संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - पुष्य नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ द्वात्रिंशोऽध्यायः ३२

शिव उवाच ।

पापेन जायते व्याधिः पापेनैवासुतो भवेत् ‌ । पापेन जायते मूर्खः पापेनैव दरिद्रता ॥१॥

पूर्वजन्मकृतं यत्तु पापं वा पुण्यमेव वा । इह जन्मनि भो देवि भुज्यते सर्वदेहिभिः ॥२॥

पुण्येन जायते विद्या पुण्येन जायते सुतः । पुण्ये सुन्दरी नारी पुण्येन लभते श्रियम् ‌ ॥३॥

अथातः संप्रवक्ष्यामि पुष्यनक्षत्रजं फलम् ‌ । तत्सर्वं श्रृणु मे देवि यत्कृतं पूर्वजन्मनि ॥४॥

मध्यदेशे वरारोहे धनाढयो वल्लवोऽवसत ‌ । हंसकेतुरिति ख्यातो भार्या तस्य तु केकयी ॥५॥

बहवो वृषभास्तस्य महिष्यो गास्तथा प्रियोधर्मकर्मरतश्शूद्रो विक्रेता गोवृषादिकम् ‌ ॥६॥

घृतादेश्च वरारोहे विक्रयं कुरुते सदा । एको वैश्यो धनाढयो वै तस्य मित्रं तदाऽभवत् ‌ ॥७॥

महाप्रीतिस्तयोर्जाता बहुवर्षप्रमाणतः । एकदा तु निशायां वै शूद्रेण स वणिक् ‌ प्रिये ॥८॥

सुप्तो रत्नादिलोभेन कुठारेण तदा हतः । द्रव्यं सर्वं गृहीतं तु भूमिमध्ये तथा घृतम् ‌ ॥९॥

तन्मध्येतु षडंशस्य व्ययं कुर्याद्दिनेदिने । बहुवर्षगते काले शूद्रो मृत्युवशोऽभवत् ‌ ॥१०॥

पातयामास घोरे तं यमदूतो यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥११॥

ततो जातो महादेवि राक्षसो गहने वने । पुनः श्रृगालयोनिं च मानुषो ह्यभवत्पुनः ॥१२॥

धनधान्यस्मायुक्तो भार्या जाता तु या पुरा । वन्ध्या रोगसमायुक्ता कन्यका चैव जायते ॥१३॥

तस्य रोगोऽभवत्पश्चाद्विविधश्च वयोऽन्तरे । पूर्वजन्मनि भो देवि मित्रं च निहतं यतः ॥१४॥

तत्पापेन च भो देवि पुत्रो नैवोपजायते । महिषीपुत्रघाताच्च कम्परोगः प्रजायते ॥१५॥

तस्य शांतिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । षडंशं वै ततो दानं विदुषे ब्राह्मणाय च ॥१६॥

गां तथा महिषीं दद्याद्विधिवद्भोजयेद्‌द्विजान् ‌ । गायत्रीजातवेसोम्यां द्विलक्षं चा जपं ततः ॥१७॥

कुण्डे त्रिकोणके चैव होमं वै कारयेत्ततः । जपस्यैव दशांशेन हवनादिकमाचरेत् ‌ ॥१८॥

ततो वै प्रतिमां कुर्याद्वैश्यस्यैव विधानतः । द्वादशेन पलेनैव सुवर्णस्य विशेषतः ॥१९॥

पूजयेत्पूर्वजैर्मंत्रैस्ततो विप्राय दापयेत् ‌ । एवं कृते न संदेहः पुत्रो भवति नान्यथा ॥२०॥

सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥२१॥

इति कर्मविपाकसंहितायां द्वात्रिंशोऽध्यायः ॥३२॥

अथ त्रयस्त्रिंशोऽध्यायः ३३

शिव उवाच ।

अथातः सम्प्रवक्ष्यामि श्रृणु देवि विशेषतः । आदौ पापफलं देवि भुज्यते देवमानुषैः पश्चात्पुण्यफलं देवि परलोक इहापि वा ॥१॥

एकः शिल्पकारो देवि वसते हस्तिनापुरे । हेमदास इति ख्यातो भार्याद्वयसमन्वितः ॥ प्रत्यहं शिल्पकार्यं च करोति व्ययकारणात् ‌ ॥२॥

काशीतः पश्चिमे देवि स्वकर्मनिरतः सदा । अश्वत्थानां च वृक्षाणां छेदनानि चकार सः ॥३॥

एवं बहुगते काले शिल्पकारो मृतः प्रिये । नरके तस्य तस्य पतनं षष्टिवर्षसहस्त्रकम ‌ ॥४॥

पत्नीम्यां सह भो देवि यातो योनि बिडालकीम् ‌ । बिडालयोनिं वै भुक्त्त्वा सरटस्तु ततोऽभवत् ‌ ॥५॥

पुनश्चाभून्नरो देवि मध्यदेशे सुपूजिते । पूर्वजन्मनि वृक्षाणां छेदनं प्रत्यहं कृतम् ‌ ॥६॥

तेन पापेन भो देवि पुत्रो नैवद प्रजायते । कन्यकाश्चैव संजाताः स्त्रियो रोगः सुदारुणः ॥७॥

शरीरे महती पीडा रात्रौ निद्रा न लभ्यते । कन्यकायाश्च वैधव्यं वृक्षच्छेदनतः प्रिये ॥८॥

तस्या शान्तिं प्रवक्ष्यामि ततः पापनिवर्तनम् ‌ । चतुर्थांशं तु वै दानं ब्राह्मणाय प्रदापयेत् ‌ ॥९॥

दशायुतं जपं कुर्याद‌गायत्रीमूलमंत्रतः । हेम्रः पश्चपलस्यैव वृक्षं च कारयेत्ततः ॥१०॥

पूजयित्वा तथान्यायं वृक्षं विप्राय दापयेत् ‌ । पंच धेनूस्तथा दद्याद्वृषभं स्वर्णभूषितम् ‌ ॥११॥

कूष्मांडंनारिकेरं च पंचरत्नसमन्वितम् ‌ । गंगामध्ये तु दातव्यं श्वेतवस्त्रेण वेष्टितम् ‌ ॥१२॥

एवं कृते न संदेहः पुत्रो वै जायते शिवे । सर्वव्याधिः क्षयं याति कन्यका च सुखायते ॥१३॥

इति कर्मविपाकसंहितायां त्रयस्त्रिंशोऽध्यायः ॥३३॥

अथ चतुस्त्रिंशोऽध्यायः ३४

श्रीशिव उवाच ।

मध्यदेशे वरारोहे लोहकारश्च तस्थिवान ‌ ।हेमकारेति विख्यातो विष्णुव्रतरतः सदा ॥१॥

पत्नी तस्य प्रभा नाम पतिशुश्रूणे रता । धनधान्यसमायुक्तो महालोभेन संयुतः ॥२॥

पुरे विख्यातयवनस्तत्र नित्यं स तिष्ठति । गौरेका लोहकारेण बाल्यतः पालिता शिवे ॥३॥

एकस्मिन्दिवसे देवि पङ्के मग्ना च गौर्वरा । तच्छुत्वा लोहकारस्तु न गतस्तत्र वै शिवे ॥४॥

मृता रात्रौ तदा देवि पङ्रे वैतरणी च सा । बहुकालेन भो देवि मरणं तस्य वै गृहे ॥५॥

तस्य पत्नी सती जाता सत्यलोकं गतौ च तौ । दशलक्षमितं वर्षं सत्यलोके च तस्थिवान् ‌ ॥६॥

पुनः पुण्यक्षये जाते मर्त्यलोके तदाऽभवत् ‌ । मानुषः शुभजन्मा च धनधान्यसमन्वितः ॥७॥

पत्न्या सह वरारोहे ब्राह्मणानां च सेवकः । पूर्वजन्मनि देवेशि पङ्रे मग्ना च यत्र गौः ॥८॥

न गतस्तत्र भो देवि तस्मात्पुत्रो न जायते । कन्या जाता पुरा देवि तस्या मृत्युश्च जायते ॥९॥

तदर्थं वाटिकां कूपं पथि मध्ये च कारयेत ‌ । कुर्याच्चैव तुलादानं पात्राणि विविधानि च ॥१०॥

गोयुग्मं घृतकुम्भं च ब्राह्मणाय प्रदापयेत् ‌ । गायत्रीमन्त्रजाप्यं च लक्षमेकं तु कारयेत् ‌ ॥११॥

होमं कुर्यात्ततो देवि तिलधान्यादितण्डुलैः । ब्राह्मणान्भोज्येद्देवि शतसंख्यान्व्वरानने ॥१२॥

एवं कृते वरारोहे पुत्रो भवति नान्यथाअ । वन्ध्यात्वं नाशमायाति व्याधिनाशो भवेद्‌ध्रुवम् ‌ ॥१३॥

इति कर्मविपाकसंहितायां चतुस्त्रिंशोऽध्यायः ॥३४॥

अथ पश्चत्रिंशोऽध्यायः ३५

शिव उवाच ।

अयोध्यानगराद्देवि पूर्वे क्रोशचतुर्दशे । तत्राप्येकोऽवसच्छाककारो वैडम्बराभिधः ॥१॥

चित्रा तस्याभवत्पत्नी पतिसेवापरायणा । शाककारो महासाधुर्विष्णुभक्तिरतः सदा ॥२॥

गुरुसेवारतो नित्यं प्रत्यहं शाकविक्रयी । एका मार्जारिका श्वेता पालिता तेन वै शिवे ॥३॥

सगर्भा तत्र सा जाता वधं तस्याः स चाकरोत् ‌ । चत्वारो बालकास्तस्या मृताः कुक्षौ तदानघे ॥४॥

ततो बहुतिथे काले शूद्रस्य मरणं शिवे । यातो वै तमसातीरे तीर्थे मृत्युर्मम प्रिये ॥५॥

विष्णुभक्तिरतो यस्मात्तीर्थे मृत्युफलादपि । गतोऽसौ परलोकं तु भुक्त्वा स्वर्गे तु वैभवम् ‌ ॥६॥

षष्ठिवर्षसहस्त्राणि पुनः पुण्यक्षयो यदा । तदा वृषभयोनिश्च मर्त्यलोकेऽभवत्पुनः ॥७॥

मानुषत्वं ततो यातो धनधान्यसमन्वितः । सुन्दरो विष्णुभक्तत्वात्पुत्रेण रहितः शिवे ॥८॥

गर्भाणां पतनं जातं यतो मार्जारिका हता । सगर्भा च तदा देवि ततो गर्भो विनश्यति ॥९॥

तस्य शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे वरे । गृहवित्तार्धभागं वै ब्राह्मणाय प्रदापयेत् ‌ ॥१०॥

तदा पापं क्षयं याति नात्र कार्या विचारणा । शिवार्चनं प्रकुर्याद्वै रौप्यमार्जारिकां तथा ॥११॥

कृत्वा शतपलानां वै सगर्भां विमलां शुभाम् ‌ । पूजयित्वा च भो देवि ततो दद्यादि‌द्वजन्मने ॥१२॥

लक्षजाप्यं ततो देवि त्र्यम्बकेण विधानतः । ततो भवति वै शुद्धः पूर्वपापान्न संशयः ॥१३॥

पुत्रो भवति वै देवि रोगाणां संक्षयस्तथा ॥१४॥

इति कर्मविपाकसंहितायां पश्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP