संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - मृगशिर नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ विंशोऽध्यायः २०

शिव उवाच ॥

अथ वक्ष्ये महादेवि चंद्रनक्षत्रजं फलम् ‌ । यत्कृतं मानुषैः पूर्वं तच्छृणुष्व वरानने ॥१॥

मध्यदेशे पुरे शुभ्रे वसत्येको द्विजः खलु । बुह्मकर्मरतो नित्यं वेदवेदाङ्रपारगः ॥२॥

प्रत्यहं पाठयामास चतुर्वेदान्सविस्तरान् ‌ । वेदशर्मा द्विजः ख्यातस्तस्य पत्नी सुशीलिका ॥३॥

प्रत्यहं पाठयेद्वेदं जीविकार्यं वरानने । लोहकारोऽभवन्मित्रं तस्य विप्रस्य सुव्रते ॥४॥

स्वर्णं शतपलं देवि स्थापितं लोहकर्मणा । तस्य विप्रस्य भवने मित्रत्वाच्च वरानने ॥५॥

लोहकारस्य मरणं ततः पूर्वं वरानने । न द्त्तं तस्य वै स्वर्णं लोहकारस्य भामिनि ॥६॥

तत्स्वर्णं प्रत्यहं देवि बुभोज सह भार्यया । एवं बहुगते काले मरणं ब्राह्मणस्य वै ॥७॥

सूर्यलोकोऽभवेद्देवि यतः सूर्यस्य सेवकः । विंशद्वर्षसहस्त्राणि सूर्यलोकोऽभवेद्देवि यतः सूर्यस्य सेवकः ।

विंशद्वर्षसहस्त्राणि सूर्यलोकेऽवसत्प्रिये ॥८॥

ततः पुण्याक्षये जाते मर्त्यलोके च मानवः । पुत्रकन्याविहीनस्तु धनधान्यसमन्वितः ॥९॥

लोहकारस्य स्वर्णं हि गृहीतं नैव दत्तवान् ‌ । तेन कर्मविपाकेन लोहकारः सुतोऽभवत् ‌ ॥१०॥

प्रीतिमांश्चैव सर्वेषां पितृमातृप्रियंकरः । पूर्वरूपं समापन्नस्तदा मृत्युर्भवेदनु ॥११॥

पुनः पुत्रस्य चाभावः कन्यका नैव जायते । तस्याऽघस्य विशुद्धयर्थं प्रायश्चित्तमतः श्रृणु ॥१२॥

गायत्रीलक्षजाप्येन दुर्गायाः पूजनेन च । दशवर्णाप्रदानेन भूमिदानेन पार्वति ॥१३॥

सर्वं पापं क्षयं याति पूर्वजन्मसमुद्भवम् ‌ । गायाश्राद्धं प्रयत्नेन तदर्थं नियतः प्रिये ॥१४॥

प्रयागे मकरे मासि स्त्रानं कुर्यात्प्रयत्नतः । ततः पापं क्षयं याति पुनः पुत्रश्च जीवति ॥१५॥

रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१६॥

इति कर्मविपाकसंहितायां विंशोऽध्यायः ॥२०॥

अथैकविंशोऽध्यायः २१

शिव उवाच ॥

कान्यकुब्जे शुभे देशे निकटे नन्दने पुरे । बोधशर्मा द्विजश्चासीत् ‌ पुरे तस्मिन्हि निर्धनः ॥१॥

परान्नं भुज्यते नित्यं परप्रेष्यरतः सदा । तस्य पत्नी समाख्याता बाधमा नाम वै पुरा ॥२॥

जन्मतो मरणं यावत्परान्नं भुज्यते च वै । नरके पतनं तेन तयोर्जातं प्रतिग्रहात् ‌ ॥३॥

बहुवर्षसहस्त्राणि प्रवासो नरकेऽभवत् ‌ । नरकान्निः सृतो देवि काकश्चैव मृगोऽभवत् ‌ ॥४॥

पुनर्वै मेषयोनिश्च पूर्वकर्मविपाकतः । ततो वै मानुषो जातो मध्यदेशे वरानने ॥५॥

रोगवान्नृत्यशीलश्च पुत्रकन्याविवर्जितः । परान्नं प्रत्यहं भुंक्ते श्राद्धं नैव कृतं पुरा ॥६॥

अतो वंशस्य विच्छेदः फलं चैव तु पूर्वजम् ‌ । शान्तिं तस्य प्रवक्ष्यामि पूर्वपापक्षयो यतः ॥७॥

गायत्रीजातवेदोभ्यां द्विलक्षं जापयेच्छिवे । ततः पापविशुद्धिः स्याद्दशांशहवनं यदा ॥८॥

मार्जनं देवि कर्तव्यं ब्राह्मणान्भोजयेत्ततः । शतसंख्यान्द्विजाञ्छुद्धानगृहस्थानपि भक्तितः ॥९॥

वृषमेकं प्रदद्यात्तु नीलवर्णविभूषितम् ‌ । एवं कृते न संदेहो रोगनाशो भवेद ‌ ध्रुवम् ‌ ॥ पुत्रस्तु जायते देवि वन्ध्यात्वं च प्रणश्यति ॥१०॥

इति कर्मविपाकसंहितायां एकविंशोऽध्यायः ॥२१॥

अथ द्वाविंशोऽध्यायः २२

शिव उवाच ॥

नर्मदादक्षिणे तीरे पुरीका नाम वै परी । तस्यां पुर्यां विशालाक्षि कुलालो धनवानपि ॥१॥

कुलालकर्मतो देवि बहु द्रव्यमुपार्जितम् ‌ । कर्मचन्द्र इति ख्यातस्तस्य पत्नी च देवकी ॥२॥

स्वकर्मनिरतो नित्यं पात्रं कृत्वा दिनेदिने । एवं सर्वं व्ययं जातं वृद्धत्वं च ततोऽभवत् ‌ ॥३॥

वृद्धे जाते महादेवि दरिद्रत्वमजायत । शूर्पकारस्य वै द्रव्यं व्यवहारे गृहीतवान् ‌ ॥४॥

शतसंख्यमितं स्वर्णं सर्वं कृतं शिवे । कुलालस्याभवन्मृत्युः पत्नी तस्य मृता पुरा ॥५॥

नर्मदायां महादेवि तावुभौ मृत्युमापतुः । तत्तीर्थस्य फलाद्देवि स्वर्गलोकं गतावुभौ ॥६॥

बहुवर्षसहस्त्राणि ताम्यां भुक्तं शुभं फलम् ‌ । ततः पुण्यक्षये जाते मृत्युलोके च जायते ॥७॥

मानुषेऽपि शुभं जन्म धनधान्यंसमन्वितः । पुनर्विवाहिता नारी पूर्वजन्मप्रसङ्रतः ॥८॥

ऋणसंब्रन्धतो देवि पुत्रो जातस्तदा शिवे । शूर्पकारो महादेवि वैरुद्धयं बालतः कृतम् ‌ ॥९॥

प्रत्यहं वसु यल्लब्धं तत्सर्वं च व्ययं तथा । द्यूतवेश्याप्रदानेन धनं सर्वं व्ययं गतम् ‌ ॥१०॥

युवा जातो यदा देवि पुत्रः कन्यासमन्वितः । मरणं तस्य वै जातं पुनः पुत्रो न जायते ॥११॥

अथ शान्तिं प्रवक्ष्यामि श्रृणु सर्वं वरानने । गायत्रीलक्षजाप्येन त्र्यम्बकेन तथा प्रिये ॥१२॥

कर्त्तव्यं कुण्डमुग्रं वै त्रिकोणं विधिवत्प्रिये । होमं च कारयेद्देवि दशांशं तर्पणं ततः ॥१३॥

ततो वै कपिलां दद्याद्धेमश्रृंगीं सहाम्बराम् ‌ । एवं कृत्वा वरारोहे पुनः पुत्रः प्रजायते ॥१४॥

शूर्पकारस्य प्रतिमां पलसप्तदशस्थ तु । सुवर्णस्यैव भो देवि रचितां वस्त्रवेष्टिताम् ‌ ॥१५॥

शूर्पं रौप्यस्य वै कुर्यात्पलषष्टिप्रमाणतः । प्रदद्योद्वेदविदुषे बाह्मणाय सुतेजसे ॥१६॥

तस्योद्देशेन भो देवि ऋणबन्धात्प्रमुच्यते । पुत्रश्च जायते देवि नात्र कार्या विचारणा ॥१७॥

इति कर्मविपाकसंहितायां द्वाविंशोऽध्यायः॥२२॥

अथ त्रयोविंशोऽध्यायः २३

शिव उवाच ॥

अथ वक्ष्याम्यहं देवि चतुर्थचरणं तथा । मृगशिरो नाम नक्षत्रं तस्य पूर्वं च सश्चितम् ‌ ॥१॥

अवंतीपुरतो देवि दक्षिणे क्रोशपश्चके । पुरं तच्चैव विख्यातं केशवं नाम शोभनम् ‌ ॥२॥

वसत्येको हि देवेशि ब्राह्मणो वेदपारगः । किशोरशर्मा विख्यातो मृतगेहे प्रभुज्यते ॥३॥

कष्टेनैव महादेवि व्ययं कुर्याद्दिनेदिने । धनं च बहुधा कृत्वा पुण्यकर्म न कारयेत् ‌ ॥४॥

ततो भ्रातुः कनिष्ठस्य भागं नैव ददाति सः । त्रिकोटिप्रमितं द्रव्यं स्वगृहे चैव सश्चितम् ‌ ॥५॥

द्रव्यस्यैव विभागाय मरणं ब्राह्मणोपरि । कृतं भ्रात्रा कनिष्ठेन द्रव्यं तस्सै न दत्तवान् ‌ ॥६॥

एवं बहुतिथे काले किशोरः स मृतस्तु वै ॥७॥

गतो वै नरके घोरे युगानेकोनविंशतिम् ‌ ॥८॥

पुनः कर्मवशाद्देवि गर्दभत्वं च जायते । वृकयोनिस्ततो जातो मानुषत्वं भवेत्पुनः ॥९॥

मध्यदेशे वरारोहे पुत्रो नैव प्रजायते । कन्यका बहवो गर्भा विनश्यन्ति वरानने ॥१०॥

पूर्वजन्मकृतं कर्म भुज्यते देवि मानवैः । इह लोके वरारोहे पुण्यं पापं च पूर्वजम् ‌ ॥११॥

भ्रातुस्तस्य कनिष्ठस्य मरणं जन्मजन्मनि । तदुद्देशेन भो देवि तस्माद्रोगश्च जायते ॥१२॥

तस्य पापस्य शुद्धिं च श्रृणु देवि प्रयत्नतः । गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् ‌ ॥१३॥

गृहवित्तषडंशं च पुण्यकार्यं च कारयेत् ‌ । गायत्रीजातवेदोम्यां त्र्यम्बकेन तथैव च ॥१४॥

लक्षत्रयं जपं चैव दशवर्णां प्रदापयेत ‌ । हवनं विधिवत्कुर्यात्तर्पणं मार्जनं तथा ॥१५॥

सौदर्णस्य वरारोहे सूर्यं कुर्यात्प्रयत्नतः । पलपश्चप्रमाणेन द्विगुणं चन्द्रमेव च ॥१६॥

रौप्यस्यैव प्रकुर्यात्तु यथाशास्त्रं प्रपूजयेत् ‌ । मन्त्रेणानेन भो देवि दद्याद्विप्राय तद्‌द्वयम ‌ ॥१७॥

ॐ हीं मार्तंडभैरवाय स्वाहा । सूर्यदेव महाभाग त्रैलोक्यतिमिरापह । मम पूर्वकृतं पापं क्षम्यतां परमेश्वर ॥१८॥

ॐ श्रीं सोमाय स्वाहा । सौम्यरूप महादेव मन्त्रराज द्विजोत्तम । मम पूर्वकृतं पापमोषधीश क्षमस्व मे ॥१९॥

ततश्च ब्राह्मणान् ‌ पूज्य भोजयित्वा विसर्जयेत् ‌ । एवं कृते न सन्देहो विद्वान्पुत्रोऽभिजायतोरोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥२०॥

इति कर्मविपाकसंहितायां त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP