TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

करणकल्पलता - रोहिणी नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


रोहिणी नक्षत्र में उत्पन्न होने बालों का प्रायश्वित्त

अथ षोडशोऽध्यायः १६

महादेव उवाच ॥

अथातः सम्प्रवक्ष्यामि ब्रह्मनक्षत्रजं फलम् ‌ । रोहिण्याः प्रथमे पादे यस्य जन्म च जायते ॥१॥

तस्य कर्म पुरा देवि संचितं संब्रवीम्यहम् ‌ । अन्तर्वेद्यां द्विजः कश्चिद्‌गोपनामावसत्प्रिये ॥२॥

पुण्यकर्मविहीनश्च चौरकर्मरतः सदा । सार्द्ध चौरेण भो देवि बहुद्रव्यमुपार्जितम् ‌ ॥३॥

परस्त्रीलम्पटो देवि स्वभार्यां परिमुच्य च । एवं बहुगते काले कालवश्यस्ततोऽभवत् ‌ ॥४॥

यमाज्ञया यमदूतैर्नरके नाम कर्दमे । वासयामास भो देवि षष्टिवर्षसहस्त्रकम् ‌ ॥५॥

नरकान्निःसृतो देवि कुक्कुटत्वं प्रजायते । ततो यातो महादेवि नरयोनिं च दुर्लभाम ‌ ॥६॥

पाण्डुरोगेण संयुक्तः पुत्रो नैव प्रजायते । वेश्याः कन्याः प्रजायन्ते पुत्रस्य मरणं भवेत् ‌ ॥७॥

तस्योपायं तु वक्ष्यामि तत्सर्वं श्रृणु मे प्रिये । ॐ नमः शिवाय मंत्रेण लक्षजाप्यं च कारयेत् ‌ ॥८॥

पार्थिवं तिलपिष्टेन गोमयेन तथा प्रिये । पूजयामस विधिवद्भक्तियुक्तेन चेतसा ॥९॥

होमं च कारयेद्देवि षडंशं दक्षिणां ततः । आचार्याय सुवर्णं च पूर्व्वपापविशुद्धये ॥१०॥

कूपं खात्वा ततो देवि वाटिकां चैव कारयेत् ‌ । एवं कृते न संदेहो रोगनाशो भवेदनु ॥११॥

कन्यका न भवेद्देवि पुत्रश्चैव प्रजायते । मृतवत्सा लभेत्पुत्रं चिरजीविनमुत्तमम् ‌ ॥१२॥

इति कर्मविपाकसंहितायां षोडशोऽध्यायः ॥१६॥

अथ सप्तदशोऽध्यायः १७

शिव उवाच ॥

द्वितीयचरणे देवि रोहिण्याः श्रृणु विस्तरम् ‌ । गंगाया उत्तरे कूले पुरं वैमानिकं शुभम् ‌ ॥१॥

वासुदेवश्च नाम्रा हि ब्राह्मणो वेदपारगः । लीलावती पवित्रा च तस्य पत्नी शूभा तथा ॥२॥

युवती रूपसंपन्ना स्वैरिणी च सदा प्रिये । बहु द्रव्यं तया लब्धं परपुंसः प्रसंगतः ॥३॥

पापादुपार्जितं द्र्व्यं भुज्यते पतिना सह । गङ्रायां मरणं तस्य विप्रस्य भार्यया सह ॥४॥

स्वर्गवासो हि दम्पत्योः षष्टिवर्षसहस्त्रकम् ‌ । ततः पुण्यक्षये जाते मर्त्यलोके वरानने ॥५॥

धनधान्यसमायुक्तो धर्मे मतिरथाधिका । पुत्राश्च बहवस्तेषां मरणं चैव जायते ॥६॥

कन्यका विविधास्तासां मृत्युश्चैव प्रजायते । पुनश्च तस्य हानिश्च बहुरोगः प्रजायते ॥७॥

तस्य शान्तिं प्रवक्ष्यामि पूर्वजन्मनि । त्र्यंबकेति च मन्त्रेण लक्षजाप्यं च कारयेत् ‌ ॥८॥

देवस्य प्रतिमां कृत्वा पूजयेच्चैव शास्त्रतः । सुवर्णस्य शिवं कुर्यात् ‌ पलपश्चप्रमणाकम् ‌ ।

धूपैर्दीपैश्च नैवेद्यैर्मंत्रेणानेन पूजयेतू ॥९॥

ॐ हौंहींजूंसः हराय नमः इति प्रतिमास्थापनं रौप्यपात्रे । ॐ हौंहींजूंसः पिनाकधृते नमः इति प्रतिमां संस्पृश्यावाहनं च ।

आवाहये महादेवं देवदेवं सनातनम् ‌ । इमां पूजां गृहाण त्वं मम पांप व्यपोहतु ॥१०॥

ॐ हौंहींजूंसः यंरंलंवंशंषंसंहंक्षंसोहं शंकरस्य सर्वेन्द्रियवाङ्रमनश्चक्षुः श्रोत्र घ्राणा इहागत्य इह जीवस्थितिसुखं चिरं तिष्ठन्तु स्वाहा ।

इति प्राण पतिष्ठां विधाय शिवं ध्यायन्पूजयेत् ‌ । ॐ हौंहींजूंसः पशुपतये नमः इति पश्चामृतेन स्त्रानम् ‌ ।

ॐ हौंलींजूंसः शिवाय नमः इति चन्दनादिभिः पूजनम् ‌ । ॐ हौंहींजूंसः महादेवाय नमः इति विसर्जनम् ‌ । गोदानं च ततः कुर्यात्कृष्णां च कपिलां ततः । विप्राय वेदविदुषे सुवर्णदक्षिणां ततः ॥११॥

प्रदक्षिणां ततः कुर्याद्विप्रस्येशानरूपिणः । शतसंख्यद्विजांश्चैव भोजयित्वा विसर्जयेत् ‌ ॥१२॥

प्रयागे मकरे माघे पत्न्या सह वरानने । स्त्रानं कुर्याच्च भो देवि व्रतमेकादशीं चरेतू ॥१३॥

एवं कृते न संदेहो रोगनाशश्च जायते । पुत्रं चापि लभेद्देवि चिरंजीविनमुत्तमम ‌ ॥१४॥

यद्येवं न प्रकुरुते सप्तजन्मस्वपुत्रकः ॥१५॥

इति कर्मविपाकसंहितायां सप्तदशोऽध्यायः ॥१७॥

अथ अष्टादशोऽध्यायः १८

ईश्वर उवाच ॥

गोमत्या उत्तरे कूले क्रोशद्वयप्रमाणतः । विष्णुदासेति विख्यातो देवीपुत्रो वरानने ॥१॥

शङ्करे वै पुरे शुभ्रे तस्य भार्या च सुन्दरी । कर्कशा कुलटा सा वै पतिविद्वेषकारिणी ॥२॥

शुश्रूषां कुरुते नैव श्वश्वोश्चैव वरनने । स्वधर्मनिरतो नित्यं शिवभक्तिपरायणः ॥३॥

कृषिं वै सोऽकरोच्चैव विप्राणां चैव सेवकः । पित्रोश्च परमो दासः सदा च प्रियभाषणः ॥४॥

एतस्मिन्नगरे देवि व्रती काश्चित्समागतः । भिक्षार्थमागतो द्वारे तया भिक्षा ददे न च ॥५॥

अपभ्रंशमवोचत्तु भिक्षुकं प्रति संदरी । विष्णुदासो गृहे नासीत्तद्दिने कुत्रचिद्‌गतः ॥६॥

एवं बहुगते काले तस्य मृत्युर्बभूव ह । भक्तत्वान्मम भो देवि यक्षलोके गतः स वै ॥७॥

त्रिंशद्वर्षसहस्त्राणि यक्षेण सह भोगवान् ‌ ॥८॥

तस्य भार्या मृता क्रूरा श्वश्वोश्च दुःखदायिनी ॥ सा गता नरके घोरे रौरवै नाम्रि भामिनि ॥९॥

भुक्त्वा नरकजं दुःखं पुनर्व्याघ्री बभूव व । पुनः श्रृगाली वै जाता मानुषी च ततोऽभवत् ‌ ॥१०॥

पुनर्विवाहिता सा वै मर्त्यलोके वरानने । वंध्या चैव विशालाक्षि पूर्वजन्मविपाकतः । रोगो बहु भवेद्देवि सुखं वै नोपजायते ॥११॥

तस्याः पुण्यं प्रवक्ष्यामि सर्वपापप्रणाशनम् ‌ । स्वपतिं प्रत्यहं माघे स्त्रापयेदुष्णवारिणा ॥१२॥

श्वश्रूचरणयोः प्रातर्नमस्कुर्यात् ‌ प्रयत्नतः । अलाबुं नैव खादेत्तु षोडशाब्दप्रमाणतः ॥१३॥

माघे नियमतो देवि पतिना सह सुव्रते । स्त्रानं नियमतो देवि दीपं दद्याद्यथाविधि ॥१४॥

ततः कृत्वा सुवर्णस्य वृक्षं वै द्विपलस्य च । रौप्यां दशपलां देवि वेदीं शुभ्रां च कारयेत् ‌ ॥१५॥

वृक्षं तस्यां च संस्थाप्य कल्पवृक्षस्वरूपिणम् ‌ । पूजयित्वा ततो देवं शंखचक्रगदाधरम् ‌ ॥१६॥

सगणं देवदेवेशं वृषकेतुं वरप्रदम् ‌ । ततो वै पूजयेद्देवि विधिवच्चारुरूपिणम् ‌ ॥१७॥

वस्त्रकाश्चनकेयूरैः कुण्डलाम्यां विशेषतः । तद्वृक्षं वेदिकायुक्तं तस्मै विप्राय दापयेत् ‌ ॥१८॥

अन्यान्विप्रान्वरारोहे भोजयेद्विविधै रसैः । पायसैर्मोदकैः। शुभैः षट्‌षष्टिप्रमितान्प्रिये ॥१९॥

ततो गां कपिलां दद्यात्स्वर्णशृङ्रीं सनूपुराम् ‌ । सप्तम्यां रवियुक्तायां व्रतं कुर्यान्मम प्रिये ॥२०॥

गोपालस्य च मंत्रेण लक्षजाप्यं च कारयेत् ‌ । होमस्तत्तद्दशांशेन मार्जनं तर्पणं तथा ॥२१॥

एवं कृते न संदेहः शीघ्रं पुत्रो ह्यवाप्यते । कन्यका नैव जायन्ने रोगश्चैव निवर्त्तते ॥२२॥

इति कर्मविपाकसंहितायां अष्टादशोऽध्यायः ॥१८॥

अथ एकोनविंशोऽध्यायः १९

शिव उवाच ॥

रोहिण्याश्चरणं देवि चतुर्थुं सांप्रतं शृणु । यत्कृतं सश्चितं पूर्वमिह जन्मनि तत्फ्लम् ‌ ॥१॥

बुद्धिशर्मा द्विजः कश्चिदन्तर्वेद्यां बभूव ह । पुरोहितो महाभ्रष्टः परपाके सदा रतः ॥२॥

सा स्त्री पररता तस्य चश्चलाचपला सदा । धनं च सश्चितं तेन प्रतिग्राहेण वै प्रिये ॥३॥

मरणं तस्य वै जातं पश्चाद्भार्या मृता तु सा । गतोऽसौ नरके घोरे पूर्वजन्मविपाकतः ॥४॥

युगमेकं वरारोहे भुक्त्वा नरकयातनाम् ‌ । वृषयोनिं च सम्प्राप्तो रासभत्वं ततोऽलभत् ‌ ॥५॥

मानुषत्वं पुनर्यातो मध्यदेशे वरानने । अपुत्रता भवेद्देवि कन्यका चैव जायते ॥६॥

शरीरे रोग उत्पन्नः सुखं नैव प्रजायते । प्रायश्चित्तं ततो देवि प्रवक्ष्यामि वरानने ॥७॥

आकृष्णेति जपेन्मन्त्रं लक्षं वै विधिवत्प्रिये । होमं तु कारयेद्देवि तिलाज्यमधुना सह ॥८॥

कुण्डे त्रै वर्तुलाकारे द्शांशं तर्पणं तथा । मार्जनं तु विशेषेण ततो ब्राह्मणभोजनम् ‌ ॥९॥

दशवर्णा प्रदातव्या गुडधेनुस्तथा प्रिये । शय्यां दद्यात्प्रयत्नेन विधिवद्‌ब्राह्मणायच ॥१०॥

भोजयेद्‌ब्राह्मणाञ्छुद्धान्वेदपाठरतान्प्रिये । सप्तसप्ततिसंख्यान्वै दीक्षिताञ्छुद्धमानसान् ‌ ॥११॥

प्रयागे माघमासे वै प्रातः स्त्रानं सभार्यया । एवं कृते न सन्देहः पुत्रस्तस्य प्रजायते ॥१२॥

रोगः प्रमुच्यते तस्य वन्ध्यात्वं च प्रणश्यति । मृतवत्सा लभेत् ‌ पुत्रं कन्यका नैव जायते ॥१३॥

इति कर्मविपाकसंहितायां एकोनविंशोऽध्यायः ॥१९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-05T04:25:09.4300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विषारणें

  • v i  To be affected by venom or poison received into the system; to be poisoned. 
  • To be affected by venom or poison received into the system, to be poisoned. 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,689
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 325,801
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.