संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय १२ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय १२ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय १२ Translation - भाषांतर अथ द्वन्द्वमेलनमभिधास्यते ।यावन्नाङ्गाङ्गतया न मिलन्ति लोहानि सर्वसत्त्वेषु ।तावत्सर्वाङ्गं न च चरति रसो द्वन्द्वयोगेन ॥१॥माक्षीकरसकसस्यकदरदान्यतमेन वापितं लोहं ।संत्यजति निबिडभावं सत्वे संमिलति सुध्मातं ॥२॥गुडपुरटङ्कणलाक्षासर्जरसैर्धातकीसमायुक्तैः ।स्त्रीस्तन्येन तु पिष्टैः रसायने द्वंद्वितं योज्यं ॥३॥ऊर्णाटङ्कणगिरिजतुकर्णाक्षिमलेन्द्रगोपकर्कटकैः ।नारीपयसा पिष्टैः सर्वे द्वन्द्वेषु हि मिलन्ति ॥४॥रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।निर्व्यूढं तत्सत्वं तेन रसो बन्धमुपयाति ॥५॥(द्वन्द्वमेलापक) शस्तं सर्वद्वन्द्वे गिरिजतुलेलीतकेन्द्रगोपाद्यैः ।महिषीकर्णमलाद्यैः स्याद्बीजं टङ्कणालविषैः ॥६॥(द्वन्द्वमेलापक) मधुसहितैरप्येतैस्ताराभ्रं मिलति ताप्यकनकं च ।एरण्डतैलटङ्कणकंकुष्ठशिलेन्द्रगोपैस्तु ॥७॥सूतेन शुद्धकनकं निष्पिष्य समाभ्रयोजितं कृत्वा ।पादेन तु पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यं ॥८॥रसोपरसस्य हेम्नो द्विगुणं शुद्धमाक्षिकं दत्त्वा ।स्वरसेन काकमाच्या रम्भाकन्देन मृद्नीयात् ॥९॥ रविशशितीक्ष्णैरेवं मिलन्ति गगनादिसत्वानि ॥१०॥सङ्करबीजानामपि विधानमित्यादि गगनसत्वयोगेन ।माक्षीकयोगादन्यं योज्यमवश्यं तु सर्वत्र ॥११॥कान्तमुखं सर्वेषां सत्त्वानां मेलकं प्रथमं ।पूर्वोक्तकल्कसहितं माक्षीकमृतनागतालशिलं ॥१२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP