त्वा खर्परपृष्ठे दैत्येन्द्रं दाहयेत्तदनु ॥२५॥स्तोकं स्तोकं दत्त्वा कर्षाग्नौ ध्मापयेन्मृदा लिप्तां ।गर्भे द्रवति हि बीजं म्रियते तथाधिके दाहे ॥२६॥(विडः: ) गन्धकतालकशैलाः सौवीरकरसकगैरिकं दरदं ।क्षाराम्ललवणानि विडो माक्षिकवैक्रान्तविमलसमभागैः ॥२७॥(विडः: ) कृत्वा सुवर्णपिष्टीं मृदितां च सुवेष्टितामनेनैव ।त्रिपुटैस्तप्ते खल्वे मृदिता गर्भे तथा द्रवति ॥२८॥(विडः: ) रक्ते शतनिर्व्यूढं नेत्रहितं भस्म वैक्रान्तकं चाथ ।विमलं शतनिर्व्यूढं ग्रसति समं द्रवति गर्भे च ॥२९॥(विडः: ) ये केचिद्विडयोगाः क्षाराम्ललवणानि दीप्तवर्गाश्च ।सर्वे शतनिर्व्यूढा गर्भद्रुतिकारकाः कथिताः ॥३०॥(निर्वाहण ) ग्रास, देरस्सिमिलिएर्त्wइर्द्) शतनिर्व्यूढे च समं पादोनं पञ्चसप्ततिव्यूढे ।पञ्चाशति तदर्धं पादः स्यात्पञ्चविंशतिके ॥३१॥अष्टांशं तु तदर्धे षोडशांशं तदर्धनिर्व्यूढे ।तस्यार्धे द्वात्रिंशच्चतुःषष्ट्यंशं तदर्धनिर्व्यूढे ॥३२॥(गर्भद्रुति) इति गदितां गर्भद्रुतिमभिषवयोगेन चाम्लवर्गेण ।स्वेदनविधिना ज्ञात्वा मृदितां तप्ते तु खल्वतले ॥३३॥ज्ञात्वा बीजबलाबलमर्दनयोगं कृतं च रसराजे ।स्वेदविधानं च पुटं यन्त्रं वा विहितरसकर्म ॥३४॥सूतवरं लक्षयते बीजं नोपेक्षतां यथा याति ।तद्वत्कार्यं विधिना सुकर्म गुरुपादनिर्दिष्टं ॥३५॥(बाह्यद्रुति) बाह्यद्रुतिरति विमला स्फुरति हि केषांचिदेव सिद्धानां ।तेभ्यः सम्यक्ज्ञात्वा कलनाः कार्यास्तथा द्रुतयः ॥३६॥वरनागं रसराजं बीजवरं सारितं तथा त्रितयं ।गन्धकशिलालसहितं निर्नागं दीपवर्तितो भवति ॥३७॥बद्ध्वा सुदृढे वस्त्रे पोटलिकायां शिखीकृतो दीपः ।तैले मग्नं कृत्वा निर्नागं जायते क्षिप्रं ॥३८॥कृत्वात्र दीर्घमूषां सुदृढां ध्मातं तु भस्मगर्तायां ।क्षिप्त्वा शिलालचूर्णं पश्चात्सूतं ततः शिलाचूर्णं ॥३९॥संस्थाप्य भस्मनातो ध्मातं स्यात्स्वांगशीतलं यावत् ।आकृष्य तत्र सूतं ज्ञात्वा नागं सुभक्षितं सकलं ॥४०॥ज्ञात्वा नागं त्रुटितं पुनरपि दद्याद्यथा भवेत्त्रिगुणं ।पश्चाच्छुद्धं कृत्वा बीजवरं योजयेत्तदनु ॥४१॥अथवा तारं वङ्गं सूतं संसार्य वङ्गपरिहीनं ।तालकयोगेन तथा निर्वङ्गं यन्त्रयोगेन ॥४२॥अथवा वस्त्रनिबद्धं गिरिजतुसहितं सुवेष्टितं माषैः ।पक्वं तैले वटकं निर्वङ्गं जायते नूनं ॥४३॥पिष्टीस्तम्भं कृत्वा बीजवरेणैव सारितं तदनु ।अथवा बद्धरसेन तु सहितं बीजं सुरञ्जितं कृत्वा ॥४४॥गन्धकनिहितं सूतं निहितानिहितं च शृङ्खलायां तत् ।योजितनिर्व्यूढरसे गर्भद्रुतिकारकं नूनं ॥४५॥सूतकभस्मवरेण तु बीजं कृत्वा रसेन्द्रके गर्भे ।मृदिता पिष्टी विधिना ह्यभिषवयोगाद्द्रवति गर्भे च ॥४६॥पत्राभ्रकं च सत्वं कांक्षी वा कान्तमाक्षिकं पुटितं ।निर्गुण्डी गृहकन्या चाङ्गेरी पलाशशाकैश्च ॥४७॥तावत्पुटितं कृत्वा यावत्सिन्दूरसप्रभं भवति ।तत्पादशेषलवणं हण्डिकपाकेन पाचितं सुदृढं ॥४८॥एकैकं शतव्यूढं बीजवरं जारयेद्रसेन्द्रस्य ।गर्भे द्रवति च क्षिप्रं ह्यभिषवयोगेन मृदितमङ्गुल्या ॥४९॥आवृत्तेऽप्यावर्त्यं हेमवरे क्षेप्यमुज्ज्वले नागं ।त्रिगुणशिलाप्रतिवापं ह्यहिबीजं तत्समुद्दिष्टं ॥५०॥वङ्गं तु तेन विधिना हेमवरे क्षेप्य तालवापेन ।तारे वा निर्व्यूढं बीजवरं त्रुटितसंयोगात् ॥५१॥(रसाङ्कुश) यो निःसृतो भुजङ्गाद्रसकेशरीवज्रपञ्जरः स पुनः ।फणिहेमगुणात्कुटिलो रसाङ्कुशो नाम विख्यातः ॥५२॥एवं पक्वं विधिना बीजवरं सूतराट्तथाम्लेन ।कर्तव्यः संस्वेद्यो यावत्पिष्टी भवेच्छ्लक्ष्णा ॥५३॥तैलेन तेन विधिना स्विन्ना पिष्टी भवेदखिलं ।अथवा श्लक्ष्णं शिलया निघृष्टबीजं भवेत्पिण्डी ॥५४॥पाको वटकविधिना कर्तव्यस्तैलयोगेन ।क्रामणपिण्डे क्षिप्त्वा माषैश्च स्यात्सुदृढपिण्डत्वं ॥५५॥मृद्वग्निना सुपक्वं दग्धं यावन्न भवेत्पिण्डं ।आकृष्य चाथ सूतं पिण्डे शेषं तथा पुनः पाच्यं ॥५६॥अथवाप्यौषधपिण्डे दोलातप्ते खर्परे विधिना ।पुनरपि पिण्डे क्षेप्यं गर्भे यावद्द्रुतिर्भवति ॥५७॥एवं द्रुतं हि गर्भे बीजवरं जरति रसराजे ।गर्भद्रुत्या रहितं बिडयोगैर्जरति गर्भे च ॥५८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP