संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय १८ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय १८ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय १८ Translation - भाषांतर अनया खलु सारणया क्रामणेन च विशति योजितो विधिवत् ।असति वेधविधौ न रसः स्वगुणान्प्रकाशयति ॥१॥(हेमकृष्टि) रसदरदताप्यगन्धकमनःशिलाराजवर्त्तकं विमलं ।पुटमृतशुल्बं तारे निर्व्यूढं हेमकृष्टिरियं ॥२॥(शतांशविधि वेध (१)) अष्टानवतिर्भागास्तारस्त्वेकोऽपि कनकभागः स्यात् ।सूतस्यैको भागः शतांशविधिरेष विख्यातः ॥३॥(शतांशविधि (२)) एकोनपञ्चाशद्भागास्तारस्येह तथैव शुल्वस्य ।कनकस्यैको भागो वेधश्चैकेन सूतस्य ॥४॥एवं सहस्रवेधी नियुज्यते कोटिवेधी च ।जारणबीजवशेन तु सूतस्य बलाबलं ज्ञात्वा ॥५॥(कुन्तवेध) दत्त्वादौ प्रतिवापं लाक्षामत्स्यादिपित्तभावनया ।तारे वा शुल्बे वा तारारिष्टे तथा कृष्टौ ॥६॥तदनु क्रामणमृदिते तत्कल्केनापि पिण्डितरसेन ।अतिविद्रुते च तस्मिन्वेधोऽसौ कुन्तवेधेन ॥७॥(क्रामण (?)) तत्तैलार्द्रपटेन स्थगयेत्पललेन भस्मना वापि ।विधिवद्वेध्यं द्रव्यं रसराजक्रामणार्थं हि ॥८॥इति सारितस्य कथितं रसस्य वेधादि क्रामणं कर्म ।(लेपवेध ।पत्त्ररञ्जन) पादादिजीर्णबीजो युज्यते पत्रलेपेन ॥९॥(पत्त्ररञ्जन (२) दुर्छ्लेप) अम्लाद्युद्वर्तिततारारिष्टादिपत्रं अतिशुद्धं ।आलिप्य रसेन ततः क्रामणलिप्ते पुटेषु विश्रान्तं ॥१०॥(वर्णपुट) अर्धेन मिश्रयित्वा हेम्ना ज्येष्ठेन तद्दलं पुटितं ।क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥११॥भूपतिवर्तकचूर्णं शिरीषपुष्परसभावितं बहुशः ।सद्यः करोति रक्तं सितकनकं अशीतिभागेन ॥१२॥(वेधः:) रसदरदविमलताप्यं पटुशिलामाक्षीकनृपाश्चैव ।प्रवालकंकुष्ठटङ्कणगैरिकप्रतिवापितं सितं कनकं ॥१३॥तापीभवनृपावर्तबीजपूररसार्दितं ।करोति पुटपाकेन हेम सिन्दूरसन्निभं ॥१४॥वङ्गाभ्रं सितमाक्षीकं शैलं वा वाहयेत्सिते ।तत्तारं च दशांशेन तारोत्कर्षं करोति हि ॥१५॥नागः करोति मृदुतां निर्व्यूढस्तां च रक्ततां च रविः शुल्बहतं रसगन्धाहतखगपीतं दशांशेन ।विध्यति कनकं कुरुते तन्निर्व्यूढं मर्दितं सुदृढं ॥१९॥तां पीततां च तीक्ष्णं काचस्तत्कालिकविनाशं च ॥१६॥कनकारुणसममाक्षिककरञ्जतैलाप्लुतो ध्मातः ।पाते पाते दश दश विन्दति यावद्धि कोटिमपि ॥१७॥स चायमतिविलीनः कंगुणीतैलसेचितो बहुशः ।माक्षीकरविनिवापं विध्यति कनकं शतांशेन ॥१८॥शुल्बहतं रसगन्धाहतखगपीतं दशांशेन ।विध्यति कनकं कुरुते तन्निर्व्यूढं मर्दितं सुदृढं ॥१९॥(वेध) रसकसमं सुध्मातं कनकं भुक्त्वा ततोऽर्कचन्द्रलेपेन ।माक्षिकसत्त्वं हेम्ना करोति जीर्णो रसः शतांशेन ॥२०॥अष्टगुणं मृतशुल्बं कलधौतेन मूकमूषया लिप्तं ।तत्षोडशांशजीर्णं विध्यति तारं शतार्धेन ॥२१॥आवृत्य कनककरिणौ शिलया प्रतिवापितौ ततो भुक्त्वा ।दोलायन्त्रे गन्धकजीर्णस्तारे दशांशवेधी स्यात् ॥२२॥रिपुनिहतलोहषट्कं जीर्णो धान्यस्थितश्चतुर्मासं ।सहितः पुरसुराभ्यां विध्यति घोषं शतांशेन ॥२३॥वक्ष्ये सम्प्रति सम्यग्यद्बीजं समरसे जीर्णं ।पिष्टिस्तम्भादिविधिं प्रकाश्यमानं बुधाः शृणुत ॥२४॥राजावर्तकविमलपीताभ्रगन्धताप्यरसकैश्च ।कांक्षीकासीसशिलादरदैश्च समन्वितं नागं ॥२५॥अहिमाररसैः पुटितं मारय नागं निरुत्थकं यावत् ।तदनु च तस्य हि मध्ये शुल्बं गन्धं च लवणकंकुष्ठं ॥२६॥तत्सर्वं शतवारान्भावय पक्वार्कपत्रसलिलैश्च ।घोषाकृष्टे शुल्बे चूर्णं निर्वाहयेच्छतशः ॥२७॥शुल्बेन तेन हि समं रसकपीताभ्रसत्वविमलं च ।गैरिकमाक्षिकसत्त्वं टङ्कणनागं च तीक्ष्णयुतं ॥२८॥एतैर्द्वन्द्वं कृत्वा माक्षिकवापेन रञ्जयेच्छुल्वं ।वारांश्च विंशतिरपि गलितं सेचयेत्तदनु ॥२९॥निर्गुण्डीकाकमाचीकन्यारसमेलनं कृत्वा ।वारान्सप्त च विधिना तदपि च निर्वापयेद्धेम्नि ॥३०॥यावच्चतुर्विंशतिगुणं बीजवरं रञ्जयेत्तच्च ।पक्वं माक्षिकमेव हि तेन च विधिना तदपि चतुर्विंशतिगुणं ॥३१॥तद्बीजं लघुमात्रं रसराजे संस्कृते पूर्वं ।मूषायां खलु दत्त्वा दशगुणं च गन्धकं दाह्यं ॥३२॥अथवा वालुकयन्त्रे सुदृढे चतुर्दशांगुलमूषायां ।मध्ये सूतं मुक्त्वा लघुतरपुटयोगतः पिहिता ॥३३॥तेन समं बीजवरे पिष्टिः पादांशतः कार्या ।अंगुलिनवपरिमाणे मूषामध्ये च पिष्टिकां दत्त्वा ॥३४॥निर्गुण्डीकाकमाचीगोजिह्वादुग्धिकारक्ता ।गृहकन्यामधुसैन्धवपिण्डैरपि समन्ततश्छाद्या ॥३५॥तावत्कार्यः पुटयोगो यावद्दृढतां समायाति ।षड्गुणगन्धकतालककांक्षीकासीसलवणक्षारं ॥३६॥ताप्यं तत्सर्वसमं देयं बाह्ये तदौषधिपिण्डं ।षड्गुणषड्गुणसहितं पिष्टीं यन्त्रेऽथ कच्छपे दत्त्वा ॥३७॥स्वेद्यं पुटयोगेन तु त्रिदिनं घटिकात्रयं यावत् ।उद्धृत्य ततो यत्नात्पिष्ट्वा सुचूर्णितां कृत्वा ॥३८॥समबीजेन तु सार्यो नागं त्रिगुणं ततः समुत्तार्य ।प्रतिसारणा च कार्या जारितसूतेन बीजयुक्तेन ॥३९॥अनुसारणा च पश्चात्त्रिगुणं बीजं भवेद्यत्र ।प्रागुक्तं तस्योपरि मृतनागं शतगुणं वाह्यं ।तेन च घोषाकृष्टे शुल्बे वेधोऽथ सप्तशतैः ॥४०॥(क्षेपवेध) क्रामणं एतत्प्रागपि माक्षिकदरदगन्धकशिलाभिः ।राजावर्तकविमलप्रवालकङ्कुष्ठतुत्थविषैः ॥४१॥कान्तगैरिकटंकणभूमिलतारुधिरशक्रगोपरसैः ।महिषीणां कर्णमलैर्मृतलोहं वायसस्य विष्ठा च ॥४२॥पारावतस्य विष्ठा स्त्रीपयः सर्वं एकतः कृत्वा ।क्रामणकल्कं चैतच्छतवारान्रक्तपीतगणैः ॥४३॥भाव्यं कंगुणितैले क्रौञ्चीपित्तभावनाः सप्त ।कल्केनानेन पचेत्सारितपिष्टिं च हण्डिकायां हि ॥४४॥यावद्रक्ता भवति हि गच्छति नागं समुत्तार्य ।तावत्क्षेपं च क्षिपेत्सर्वस्मिन्सारणादौ च ॥४५॥एवं हि कोटिवेधी रसराजः क्रामितो भूत्वा ।पुंस्त्वादेरुच्छ्रायप्रदो भूत्वा भोगान्दत्ते ॥४६॥अभ्रकमाक्षिककनकं नागयुतं मिलितं विधिना ।सूते पिष्टिः कार्या दिव्यौषधियोगतः पुटिता ॥४७॥षड्गुणगन्धकदाहः शिलया नागं समुत्तार्य ।तारे हेमाकृष्टिर्मिलिता स्यात्षोडशांशेन ॥४८॥माक्षिकनिहतं शुल्बं शिलया निहतं च नागतुल्यांशं ।पुटितं जम्बीररसैः सैन्धवसहितं पचेत्स्थाल्यां ॥४९॥तच्चूर्णं घृतमधुकटङ्कणसहितं च गुप्तमूषायां ।तारे त्रिगुणं व्यूढं हेमाकृष्टिर्भवेद्दिव्या ॥५०॥शुल्बं बलिना निहतं तीक्ष्णं दरदेन निहतसमभागं ।एकीकृत्वा पुटयेत्पचेन्मातारसेनैव ॥५१॥तारे व्यूढं त्रिगुणं मार्जाराक्षनिभं भवेत्तच्च ।लिप्तं रसेन पुटितं हेमार्धेन मात्रया तुल्यं ॥५२॥लिप्तं तदनु पुटितं नागं हि रसेन पादयुक्तेन ।खर्परकस्थं कृत्वा कार्यं विधिना दृढं ताप्यं ॥५३॥निर्गुण्डीरसभावितपुटितं शिलया वर्तितं श्लक्ष्णं ।तावन्मृदितपुटितं निरुत्थभावं व्रजेद्यावत् ॥५४॥तारे तन्निर्व्यूढं यावत्पीतं भवेद्रुचिरं ।हेमसमेन च मिलितं मात्रातुल्यं भवेत्कनकं ॥५५॥(स्वर्णमाक्षिक ) ताप्यं चांगुलिसंज्ञं चूर्णं कृत्वा तदन्तरे दत्त्वा ।शुल्बस्य गुप्तमूषा कार्या पुटिताप्यथ च ध्माता ॥५६॥हेम्ना मिलितं विधिना मात्रातुल्यं भवत्येव ।पादादिजीर्णसूते लिह्यात्पत्राणि हेमकृष्टीनां ॥५७॥क्रामणयोगेन ततो विलिप्य विधिना निधाय तुल्याधः ।पश्चाद्धेम्ना सहितं ध्मातं मूषोदरे समावर्त्य ॥५८॥यन्त्रं हण्ड्यां पक्वं पञ्चमृदावाप्य पुटपक्वं ।वक्ष्यामि चालेपविधिं क्रमति च सूतो यथा हि पत्रेषु ।रञ्जति येन विधिना समासतः सूतराजस्तु ॥५९॥कृत्वालक्तकवस्त्रं लिप्तमनुस्नेहमुपरि चूर्णेन ।अवचूर्णितं तु कृत्वा गन्धकशिलया विधानेन ॥६०॥तदुपरि शृतं च दत्त्वा गन्धकशिलाचूर्णं च सूतवरे ।पश्चाद्वर्तिः कार्या पात्रे धृत्वायसे च समे ॥६१॥दीपं प्रतिबोध्य ततस्तैलं दत्त्वा ततः स्तोकं ।पाकं यामस्यार्धं स्वाङ्गे शीतं ततः कार्यं ॥६२॥गृह्णीयादथ सूतकृष्टीं लिप्ता ततस्तेन ।क्रामणयोगैर्लिप्त्वा पुटिता सा हेम्नि निर्ध्माता ॥६३॥अथवा दरदशिलालैर्गन्धकमाक्षीकपक्वमृतनागैः ।कंकुष्ठप्रवालसहितैः पिष्टैश्च कङ्गुणीतैले ॥६४॥मध्ये सूतो युक्तो मृदितः खल्वे तथायसे विधिना ।संस्वेद्य वंशनलिकां दोलायन्त्रेण स्वेदितं त्रिदिनं ॥६५॥एतैर्लिप्त्वा कृष्णैः पत्रं पूर्वोक्तविधानेन ।नागं दत्त्वा प्रकटं स्तोकं स्तोकं क्रमेणैव ॥६६॥भवति हि कनकं दिव्यमक्षीणं देवयोग्यं च ।एवं जारितसूते सकलाः खलु हण्डिकाः सर्वाः ॥६७॥निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन ।अर्धेन पादयोगं पादेनैकेन तुल्यकनकं च ॥६८॥(ताराकृष्टि) ताराकृष्टिं वक्ष्ये मृतवङ्गं तालकेन तुल्यांशं ।लम्बितमथ निर्ध्मातं ताम्रं तारछविं वहति ॥६९॥पश्चान्नागं देयं प्रकाशमूषासु निर्मलं यावत् ।तावद्ध्मातं विधिना सुनिर्मलं निस्तरङ्गं तु ॥७०॥तालशिलासर्जिकाभिः सैन्धवलवणेन नयनहितसहितैः ।एकैकं सहितं वा वेधं दत्त्वा पुनः शुल्बे ॥७१॥छगणं माहिषतक्रं स्नुहीक्षीरेण सर्पिषा क्रमशः ।सगुडदुग्धमधुविमिश्रैः क्रमशो वेधे निषेकश्च ॥७२॥काञ्ची ब्राह्मी कुटिलं तालकं समभागयोजितं ध्मातं ।शुल्बं विद्धमनेन तु ताराकृष्टिर्भवेद्दिव्या ॥७३॥एवं ताराकृष्टिर्लिप्त्वा विद्धा रसेन सारितेन ।तारं करोति विमलं लेपं वा पादजीर्णादि ॥७४॥इति मिश्रीकृतविद्धं क्रमितं त्वथ मातृकातुल्यं ।तारदलं भवति छेदनताडननिकषैश्च निर्दोषं ॥७५॥एवं वेधविधानं शास्त्रविधिज्ञेन कर्मकुशलेन ।ज्ञात्वा गुरूपदेशं कर्तव्यं कर्मनिपुणेन ॥७६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP