TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - आश्लेषा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


आश्लेषा नक्षत्र में उत्पन्न होने वालों का प्रायश्वित्त

अथ षट्‌त्रिंशोऽध्यायः ३६

श्रीशिव उवाच ॥

अथातः संप्रवक्ष्यामि श्रृणु देवि सुशोभने । जातस्य सार्पनक्षत्रे प्रथमे चरणे शुभे ॥१॥

पुरी काशी समाख्याता त्रैलोक्ये देवि पूजिता । तस्यास्तु पश्चिमे भागे क्रोशे पंचद्शे मिते ॥२॥

माण्डव्यस्य पुरं शुभ्रं वसन्ति बहवो जनाः । तन्मध्ये शूद्र एको हि प्राकरोल्लवणं सदा ॥३॥

डिण्डिभेति समाख्यातो गौरी तस्य वराङ्रना । प्रचुरं संचितं तेन न दानं क्रियते क्वचित् ‌ ॥४॥

एकदा दैवयोगेन ब्राह्मणानां निमन्त्रणम् ‌ । भोजनं प्रददौ प्रीत्या दक्षिणां चापि दत्तवान् ‌ ॥५॥

गामेकां कपिलां दत्त्वा भूषितां च पुरोधसे । ब्राह्मणो जल्पते कश्चिच्छूद्रं प्रति तदा प्रिये ॥६॥

अहं ग्रामस्य वै पूज्यो मदीयां गां कथं प्रभो । पुरोधसे दत्तवांस्त्वं प्राणं ते च ददाम्यहम् ‌ ॥७॥

इति श्रुत्वा वचस्त्स्य स शूद्रो ब्राह्मणं प्रति । क्रोधेन महता देवि वृत उत्तरमुक्तवान् ‌ ॥८॥

तस्य क्रोधेन विप्रस्य क्रोधतश्च वरानने । मरणं तस्य वै जातं तस्योपरि विषेण वै ॥९॥

ततो बहुतिथे काले लवणकारस्य भार्यया । मरणं तस्य वै जातं कुम्भीपाके तदा खलु ॥१०॥

निक्षिप्य यमदूतेन तत्रैव च यमाज्ञया । पंचलक्षं ततो वर्षं कष्टं दत्तं मुहुर्मुहुः ॥११॥

तत्र जाता महापीडा नरकान्निःसृतस्ततः । सर्पस्य योनिं यातो वै गृध्रयोनिस्ततोऽभवत् ‌ ॥१२॥

मानुषत्वं ततो लब्धं मध्य देशे वरानने । पूर्वपापाच्च भो देवि पुत्रो नैव प्रजायते ॥१३॥

शरीरे रोग उत्पन्नो ब्रह्मदोषाद्वरानने । प्रायश्चित्तं प्रवक्ष्यामि पूर्वकिल्बिषशान्तये ॥१४॥

गायत्रीसूर्यमन्त्राम्यां पश्चलक्षजपं शिवे । विधिवत्कारयामास तदा वै वरवर्णिनि ॥१५॥

होमं वै कारयामास कुण्डे चाष्टद्ले तथा ॥ दशांशं तर्पणं तस्य मार्जनं तद्दशांशतः ॥१६॥

प्रतिमां कारयामास सुवर्णस्य महेश्वरि । षट्‌पलस्य प्रयत्नेन पूजयित्वा यथाविधि ॥१७॥

मन्त्रेणानेन विधिना गन्धधूपादिभिस्तथा । दुर्गे देवि नमस्तुम्यं सर्वसिद्धिप्रदेश्वरि ॥१८॥

इमां पूजां गृहीत्वा तु मम कार्य प्रसाधय । ॐ हीं माहेश्वर्यै नमः ॥ ॐ दुं दुगांये नमः ॥ ॐ सर्वकामप्रदे तुम्यं नमः ॥ ॐ ईश्वार्यै नमः ॥ ॐ त्र्यम्बकाय नमः ॥ विष्णवे नमः ॥ ॐ सर्वेश्वराय नमः ॥ ॐ भैरवाय नमः ॥ ॐ मार्तण्डाय नमः ॥ ॐ पवनसुताय नमः ॥ एतैश्व दशभिर्मन्त्रैः प्रतिमां पूजयेत्प्रिये । ब्राह्मणाय ततो दद्याद्भक्तियुक्तेन चेतसा ॥१९॥

पंचपात्रं ततो दद्यात्तदुद्देशेन पार्वति । तिलदानं ततो दद्याद्वस्त्रदानं यथाविधि ॥२०॥

कूष्माडं नारिकेरं च पंचरत्नसमन्वितम् ‌ । गङ्रामध्ये प्रदातव्यं पूर्वपापप्रशान्तये । रोगात्प्रमुच्यते देवि वन्ध्यापि पुत्रमाप्रुयात् ‌ ॥२१॥

इति कर्मविपाकसंहितायां षट्‌त्रिंशोऽध्यायः ॥३६॥

अथ सप्तत्रिंशोऽध्यायः ३७

शिव उवाच ॥

अलर्कस्य पुरे देवि शूद्र एकोऽवसत्पुरा । शूद्राचाररतो नित्यं विक्रयं कुरुते सदा ॥१॥

गोमहिष्यादिव्यापारैर्व्ययं कुर्याद्दिने दिने । गोधानानि बहून्यासंस्तेषां रक्षा न जायते ॥२॥

विख्यातो दुर्लभ इति महाजानी सदाऽवसत् ‌ । एकदा तस्य गोवृन्दं वने तिष्ठति भोऽनघे ॥३॥

महावृष्टिस्तत्र जाता गावश्च पीडिता भृशम् ‌ । तन्मध्ये बहवो गावो वर्षणेन मृताः पुरा ॥४॥

रक्षां शूद्रो न कुरुते तृणैराच्छादनादिभिः । एवं बहुगते काले शूद्रस्य मरणं तदा ॥५॥

नरके पातयामास यमदूतो यमाज्ञया । बहुवर्षसहस्त्राणि भुक्त्वा नरकजं फलम ‌ ॥६॥

नरकान्निर्गतो देवि गजयोनिमवाप्तवान् ‌ । गजयोनिं ततो भुक्त्वा मानुषश्चाभवत्ततः ॥७॥

स्वकर्मणः परित्यागं कृतवान् ‌ यद् ‌ वरानने । ततः कर्मफलाद्देवि नैव पुत्रः प्रजायते ॥८॥

गोसहस्त्रं तु यत्पूर्वं मृतं वृष्टिजलेन वै । तेन पापेन भो देवि तस्य व्याधिरभून्महान ‌ ॥९॥

कृतं दानं पुरा देवि सर्वपर्वणि चाञ्जसा । तेन पुण्येन भो देवि धनधान्यगजादिकम् ‌ ॥१०॥

तस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । ब्राह्मणाय दशांशं च दानं दद्यात् ‌ सुरप्रिये ॥११॥

गायत्रीलक्षजाप्येन जपं कुर्यात्प्रसन्नधीः । दशांशं हवनं देवि मार्जनं तर्पणं तथा ॥१२॥

दशवर्णां ततो दद्याद्‌ब्राह्मणाय वरानने । एवं कृते न संदेहो वरः पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥

इति कर्मविपाकसंहितायां सप्तत्रिंशोऽध्यायः ॥३७॥

अथाष्टात्रिंशोऽध्यायः ३८

शिव उवाच ॥

गंगाया उत्तरे कूले मालाकारोऽवसत्पुरा । डेलचन्द्रेति विख्यातो महाज्ञानी गुणाकरः ॥१॥

स्वकर्मनिरतो नित्यं द्विजसेवासु तत्परः । तस्य पत्नी विशालाशी नाम्रा चन्द्रावती शुभा ॥२॥

गुरुदास इति ख्यातो वर्णधर्मसुनिष्ठितः । वैश्य एकः समाख्यातो धनधान्यसमन्वितः ॥३॥

तयोः प्रीतिरमूद्देवि सुदृढा वैश्यशूद्रयोः । वैश्येन तस्मै भो देवि स्वर्णं दत्तं तदा बहु ॥४॥

लक्षत्रयं स्थितं स्वर्णं तस्मै वैश्येन चार्पितम् ‌ । मालाकारेण तत्सर्वं भूमौ स्थाप्य तदा प्रिये ॥५॥

स्वयं जगाम वैश्येन सार्द्धं वेण्यां तदा प्रिये । माघे नियमतः स्त्रानं कृतं ताम्यां यथाविधि ॥६॥

शूद्रस्तु गृहमागच्छद्वैश्यः काश्यां समागतः । तत्र काश्यां विशालाक्षि मरणं तस्य चाभवत् ‌ ॥७॥

अविमुक्ते महातीर्थे देवदानवपूजिते । मम पार्श्चे समायातो धर्मक्षेत्रप्रभावतः ॥८॥

मालाकारस्तु तत्स्वर्णं भुक्तवान्दारसंयुतः । बुहुवर्षगते काले मरणं तस्य चाभवत् ‌ ॥९॥

तदा गन्धर्वनगरे बहुवर्षसहस्त्रकम् ‌ । पत्न्या सह वरारोहे भुक्तं वै स्वर्गजं फलम् ‌ ॥१०॥

ततो बहुगते काले मानुषत्वमवाप्तवान् ‌ । धनाढयो गुणवान् ‌ भोक्ता देवब्राह्मणतत्परः । तस्य पत्नी विशालीक्षी पूर्वजन्मप्रसंगतः ॥११॥

पुनर्विवाहिता देवि पतिसेवासु तत्परा । पुष्पं च जायते देवि मासि मासि निरन्तरम् ‌ ॥१२॥

पुत्रो न जायते देवि कन्यका खलु जायते । यतो वैशस्य वै स्वर्णं न द्त्तं पूर्वजन्मनि ॥ तत्कर्मणः फलाद्देवि पुत्रो नैव प्रजायते ॥१३॥

तस्य शांतिं प्रवक्ष्यामि श्रृण देवि यथार्थतः । गृहद्रव्यषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१४॥

स्वर्णैर्दशपलैश्चैव वैश्यं कृत्वा प्रयत्नतः । पूजयित्वा विधानेन ब्राह्मणाय प्रदापयेत् ‌ ॥१५॥

षडङ्रजातवेदोम्यां जपं वै पाठयेत्ततः । जीर्णोद्धारं ततो देवि वापिकाकूपयोश्चरेत् ‌ ॥१६॥

एवं कृते न संदेहः पुत्रो भवति नान्यथा । रोगस्तस्य निवर्तेत धनं च बहु जायते ॥१७॥

इति कर्मविपाकसंहितायां अष्टात्रिंशोऽध्यायः ॥३८॥

अथैकोनचत्वारिंशोऽध्यायः ३९

श्रीशिव उवाच ॥

अयोध्यानगरी श्रेष्ठा सर्वदेवसुपूजिता । यस्यां प्रवेशमात्रेण सर्वपापैः प्रमुच्यते ॥१॥

तस्यास्तु पश्चिमे देवि योजनद्वयदूरतः । पुरं लक्ष्मण नामैकं वसन्ति बहवो जनाः ॥२॥

तन्मध्ये शूद्र एको हि कैवर्तो धनधान्यवान् ‌ । डालेति नाम्रा विख्यातस्तस्य पत्नी च केशवी ॥३॥

तेन व्यापारतो देवि धनं बहु च संचितम् ‌ । मात्स्यं प्रभुज्यते नित्यं मांसं च बहुधा प्रिये ॥४॥

निर्दयः सर्वजन्तूनां कच्छपानां विशेषतः । एवं बहुगते काले तस्य मृत्युरभूत्किल ॥५॥

यमदूतैर्महाघोरे निक्षिप्तश्च यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्त्वा नरकयातनाम ‌ ॥६॥

नरकान्निःसृतोदेवि दर्दुरत्वं तथा गतः । ऋक्षत्वं च ततो देवि मानुषत्वं ततोऽलभत् ‌ ॥७॥

पाण्डुरोगेण संयुक्तो वंशो नैव तु जीवति । संजाताः कन्यका बह्वयो विधवा व्यभिचारिकाः ॥८॥

अपत्यानां निरोधश्च युवत्वसमये सति । अस्य पुण्यं प्रवक्ष्यामि यथा पापात्प्रमुच्यते ॥९॥

षडंशं ब्राह्मणे दानं श्रीविष्णोः पूजनं तथा । विष्णोरराटमंत्रेण लक्षजाप्यं च कारयेत् ‌ ॥१०॥

एवं कृते न संदेहो वंशो भवति नान्यथा । रोगाश्च विलयं यान्ति नात्र कार्या विचारणा ॥११॥

इति कर्मविपाकसंहितायां एकोनचत्वारिंशोऽध्यायः ॥३९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:33:13.8130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

होमिओपाथी

  • स्त्री. समचिकित्सा शास्त्र ; एक रोगचिकित्सापध्दति . ज्या पदार्थानें शरीरांत रोगलक्षणें उत्पन्न होतात तोच पदार्थ अति सूक्ष्म प्रमाणांत त्या रोगावर योजावयाची पध्दति . ( इं . ) 
RANDOM WORD

Did you know?

देवाचे तीर्थ ग्रहण करण्यासंबंधी शास्त्रीय संकेत कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,751
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 325,781
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.