संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - पूर्वाषाढा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथाशीतितमोऽध्यायः ८०

शिव उवाच ॥

अयोध्याया महादेवि वसिष्ठस्यैव चाश्रमे । श्रीधनेश्वरशर्मेति ब्राह्मणो वसति प्रिये ॥१॥

स पंडितो गुणज्ञश्च धनी मानी विचक्षणः । पतिव्रता च तस्य स्त्री पतिसेवासु तत्परा ॥२॥

पुत्रद्वयं तथा जातं विद्यया स तु जीवति । भागिनेयस्ततो देवि तद्धनेश्वरशर्मणः ॥३॥

तत्र वासार्थमायातः सह पत्न्या वरानने । तीर्थयात्राप्रसंगेन गृहे तस्यावसदि‌द्वजः ॥४॥

मासमेकं स्थितस्तत्र भागिनेयस्ततो मृतः । दष्टः सर्पेण देवेशि कर्मकाण्डं तथा कृतम् ‌ ॥५॥

वर्षमात्रे ततो जाते भागिनेयस्य वै स्त्रियाः । धनेश्वरे महाप्रीतिर्जाता खलु वरानने ॥६॥

भार्यापुत्रविरोधश्च प्रत्यहं जायते तदा । गृहे स्वर्णं च रौप्यं च सर्वं तस्यै न्यवेदयत् ‌ ॥७॥

ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतैर्महाघोरे नरके क्षिप्त ईश्वरि ॥८॥

जमाज्ञया वरारोहे षष्टिवर्षसहस्त्रकम् ‌ ॥९॥

अन्यत्रापि कृतं पापं प्रयागे च विनश्यति । प्रयागे यत्कृतं पापं रामपुर्यां विनश्यति । अयोध्यायां कृतं पापं वज्रलेपो भविष्यति ॥१०॥

नरकान्निःसृतो देवि बकयोनिरजायत । पुनर्दर्दुरयोनिर्वै काकयोनिस्ततोऽभवत् ‌ ॥११॥

पुनर्मानुषयोनिं वै धनधान्यसमन्विताम् ‌ । यातः पुण्यतमे देशे देवगन्धर्वसेविते ॥१२॥

सर्वविद्यासु विख्यातो गुणज्ञो रूपवांस्तदा । पूर्वजन्मनि देवेशि भागिनेयवधूं प्रति । सम्भोगं कृतवान्विप्रः कुक्षिपीडा ततः परम् ‌ ॥१३॥

वंशच्छेदो विशालाक्षि कन्यका बहवस्तथा ॥१४॥

भागिनेयस्य वै द्रव्यं भुक्तं पुत्रयुतं यतः । शरीरे बहुधा पीडा परस्त्रीगमनादनु ॥१५॥

अस्य शांतिं प्रवक्ष्यामि श्रृणु त्वं मम वल्लभे । गृहवित्तषडंशं च पुण्यकार्यं च कारयेत् ‌ ॥१६॥

गायत्रीजातवेदोम्यां जपं वै कारयेत्ततः । दशांशहवनं कृत्वा तर्पणं मार्जनं तथा ॥१७॥

जीर्णोद्धारं वरारोहे कूपं चैव तडागकम् ‌‍ । तद्वदेव च वै कुर्यात् ‌ षष्टिवृक्षावरोपणम् ‌ ॥१८॥

प्रयागे माघमासे तु तुलादानं प्रयात्नतः । धूम्रवर्णां तथा गां वै दद्याद्विप्राय सत्कृताम् ‌ ॥१९॥

एवं कृते वरारोहे पूर्वपापं विशुद्धयति । पुत्रोऽपि जायते देवि वन्ध्यात्वं च प्रशाम्यति ॥२०॥

काकवन्ध्यात्वशान्त्यै वै रवियुक्तां तु सप्तमीम् ‌ । कृत्वा पत्नी वरारोहे सुवर्णं दानमाचरेत् ‌ ॥२१॥

शय्यादानं ततो दद्यान्मृतवत्सा सुपुत्रिणी । सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥२२॥

इति कर्मविपाकसंहितायां अशीतितमोऽध्यायः ॥८०॥

अथैकाशीतितमोऽध्यायः ८१

शिव उवाच ॥

कर्णाटके शूभे देशे पुरं च शिवसंज्ञकम् ‌ । वसन्ति तत्र बहवो वैश्याः पण्योपजीविनः ॥१॥

तन्मध्ये वैश्य एको हि धरणीकरविश्रुतः । तस्य रूपवती भार्या सुन्दरी बहुसम्मता ॥२॥

व्यापारेण महादेवि धनं च बहु संचितम् ‌ । ततो बहुदिने जाते तस्य मित्रं द्विजोऽप्यभूत् ‌ ॥३॥

ब्राह्मणःसोऽपि वै भ्रष्टः कष्टं भुक्त्वा दिनेदिने । स्वर्णं शतपलं देवि हीरकं मौक्तिकं तथा ॥४॥

स्थापितं ब्राह्मणद्रव्यं स्वगृहे मित्रकारणात् ‌ । ततो वृद्धे तु वै जाते वैश्यमृत्युरभूतपुरा ॥५॥

पश्चात् ‌ पत्नी मृता तस्य व्रतिनी गर्ववर्जिता ॥६॥

वैश्यस्यैवाभवत् ‌ स्वर्गो दिव्यवर्षसहस्त्रकम ‌ । पत्न्या सहा वरारोहे भुक्त्वा स्वर्गफलं ततः ॥७॥

काकयोनिं ततो लेभे चक्रवाकस्ततोऽभवत् ‌ । हंसयोनिस्ततो जातो मानुषत्वं ततोऽलभत् ‌ ॥८॥

पूर्वसंबन्धतः पत्नी पुण्यात्पातिव्रतादपि । पुनर्विवाहिता देवि न पुत्रं सा व्यजीजनत् ‌ ।

वन्ध्या जाता तु सा नारी दुःखिता चाप्यहर्निशम् ‌ ॥९॥

तस्य देहे भवेद्वयाधिः कफवातसमन्वितः । धनाढयो बहुधा कन्या जायन्ते च पुनः पुनः ॥१०॥

अस्य निग्रहहेत्वर्थं श्रृणु यत्नं वरानने । यद्‌गृहे वित्तमर्धं हि ब्राह्मणाय समर्पयेत् ‌ ॥११॥

ॐ लक्ष्म्यै नमो मन्त्रेण दशायुतजपं ततः । द्शांशहवनं तद्वत्तर्पणं मार्जनं तथा ॥१२॥

गामेकां कृष्णवर्णां वै स्वर्णश्रृङ्रीं सवत्सकाम् ‌ । ब्राह्मणाय ततो दद्यान्मुक्तालांगूलग्रन्थिताम ‌ ॥१३॥

भोजयेत ‌ परमान्नेन ब्राह्मणान्वेदपारगान् ‌ । शतं वा द्विशतं देवि त्रिशतं वा विशेषतः ॥१४॥

पलशतं सुवर्णस्य वेदीं कृत्वा विचक्षणः । तन्मध्ये च द्विजस्यैवाकृतिं रौप्यस्य कारायेत् ‌ ॥१५॥

पूजयेच्चैव देवेशि मन्त्रेणैवं पुनः पुनः ॥१६॥

ब्रह्मस्त्वं कपिलो विष्णुः सर्वसाक्षी जगन्मयः । ममापराधं देवेश क्षम्यतां पूर्वजन्मनः ॥१७॥

द्र्व्यं मित्रस्य भो देवि स्थापितं स्वगृहे मया । न दत्तं वै मयाऽज्ञानात्क्षम्यतां परमेश्वर ॥१८॥

मन्त्रेणानेन देवेशि पूजनं विधिपूर्वकम् ‌ । पूजयित्वा ततो देवि ब्राह्मणाय प्रदापयेत् ‌ ॥१९॥

एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते ॥२०॥

काकवन्ध्या पुनर्देवि कन्यकाजननी तथा । पुत्रं प्रसूयते देवि नच कन्या प्रसूयते ॥२१॥

मृतवत्सा लभेत्पुत्रं चिरञ्जीविनमुत्तमम ‌ । व्याधयः संक्षयं यान्ति नात्र कार्या विचारणा ॥२२॥

इति कर्मविपाकसंहितायां एकाशीतितमोऽध्यायः ॥८१॥

अथ द्वयशीतितमोऽध्यायः ८२

श्रीशिव उवाच ॥

अंतर्वेदे विशालाक्षि लोध्रो वसति पुण्यकृत् ‌ । गंधर्वपुरविख्याते नगरे यमुनातटे ॥१॥

स भाग्यवान् ‌ गुणज्ञो हि बहु भृत्यैः सुपूजितः । भूपतिस्तस्य देशस्य दाता भोक्ता विचक्षणः ॥२॥

ब्राह्मणाय ह्रता भूमिरज्ञानाद्वा सुरेश्वरि । ब्राह्मणोऽपि विषं भुक्त्वा मृतस्तस्योपरि प्रिये ॥३॥

ततो बहुगते काले तस्य मृत्युरभूत्पुरा । यमदूतैर्महाघोरे कुंभीपाके निपातितः ॥४॥

यमाज्ञया वरारोहे युगमेकं पपाच वै । महादुःखेन सन्तप्तो बहु कष्टं प्रलब्धवान् ‌ ॥५॥

नरकापन्निःसृतो देवि सूकरत्वं स्म जायते । ऋक्षयोनौ ततो भूत्वा शुकयोनिं ततोऽलभत् ‌ ॥६॥

पुनर्मानुषयोनिं वै मध्यदेशे वरानने । धनधान्यसमायुक्तो वंशहीनो वरानने ॥७॥

पूर्वजन्मनि देवेशि ह्रता भूमिर्वरानने । ब्राह्मणौ वै मृतः पूर्वं तदुद्देशेन वै शिवे ॥८॥

अतः पुत्रविहीनोऽयं बहुकन्याप्रजोऽभवत् ‌ । महारोगेण सन्तप्तो मृतवत्सः पुनः पुनः ॥९॥

अस्य शान्तिमहं वक्ष्ये पूर्वपापस्य शान्तये । गायत्रीजातवेदोम्यां त्र्यम्बकेण वरानने ॥१०॥

दशायुतं जपः कार्यः प्रतिमंत्रैः सुरेश्वरि । दशांशं हवनं तद्वत्तर्पणं मार्जनं तथा ॥११॥

दानं च दशवर्णाया शतब्राह्मणभोजनम् ‌ । भूमिदानं ततः कुर्याच्छतविग्रहमानकम् ‌ ॥१२॥

पलं पश्चसुवणस्य ब्राह्मणाय तथाऽऽकृतिम् ‌ । पूजयित्वा यथान्यायं ब्राह्मणाय प्रदापयेत् ‌ ॥१३॥

प्रयागे मकरे मासि पत्न्या सह वरानने । स्त्रानं कुर्याच्च देवेशि पूर्वपापं व्यपोहति ॥१४॥

एवं कृते वरारोहे पुत्रो जातः स वै शिवे । वंध्यात्वं नाशमायाति काकवन्ध्या च गुर्विणी ॥१५॥

मृतवत्सा लभेत्पुत्रं चिरंजीविनमुत्तमम ‌ । रोगाः सर्वे क्षयं यान्ति नात्र कार्य विचारणा ॥१६॥

इति कर्मविपाकसंहितायां द्वयशीतितमोऽध्यायः ॥८२॥

अथ त्र्यशीतितमोऽध्यायः ८३

शिव उवाच ॥

अयोध्यायां विशालाक्षि मालाकारोऽवसत् ‌ पुरा । साधुवृत्तिरतः श्रीमान्ब्राह्मणानां च सेवक ॥१॥

तस्य पत्नी महादुष्टा कुलटा व्यभिचारिणी । माल्यं कृत्वा विशालाक्षि जीवयामास बान्धवान् ‌ ॥२॥

तस्य मित्रं द्विजोऽप्येकः स्वर्णलक्षद्वयं तथा । स्थापितं स्वगृहे देवि गताश्च बहुवासराः ॥३॥

तेन स्वं याचितं द्र्व्यमर्धं प्राप्तं तदा प्रिये । तदर्धं च व्ययं यातं मालाकारस्य वै गृहे ॥४॥

एवं बहुगते काले मालाकारो मृतः पुरा । अयोध्यायां विशालाक्षि स्वर्गस्तस्याभवत्किल ॥५॥

लक्षवर्षं वरारोहे भुक्तं स्वर्गफलं शुभम् ‌ । ततः पुण्यक्षये जातो मानुषत्वं भवेत्पुनः ॥६॥

मध्यदेशे च देवेशि पुत्रकन्याविवर्जितः । तस्य पत्नी पुनर्देवि या स्थिता पूर्वजन्मनि ।

विवाहिता च सा देवि व्याधियुक्ता ज्वरातुरा ॥७॥

अस्य शान्तिं वरारोहे श्रृणु मे परमेश्वरि । षडंगं पाठयेन्नित्यं शिवपूजनपूर्वकम् ‌ ॥८॥

षडक्षरेण मन्त्रेण लक्षजाप्यं वरानने । हवनं तद्द्शांशेन मार्जनं तर्पणं तथा ॥९॥

श्रृणुयान्मासमेकं तु चण्डिकाचरितत्रयम् ‌ ॥ ततः षडंशं देवेशि ब्राह्मणाय समर्पयेत् ‌ ॥१०॥

ततो गां कपिलां दद्यात्तिलधेनुं सुपूजिताम् ‌ । अश्वदानं विशालाक्षि महिषीं दुग्धुसंयुताम् ‌ ॥११॥

सुवर्णस्य कृतं वृक्षं फलपुष्पसमन्वितम् ‌ । दद्याद्दशपलस्यैवं ततः पुत्रः प्रजायते ॥१२॥

मृतवत्सा च नारी या काकवन्ध्या च रोगिणी । सर्वासां वाञ्छितं कार्यं जायते नात्र संशयः ॥१३॥

इति कर्मविपाकसंहितायां त्र्यशीतितमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP