संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय १ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय १ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय १ Translation - भाषांतर जयति स दैन्यगदाकुलं अखिलं इदं पश्यतो जगद्यस्य ।हृदयस्थैव गलित्वा जाता रसरूपिणी करुणा ॥१॥पीताम्बरोऽथ बलिजिन्नागक्षयबहलरागगरुडचरः ।जयति स हरिरिव हरजो विदलितभवदैन्यदुःखभरः ॥२॥मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति ।अमरीकरोति सुमृतः कोऽन्यः करुणाकरः सूतात् ॥३॥सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यं ।तदपि च शमयति यस्मात्कोऽन्यस्तस्मात्पवित्रतरः ॥४॥तस्य स्वयं हि स्फुरति प्रादुर्भावः स शांकरः कोऽपि ।कथमन्यथा हि शमयति विलसन्मात्राच्च पापरुजं ॥५॥रसबन्धश्च स धन्यः प्रारम्भे यस्य सततमिव करुणा ।सिद्धे रसे करिष्ये महीमहं निर्जरामरणं ॥६॥ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः ।वन्द्यास्ते रससिद्धा मन्त्रगणाः किंकरा येषां ॥७॥सुकृतफलं तावदिदं सुकुले यज्जन्म धीश्च तत्रापि ।सापि च सकलमहीतलतुलनफला भूतलं च सुविधेयं ॥८॥भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः ।भोगाः सन्ति शरीरे तदनित्यमहो वृथा सकलं ॥९॥इति धनशरीरभोगान्मत्वानित्यान्सदैव यतनीयं ।मुक्तौ सा च ज्ञानात्तच्चाभ्यासात्स च स्थिरे देहे ॥१०॥तत्स्थैर्यं न समर्थं रसायनं किमपि मूललोहादि ।स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च ॥११॥काष्ठौषध्यो नागे नागं वङ्गे वङ्गमपि लीयते शुल्वे ।शुल्वं तारे तारं कनके कनकं च लीयते सूते ॥१२॥परमात्मनीव नियतं लयो यत्र सर्वसत्त्वानां ।एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥१३॥अमृतत्वं हि भजन्ते हरमूर्तौ योगिनो यथा लीनाः ।तद्वत्कवलितगगने रसराजे हेमलोहाद्याः ॥१४॥स्थिरदेहोऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतं ।प्राप्नोति ब्रह्मपदं न पुनर्भवावासदुःखेन ॥१५॥एकांशेन जगन्ति च विष्टभ्यावस्थितं परं ज्योतिः ।पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण ॥१६॥न हि देहेन कथंचिद्व्याधिजरामरणदुःखविधुरेण ।क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यं ॥१७॥नामापि योगसिद्धेः को गृह्णीयाद्विना शरीरेण ।यद्योगगम्यममलं मनसोऽपि न गोचरं तत्त्वं ॥१८॥यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात् ।अत्यन्तं श्रेयः किल योगवशादात्मसंवित्तिः ॥१९॥गलितानल्पविकल्पसर्वार्थविवर्जितश्चिदानन्दः ।स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य ॥२०॥भ्रूयुगमध्यगतं यच्छिखिविद्युन्निर्मलं जगद्भासि ।केषांचित्पुण्यकृतां उन्मीलति चिन्मयं ज्योतिः ॥२१॥१.२२ परमानन्दैकमयं परमं ज्योतिःस्वभावमविकल्पं ।विगलितसर्वक्लेशं ज्ञेयं शान्तं स्वयंसंवेद्यं ॥२२॥तस्मिन्नाधाय मनः स्फुरदखिलं जगत्पश्यन् ।उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ॥२३॥अस्तं हि यान्ति विषयाः प्राणान्तःकरणसंयोगात् ।स्फुरणं नेन्द्रियतमसां नातः स्फुरतश्च दुःखसुखे ॥२४॥रागद्वेषविमुक्ताः सत्याचारा नरा मृषारहिताः ।सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात् ॥२५॥तिष्ठन्त्यणिमादियुता विलसद्देहा मुदा सदानन्दाः ।ये ब्रह्मभावममृतं सम्प्राप्ताश्चैव कृतकृत्याः ॥२६॥आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणां ।श्रेयः परं किमन्यत्शरीरमजरामरं विहायैकं ॥२७॥प्रमाणतोऽपि प्रत्यक्षाद्यो न जानाति सूतकं ।अदृष्टविग्रहं देवं कथं ज्ञास्यति चिन्मयं ॥२८॥यज्जरया जर्जरितं कासश्वासादिदुःखवशमाप्तं ।योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरं ॥२९॥बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः ।जातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिं ॥३०॥अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः ।देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरं ॥३१॥ब्रह्मादयो यजन्ते यस्मिन्दिव्यां तनुं समाश्रित्य ।जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः ॥३२॥तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं ।दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ॥३३॥तस्यापि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमं ।अष्टादशसंस्कारा विज्ञातव्याः प्रयत्नेन ॥३४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP