संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय ३ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय ३ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय ३ Translation - भाषांतर घनरहितबीजचारणसम्प्राप्तदलादिलाभकृतकृत्याः ।कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥१॥अन्ये पुनर्महान्तो लक्ष्मीकरिराजकौस्तुभादीनि ।अवधीर्य लब्धवन्तः परामृतं चामरा जाताः ॥२॥क्षारौषधिपट्वम्लैः क्षुद्बोधो रागबन्धने स्वेदात् ।न पुनः पक्षच्छेदो द्रवत्वं वा विना गगनं ॥३॥अभ्रकजीर्णो बलवान्भवति रसस्तस्य चारणे प्रोक्ताः ।संधानवासनौषधिनिर्मुखसमुखा महायोगाः ॥४॥(अभ्रः: ) निश्चन्द्रिकं हि गगनं क्षाराम्लैर्भावितं तथा रुधिरैः ।सृष्टित्रयनीरकणातुम्बरुरसमर्दितं चरति ॥५॥(मेर्चुर्यः: अभ्रचारण) यवचिञ्चिकाम्बुपुटितं तन्मूलशतावरीगदाकुलितं ।घनरवशिग्रुपुनर्नवरसभावितमभ्रकं चरति ॥६॥सर्जीक्षितिखगटङ्कणलवणान्वितं अर्कभाजने त्रिदिनं ।पर्युषितमारनालं गगनादिषु भावने शस्तं ॥७॥तस्मिन्नागं शुद्धं प्रद्राव्य निषेचयेच्छतं वारान् ।वङ्गं वा तारविधौ रसायने नैव तद्योज्यं ॥८॥गगनरसोपरसामृतलोहरसायसादिचूर्णानि ।सर्वमनेन ह भाव्यं यत्किंचित्चारणावस्तु ॥९॥आदौ खल्वे मृदितां पिष्टीं हेम्नश्च तां रसश्चरति ।तारस्य तारकर्मणि दत्त्वा सूते ततो गगनं ॥१०॥त्रुटिशो दत्त्वा मृदितं सारे खल्वेऽभ्रहेमलोहादि ।चरति रसेन्द्रः क्षितिखगवेतसबीजपूराम्लैः ॥११॥समुखं निर्मुखमथवा तुल्यं द्विगुणं चतुर्गुणं वापि ।अष्टगुणं षोडशगुणमथवा द्वात्रिंशतागुणितं ॥१२॥इति पत्त्राभ्रकं उक्तं तेन विधानेन चारयेत्सूतं ।(चारण) ग्रासः पिष्टी गर्भस्त्रिलक्षणा चारणा भवति ॥१३॥दोलनविधिना यैरपि नानाविधभङ्गसंस्कृतं गगनं ।चारणविधौ प्रदिष्टं दृष्टं नोद्धूयमानं तैः ॥१४॥अन्येऽपि तुच्छमतयो गन्धकनिष्पिष्टिशुल्बपिष्टिरजः ।दोलनविधिनोद्धूतं रसजीर्णं तदिति मन्यन्ते ॥१५॥(गोलकमुख) तैलादिकतप्तरसे हाटकतारादिगोलकमुखेन ।चरति घनं रसराजो हेमादिभिरेति पिण्डत्वं ॥१६॥(मुखः: शुकपिच्छमुख) अन्ये स्वच्छं कृत्वा शुकपिच्छमुखेन चारयन्ति घनं ।सिद्धोपदेशविधिना आशितग्रासे न शुष्केण ॥१७॥अथवा माक्षिकगगनं समभागं पटुयुतं पक्वं ।प्रक्षिप्य लोहपात्रे स्वेदान्तश्चरति कृष्णाभ्रं ॥१८॥तं प्रवक्ष्याम्युपदेशं गन्धाभ्रकसंप्रवेशनं येन ।पक्षछिन्नश्च रसो योग्यः स्याद्रसरसायनयोः ॥१९॥रसराजरागदायी बीजानां पाकजारणसमर्थः ।सूतकपक्षच्छेदी रसबन्धे गन्धकोऽभिहितः ॥२०॥(मेर्चुर्यः: मारण, पक्षछेद) दत्त्वा खल्वे त्रुटिशो गन्धकं आदौ रसं च त्रुटिशोऽपि ।तावच्च मर्दनीयं यावत्सा पिष्टिका भवति ॥२१॥तदनु च द्रुतबलिवसया समभागनियोजितं तथा गगनं ।त्रुटिशो रसं च दत्त्वा कुर्वीत यथेप्सितां पिष्टिं ॥२२॥सापि च दीप्तैरुपलैर्निपात्यतेऽधोऽथ दीपिकायन्त्रे ।तदनु च निर्मुक्तमलो निकृन्तपक्षोऽभ्रगन्धाभ्यां ॥२३॥(मेर्चुर्यः: मारण) अथवा गन्धकपिष्टिं पक्त्वा द्रुतगन्धकस्य मध्ये तु ॥२४॥सा चापि हेमपिष्टिर्विपच्यते गन्धके भूयः ।इत्थं हेम्ना सूतो मिलति द्वंद्वे तथा क्षणान्म्रियते ॥२५॥इतरे पक्षच्छेदं द्वंद्वे रसमारणं न वाञ्छन्ति ।बीजानामपि पाकं हृष्यन्ति च तदनु तप्यन्ति ॥२६॥इत्थमनेकदोषैर्बहुश्रमैर्गगनचारणं मत्वा ।निर्दिश्यते प्रकारः कर्मणि शास्त्रेऽपि संवादी ॥२७॥अग्राह्यो निर्लेपः सूक्ष्मगतिर्व्यापकोऽक्षयो जीवः ।यावद्विशति न योनौ तावद्बन्धं कुतो भजते ॥२८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP