संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - उत्तराफाल्गुनी नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथाष्टचत्वारिंशोऽध्यायः ४८

उत्तराफल्गुनीनक्षत्रफलम ‌

शिव उवाच ॥

अयोध्यानगरे देवि वैश्योऽवात्सीत्सुरेश्वरि । स्वकर्मनिरतो दान्तो विष्णुभक्तिपरायणः ॥१॥

धनधान्यसमायुक्तो विप्रसेवासु तत्परः । पत्नी तस्य वरारोहे सुन्दरी च पतिव्रता ॥२॥

कश्चिन्मित्रं प्रियस्तस्य ब्राह्मणो वेदपारगः । प्रत्यहं निकटे तस्य बहु स्वर्णमुपार्जितम् ‌ ॥३॥

ब्राह्मणोऽप्यात्मनः स्वर्णं ददौ वैश्याय वै शिवे । तीर्थयात्राप्रसंगेन वाराणस्यां गतः स वै ॥४॥

गत्वा काश्यां वरारोहे शरीरं ब्राह्मणोऽत्यजत् ‌ । वैश्येन सर्वं तद्‌द्रव्यं भुक्तं बहुदिनोपरि ॥५॥

शरीरं चात्यजद्देवि पुण्यतीर्थे स्त्रिया सह । अयोध्यायां विशालाक्षि स्वर्गवासं तथाऽक्षयम् ‌ ॥६॥

दशपश्चयुगं भुक्त्वा फलं चैव मनोहरम् ‌ । ततः पुण्यक्षये जाते मृत्युलोके सुरेश्वरि ॥७॥

कुले महति वै पूज्ये नरजन्म ततोऽभवत् ‌ । धनधान्यसमायुक्तो विष्णुपूजासु तत्परः ॥८॥

ब्राह्मणस्यैव स्वर्णं हि न दत्तं वै गृहीतवान् ‌ । तस्मात्खलु वरारोहे पुत्रस्तस्य्य न जायते ॥९॥

शरीरेच महाकष्टं मध्ये प्रजायते । तस्य चोत्तरफल्गुन्याः प्रथमे चरणे शुभे । जन्म चैवाप्यमूद्देवि पुत्रकन्याविवर्जितः ॥१०॥

अस्य पापस्य वै शान्तिं पुण्यं श्रृणु वरानने ॥११॥

हरिवंशश्रवणं कुर्याद्वारमेकं च तत्परः । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१२॥

गायत्रीमूलमन्त्रेण दशायुतजपं तथा । होमं च तद्दशांशेन तर्पणं मार्जनं तथा ॥१३॥

दशवर्णा प्रदातव्या स्वर्णयुक्ता सदंबरा । भूमिदानं ततो देवि विप्राय विदुषे प्रिये ॥१४॥

व्रतं सूर्यस्य वै कुर्यात्पत्न्या सह वरानने ॥१५॥

कूष्माण्डं नारिकेरं च पश्चरत्नसमन्वितम ‌ । गङ्रामध्ये प्रदातव्यं सुवर्णं दक्षिणां ततः ॥१६॥

शय्यादानं प्रयत्नेन प्रकुर्यान्नियतेन्द्रियः । एवं कृते न सन्देहः सर्वरोगो विनश्यति ॥१७॥

अपुत्रो लभते पुत्रं काकवन्ध्या सुतं लभेत् ‌ । मृतवत्या सुतं सूते चिरजीविनमुत्तमम ‌ ॥१८॥

इति कर्मविपाकसंहितायां अष्टचत्वारिंशोऽध्यायः ॥४८॥

अथैकोनपश्चाशत्तमोऽध्यायः ४९

शिव उवाच ॥

पुरुषोत्तमपुरे रम्ये स्वर्णकारोऽवसत्पुरा । स्वकर्मनिरतो नित्यं हेमकृत्यविचक्षणः ॥१॥

ब्राह्मणस्तस्य वै मित्रं धनाढयो वेदवर्जितः । तेन विप्रेण भो देवि स्वर्णं दत्तं शतं पलम् ‌ ॥२॥

स्वर्णकाराय मित्राय माल्याय च विचक्षणे । ब्राह्मणाय न दत्तं हि माल्यं दिव्यं वरेऽनघे ॥३॥

ब्राह्मणस्याभवन्मृत्युः किश्चित्काले गते सति । स्वर्णं तत्स्वेच्छया भुक्तं पुत्रदारयुतेन च ॥४॥

ततो बहुगते काले स्वर्णकारस्य वै शिवे । मरणं वै तदा जातं पुत्रदारयुतस्य च ॥५॥

महाकटाहनरके दूतैः क्षिप्तो यमाज्ञया । युगमेकं वरारोहे भुक्तं नरकजं फलम् ‌ ॥६॥

नरकान्निर्गतो देवि व्या घ्रयोनिस्ततोऽभवत् ‌ । व्याघ्रयोनिं ततो भुक्त्वा श्रृगालस्तु ततोऽभवत् ‌ ॥७॥

ततः काकस्य वै योनिं भुक्त्वा नरकमाप्तवान् ‌ । देशे पुण्यतरे देवि मानुषत्वं सुरेश्वरि ॥८॥

पूर्वजन्मनि यत्स्वर्णं ब्राह्मणस्य ह्रतं प्रिये । तेन पापेन भो देवि पुत्रो नैव प्रजायते ॥९॥

गर्भस्त्रावी भवेन्नारी काकवन्ध्या च जायते । अस्य पापस्य वै शान्तिं श्रृणु देवि सुशोभने ॥१०॥

षडंशं च ततो दानं ब्राह्मणाय समर्पयेत् ‌ । दशायुतजपं कुर्याद्‌गायत्र्या नियमेन च ॥११॥

हरिवंशश्रवणं देवि संकल्प्य श्रद्धया युतम् ‌ । होमं वै कारयेद्देवि स्वर्णदानं शतं पलम् ‌ ॥१२॥

गोदानं विधिवत्कुर्याच्छिवपूजनमेव च । एवं कृते न संदेहः शीघ्रं पुत्रमवाप्स्यति ॥१३॥

मृतवत्सा लभेत् ‌ पुत्रं चिरजीविनमुत्तमम् ‌ । काकवन्ध्या प्रसूयेत सत्यमेव न संशयः । रोगात्प्रमुच्यते शीघ्रं ज्वरः सर्वः क्षयं व्रजेत् ‌ ॥१४॥

इति कर्मविपाकसंहितायां एकोनपश्चाशत्तमोऽध्यायः ॥४९॥

अथ पश्वाशत्तमोऽध्यायः ५०

श्री शिव उवाच ॥

पुरे वै पट्टने देवि तैलकारोऽवसत्पुरा । महाधनाढयो वै देवि कोटिद्रव्येण संयुतः ॥१॥

तस्य च स्त्रीद्वयं चासीज्ज्येष्ठायै वै विषं ददौ । कनिष्ठा च गृहे तस्य गृहिणी धर्मचारिणी ॥२॥

एवं बहुगते काले तैलकारस्या वै शिवे । मरणं तस्य वै जातं यमदूतैर्यमाज्ञया ॥३॥

महाकटाहे नरके निक्षिप्तश्च सुदारुणे । तत्रापि बहुधा पीडा नानानरकयातना ॥४॥

त्रिंशत्सहस्त्रं वै वर्षं तीव्रदुःखमजायता । भुक्तं नरकजं दुःखं योनिं सर्पस्य वै शिवे ॥५॥

गृध्रत्वं कुक्कुटत्वं वै द्वे योनी च तदा गतः । मानुषस्य च वै योनौ जातः खलु वरानने ॥६॥

धनधान्यसमायुक्तो गुणज्ञो ज्ञानवानपि ॥७॥

ततो वै तस्य मरणं गंगायां देवि जायते । तत्फलेन महादेवि मानुषो धनवानभूत् ‌ ॥८॥

तैलकारश्चयत्पूर्वं ज्येष्ठायै च विषं ददौ । तत्पापेनैव भो देवि पुत्रो नैव प्रजायते । बहुरोगेण संयुक्तो भार्या कष्टयुता सदा ॥९॥

अथ शान्तिं प्रवक्ष्यामि श्रृणु देवि सविस्तराम् ‌ । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ ॥१०॥

गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् ‌ । हवनं तद्दशांशेन मार्जनं तर्पणंज तथा ॥११॥

त्र्यम्बकेति च मन्त्रेण दशायुतजपं पुनः । दशवर्णादानमथ कूष्मांडं रत्नसंयुतम ‌ । काश्यां वै ग्रहणे दद्यात्पत्न्या सार्धं वरानने ॥१२॥

कार्तिके माधवे माघे प्रातः स्त्रानं समाचरेत् ‌ । तिलधेनुं ततो दत्वा सद्यः पापात्प्रमुच्यते ॥१३॥

एवं कृते न संदेहो वंशलाभो भवेद् ‌ ध्रुवम् ‌ । कन्यकाजननी चापि सापि पुत्रवती भवेत् ‌ ॥१४॥

मृतवत्सा लभेत्पुत्रं चिरंजीविनमुत्तमम ‌ । रोगात्प्रमुच्यते शीघ्रं ज्वरो नैव प्रजायते ॥१५॥

इति कर्मविपाकसंहितायां पश्वाशत्तमोऽध्यायः ॥५०॥

अथैकपञ्चाशत्तमोऽध्यायः ५१

शिव उवाच ॥

गयापुर्यां पुरा देवि ब्राह्मणो वसति प्रिये । वेदर्मपरिभ्रष्टो मद्यपानरतः सदा ॥१॥

स्तेयवेश्यासु संसगीं स प्रतिग्रहवानपि । वयः सर्वं गतं देवि वृद्धे जाते मृतः स वै ॥२॥

यमदूतो महाघोरे कटाहनरकेऽक्षिपत् ‌ । लक्षत्रयमितं देवि भुक्तं नरकजं फलम् ‌ ॥३॥

चाणूरस्य कुले जन्म ततः प्रेतो ह्यभूत् ‌ पुरा । बिडालत्वं ततो यातः फलगुतीर्ये मृतः स वै ॥४॥

पुनर्मानुषयोनिश्च मध्यदेशे सुरेश्वरि । कन्यकाजननी भार्या शरीरे सततं ज्वरः ॥५॥

चित्तोद्विग्नः सदा देवि बहुदुःखेन पीडितः । अस्य शांतिं श्रृणुष्वादौ यतः पापक्षयो भवेत् ‌ ॥६॥

केशवस्यार्चनं चादौ साधूनां सेवनं यदा । ब्राह्मणे दृढभक्तिश्च दाने वै भोजने तथा ॥७॥

गां सवत्सां ततो दद्याद्विप्राय प्रतिवत्सरम् ‌ । श्राव्यं च विष्णुमाहात्म्यं हरिवंशश्रवणं तथा ॥८॥

एवं कृते न संदेहो बहुपुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति काकवन्ध्या च पुत्रिणी ॥९॥

इति कर्मविपाकसंहितायां एकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP