रसहृदयतंत्र - अध्याय २

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


स्वेदनमर्दनमूर्छोत्थापनपातननिरोधनियमाश्च ।
दीपनगगनग्रासप्रमाणमथ चारणविधानं च ॥१॥
गर्भद्रुतिबाह्यद्रुतिजारणरसरागसारणं चैव ।
क्रामणवेधौ भक्षणमष्टादशधेति रसकर्म ॥२॥
(१. स्वेदन) आसुरीपटुकटुकत्रयचित्रार्द्रकमूलकैः कलांशैस्तु ।
सूतस्य काञ्जिकेन त्रिदिनं मृदुवह्निना स्वेदः ॥३॥
(२. मर्दन) गुडदग्धोर्णालवणैर्मन्दिरधूमेष्टकासुरीसहितैः ।
रसषोडशांशमानैः सकाञ्जिकैर्मर्दनं त्रिदिनं ॥४॥
(३. मूर्छन) मलशिखिविषाभिधाना रसस्य नैसर्गिकास्त्रयो दोषाः ।
मूर्छां मलेन कुरुते शिखिना दाहं विषेण मृत्युं च ॥५॥
गृहकन्या हरति मलं त्रिफलाग्निं चित्रकश्च विषं ।
तस्मादेभिर्मिश्रैर्वारान्संमूर्छयेत्सप्त ॥६॥
(संस्कारः: उत्थापन) अमुना विमर्दनेन हि सुविशुद्धो नागवङ्गपरिमुक्तः ।
सूतः पातनयन्त्रे समुत्थितः काञ्जिकक्वाथात् ॥७॥
(संस्कारः: पातनः: ऊर्ध्वपातन) कृत्वा तु शुल्बपिष्टिं निपात्यते नागवङ्गशङ्कातः ।
तस्मिन्दोषान्मुक्त्वा निपतति शुद्धस्तथा सूतः ॥८॥
(पातनयन्त्र) अष्टाङ्गुलविस्तारं दैर्घ्येण दशाङ्गुलं त्वधोभाण्डं ।
कण्ठादधः समुच्छ्रितं चतुरङ्गुलं कृतजलाधारं ॥९॥
अन्तःप्रविष्टतलभाण्डवदनं जलमग्ननिजमुखप्रान्ता ।
उपरिष्टाच्चिपिटघटी देयोदरषोडशाङ्गुलविशाला ॥१०॥
तस्मिन्नूर्ध्वभाण्डे निपातितः सकलदोषनिर्मुक्तः ।
सुतरां भवति रसेन्द्रो द्रव्ये च रसायने योग्यः ॥११॥
(अधःपातन) कृत्वा च नष्टपिष्टिं त्रिफलाशिखिशिग्रुराजिकापटुभिः ।
संलेप्य चोर्ध्वभाण्डे दीप्तैकपलैरधःपात्यः ॥१२॥
अथवा दीपकयन्त्रे निपातितः सकलदोषनिर्मुक्तः ।
(तिर्यक्पातन) तिर्यक्पातनविधिना निपात्यः सूतराजस्तु ॥१३॥
श्लक्ष्णीकृतमभ्रदलं रसेन्द्रयुक्तं तथारनालेन ।
खल्वे दत्त्वा मृदितं यावत्तन्नष्टपिष्टतां एति ॥१४॥
कुर्यात्तिर्यक्पातनपातितसूतं क्रमेण दृढवह्नौ ।
संस्वेद्य पात्यतेऽसौ न पतति यावद्दृढश्चाग्निः ॥१५॥
(निरोधन) मर्दनमूर्छनपातैः कदर्थितो भजति मन्दवीर्यत्वात् ।
सृष्ट्यम्बुजैर्निरोधाल्लब्धाप्यायो न षण्ढः स्यात् ॥१६॥
(७. नियमन) इति लब्धवीर्यः सम्यक्चपलोऽसौ संनियम्यते तदनु ।
फणिनयनाम्बुजमार्कवकर्कोटीचिञ्चिकास्वेदात् ॥१७॥
(८. दीपन) भूखगटङ्कणमरिचैर्लवणासुरीशिग्रुकाञ्जिकैस्त्रिदिनं ।
स्वेदेन दीपितोऽसौ ग्रासार्थी जायते सूतः ॥१८॥
(चारण) इति दीपितो विशुद्धः प्रचलितविद्युल्लतासहस्राभः ।
भवति यदा रसराजश्चार्यो सत्वादि तदा बीजं ॥१९॥
(चारणः: समुख, निर्मुख) पीतक्रियासु पीतं श्वेतं तारक्रियासु मुखं आदौ ।
देयं खल्वे घृष्टो दिव्यौषधिभिः स निर्मुखश्चरति ॥२०॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे रसशोधनात्मको द्वितीयोऽवबोधः ॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP