श्रीगुरूचरित्र - अध्याय ८

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ ब्रह्यन्कुत्राऽवतीर्यासौकिंचकारास्यचेष्टितम् ॥ मायाश्रितस्यप्रमेयंब्रुहिशूश्रुषवेऽर्थदम् ॥१॥

सिद्वउवाच ॥ उदग्देशेवतीर्णस्यदीनानुद्वर्तुमीशितुः ॥ वक्ष्येऽल्पकंसाधुयोगिदुर्विभाव्यंहिचेष्टितम् ॥२॥

याश्रीपादोपदेशेनप्रदोषेऽजमतोषयत् ॥ साप्रेत्योत्तरदेशेस्त्रीर्जाताब्रह्यकुलेमले ॥३॥

धीरुपशीललक्ष्माढयासुसंस्कारागुणान्विता ॥ श्रीपादेनपुरांबेतिप्रेक्तत्वात्सातदाव्हया ॥४॥

शिववृत्तिंमाधवाख्यमनुरुपंद्विजंपिता ॥ द्दष्ट्रातत्रैवतांतस्मैगृह्योक्तविधिनाददौ ॥५॥

सापातिव्रत्यमास्थायभेजेछायेवतंपतिम् ॥ प्रदोषेपिशिवंपूर्वसंस्कारात्पत्यनुज्ञया ॥६॥

स्त्रेहोन्योन्याश्रयोभावबंधोभूच्चक्रवाकवत् ॥ तयोर्हर्षितयोरेवंगर्भमंबावरंदधौ ॥७॥

सासुदोहदलक्ष्मायतत्त्वज्ञानमुपादिशत् ॥ द्विजोपुनुक्रमाच्चक्रेक्रियाःपुंसवनादिकाः ॥८॥

अब्रध्रगेष्टखगसूचितसिद्विपूर्वप्रव्रज्यकेसुसमयेथसमोष्णशीते ॥ आत्मीयवाच्यपठनेनसतोनुगृण्हत्रोंकारवाच्यभगवान्स्वयमाविरासीत् ॥९॥

विश्वंतदाभूच्छुभशंसिलोकाओंकारमाकर्ण्यसुविस्मितास्युः ॥ भावान्सुखेटान्गणकाःसुयोगानृष्टामुदंप्रापुरद्दष्टपूर्वान् ॥१०॥

तऊचुर्माधवेदंतेसुकृतद्रुफलंकिल ॥ श्रीसिद्वयोस्यदास्यौघ्रीस्पर्शवत्रिधयोनुगाः ॥११॥

नायंगृहीजनोद्वर्ताद्दष्टयापतितपावनः ॥ वंद्योस्यानुग्रहात्कोपिभवेत्रैवात्रसंशयः ॥१२॥

इत्युत्त्कातेनद्दष्टेनपूजितास्तेगृहंययुः॥ श्रुत्वाद्रुतंजनुर्द्रष्टुंप्राप्तैर्लोकैःसनेक्षितः ॥१३॥

तद्दृग्दोषभियैकांतेगुरुःसंस्थाप्यरक्षया ॥ तंररक्षार्भबुध्येशंतन्मायामोहितोहरिं ॥१४॥

भूयात्ररोहरिरिवनरतापाघदैन्यह्रत् ॥ अयमित्याख्ययाचक्रेबालंनरहरिंद्विजः ॥१५॥

क्षुच्छांतिर्नास्यमत्तोऽतोधात्रीवाजापयस्विनी ॥ मृग्येत्यक्तेंवयोरोजौस्पृष्ट्रार्भोध्यदुहत्पयः ॥१६॥

तद्वालचेष्टितंचित्रंसद्दृग्दोषभियानया ॥ स्फुटंनाकारिमात्रैवमन्यदप्यद्रुतास्पदम् ॥१७॥

बाल्यादिनामर्त्यलिंगभाजीहाज्ञानलक्ष्मणां ॥ प्रतीतेर्ब्रह्यतारोपःसाक्षात्कैःकल्पुतेकथं ॥१८॥

जातस्त्रैवर्षिकोप्येषलीलयाभूत्सुमुकवत् ॥ खिन्नातस्तत्प्रतीकारानारेभेंऽबाद्विजोदितान् ॥१९॥

सौर्येन्ह्यश्वत्थपत्रेऽत्रभोजनैःकुलपार्चनैः ॥ बालोक्तिपाठनैश्वान्यैःसूपायैर्नावदच्छिशुः ॥२०॥

वक्तुंश्रोतुंनायमज्ञोमूकश्वेत्कथमोंकृतिं ॥ श्रुत्वान्योक्तिंब्रूतइतिपितरौमोहमापतुः ॥२१॥

मूकोयंनौश्रमेणालंप्रदोषेशंभुरर्चितः ॥ दिष्टयैतत्तत्फलंप्राप्तंसस्कार्योसौकथन्वंतः ॥२२॥

ताभ्यामित्युदितेमौंज्यांबद्वायांवक्ष्यइत्यसौ ॥ संज्ञयादर्शयत्स्वर्णव्यकृणोत्तन्मुदेऽयसः ॥२३॥

तदासंजातविश्वासोविप्रानाहूयमाधवः ॥ मुदासंभृतसंभारःसुलग्रेमुमुपानयत् ॥२४॥

सुसंस्कृतःकृतस्वस्त्ययनोभुक्तोंऽवयासह ॥ गुरुपदिष्टांसावित्रीमुपनीतोयमाददे ॥२५॥

गुर्वाश्रितब्रह्यचारीधर्मौभिक्षांसमातरं ॥ याचयित्वाजगौवेदात्रचित्रंवेदवाच्यदः ॥२६॥

प्रणम्यपितरौप्राहविरक्तःप्रव्रजामिभोः ॥ अनित्याद्दक्शरीरस्यतदाज्ञांदातुमर्हथः ॥२७॥

प्रत्यवायाभिक्रमांतौनैवधीमतिधीस्त्वियम् ॥ ममप्राग्दैहिकाक्षय्याभविष्यंत्यात्मजाहिवां ॥२८॥

इत्युक्तेंबाविषीदंतीतन्मायामोहिताब्रवीत् ॥ एकएवसुतस्वंमेकथंयासिविहायमां ॥२९॥

प्रव्रजेद्वेदविद्रुक्तगार्हस्थ्योनुक्रमाद्वनात् ॥ तत्त्वविद्वासनानाशमनोभंगाआतःश्रुताः ॥३०॥

श्रीगुरुरुवाच ॥ जैत्द्यौपस्थ्यसुखाक्तानांक्रमोयंनैवमाद्दशः ॥ प्राक्संस्कारविरक्तस्यजोष्यैळ्किंमेकयोनिभिः ॥३१॥

श्रुतश्रोतस्यनिर्वेदंयास्येसंन्यस्यभोततः ॥ संसिद्विःसुलभानातःपरंकार्यांहिधीमता ॥३२॥

कलावायुःशतंस्वापाद्वीयतेर्धंतुशेषकं ॥ बाल्ययौवनवृद्वत्वैःपराधीनतयाचनुः ॥३३॥

स्वप्रवत्संपदिष्टाढयसंसारोज्ञानकल्पितः ॥ यौवनंपुष्पवच्चायुस्तडिद्वत्क्कधृतिर्बुधे ॥३४॥

कालोभ्रणात्र्छिशून्यूनोवृद्वानार्तान्सुखस्थितान् ॥ मूढान्ग्रत्यपिप्राज्ञात्रिःशेषानमरानपि ॥३५॥

यदर्थममताप्येतज्जलबुद्वदवदुपुः ॥ मांसास्थिरक्तवद्विंस्त्रवंचनार्थत्वगावृतम् ॥३६॥

नभस्मविट्कीटरुपपरिणामंनिजानुगम् ॥ तदानुषंगिकारुयाद्याःकिमुतानर्थहेतवः ॥३७॥

देहोचित्सर्वगोजीवश्विदंशोजोव्ययोध्रुवः ॥ स्वप्रवत्सुखदुःखादिसंबंधोज्ञानजोस्यतु ॥३८॥

प्रसादात्सद्रुरोःशाब्दपरब्रह्यविदस्त्विदम् ॥ छित्वाविद्रहनंज्ञेयज्ञानास्त्रःस्वस्थइद्रवेत् ॥३९॥

यउत्तमंज्ञानपात्रंलब्ध्वाधामाग्रजातिजं ॥ नाचरत्यात्मनश्रेयस्तेनात्मावंचितोध्रुवं ॥४०॥

तस्मात्रारब्धविघ्रामेभवतेंबनमोपिते ॥ पुत्रोभविष्यतिध्यानाद्ववाब्धिंमेतरिष्यसि ॥४१॥

इत्युत्त्कादर्शयत्तस्यैस्वंरुपंदिव्यमुत्तमं ॥ साप्यदभ्रद्दशाद्दष्टातद्वित्तप्रारजनिर्जगौ ॥४२॥

नमस्तेभगवन्देवप्राग्द्दष्टोमर्तुकामया ॥ कुपुत्रयामयासत्वंश्रीपादोमेऽद्यगोचरः ॥४३॥

ब्रह्यापिवेत्तिनोरुपगुणांस्तेमोहितात्वहं ॥ मानुषीत्वांकथंजानेदिष्टयाद्यज्ञानमर्पितं ॥४४॥

कृतंमत्कुक्षिसंभूतइतिलोकविडंबनं ॥ अजब्रह्यांडकुक्षेनउभयंपावितंकुलं ॥४५॥

सत्यसंकल्पतेविघ्रंमास्तुरुपंस्थिरीकुरु ॥ मयीदंचात्रभोस्थेयंयावत्पुत्रोभविष्यति ॥४६॥

तथेत्युत्त्केशबुद्याऽसौस्थित्वाताभ्यांसुपूजितः ॥ तत्रशिक्षितवान्छिष्यान्विदुषोप्येषवेदवाक् ॥४७॥

अंबापिगर्भिणीभूत्वाकालेऽसूतसुतौशुभौ ॥ सत्रैमासिकयोःशिश्वोःप्राहांबांश्रृणुमेंबभोः ॥४७॥

जातौद्वौभविष्यंतिपुत्रौपुत्रीचसत्तमाः ॥ देह्याज्ञांमइतिप्रोत्त्कातदाज्ञप्तःप्रचक्रमे ॥४९॥

रेजेशिरस्त्राणविशोभिमूर्धासुपादुकामंडितपादपद्मः ॥ काषायवस्त्रावृतपेशलांगःकौपीमधृग्दंडकरःस्मितास्यः ॥५०॥

क्षमस्वार्भबुद्यामयाजापराद्वमितिव्याहरंतींसतींत्रिंशताब्दैः ॥ पुनर्दर्शनंमेस्तुसानिध्यमंबस्मृतावित्थमुत्त्काययौतांनिवर्त्य ॥५१॥

नायंमर्त्योस्तीशएनंनताःस्मएवंसद्विःस्तूयमानोमुनीनः ॥ योगीशोपिद्राग्बदर्याश्रमंसद्दष्टुंकाशींप्रापवेषान्मुमुक्षोः ॥५२॥

सखेचरत्सह्रज्जिव्हउन्मन्यावस्थयाऽतपत् ॥ तपःश्वासोछासहीनःकाश्यांवज्रासनस्थितः ॥५३॥

भागरिथ्यांत्रिषवणमथाप्रुत्यसाष्टांगयोगंयुंजंतंतंसकलमुनयःप्रेक्ष्यसिद्वासनस्थं ॥

नत्वाष्टगैःपरतरधियाखेचरीमुद्रयैकंकुंभोद्युक्तंजगुरुपरतानादसिद्वोत्समाधिं ॥५४॥

भवान्परात्मास्तिनमर्त्यबालःसद्वर्मगुप्त्यैविधृतावतारः ॥ प्राक्शंकराचार्यमतोपिलुप्तःसन्यासएनंवितनोतुतिष्ये ॥५५॥

कष्टोत्थाद्यंतवत्स्पर्शभूभोगसुरतात्मभिः ॥ उच्छित्रोध्यात्मसौख्याज्ञैत्यंकलिहतात्मभिः ॥५६॥

भीरुग्रेसुलभक्षेमेकलौसंन्यासवर्त्मना ॥ अध्यात्मपरमानंदंभगवन्दातुमर्हसि ॥५७॥

इत्याश्रुत्योत्तमाचार्यवृत्वाकृष्णसरस्वती ॥ ततःसंन्यास्यभूत्राम्नासनृसिंहसरस्वती ॥५८॥

न्यस्तसूत्रशिखोरेजेन्यस्तसर्वैषणोवशी ॥ संन्यस्ताखिलसंकल्पःसंन्यासीनिर्ममोद्वयः ॥५९॥

संन्यासपद्वतिंप्राहमुमुक्षुभ्योजगद्रुरुः ॥ विरजोमांच्छुचिर्देवींप्रविष्टोहापितैषिणः ॥६०॥

संन्यस्तसकलोसूत्रचुडोदंडीगुरुंभजेत् ॥ प्रज्ञानंब्रह्यायमात्माब्रह्यतत्त्वमसीतिच ॥६१॥

अहंब्रह्यास्मीतिमहावाक्यान्याप्त्वार्थतोवशी ॥ पंचीकरणविल्लब्धसंज्ञःशौचीस्वधर्मवित् ॥६२॥

दैवभावोयोगपट्टीसंन्यासीश्रेयसेर्हति ॥ गोतिज्ञोधारणाभ्यासाज्जविन्मुच्येत्परात्मद्दक् ॥६३॥

ब्रह्यीभूतस्यगव्यात्माव्यसुःक्षेप्योप्क्रियादिनो ॥ इत्युत्त्काग्राहयामाससंन्यासंस्वाधिकारिणः ॥६४॥

ततःप्रभृतिसंन्यासःसंप्रवृत्तोमृतायनः ॥ काश्यांपुमर्थःवेदार्थान्प्रकाश्योत्तखर्त्मना ॥६५॥

मेरुंप्रदक्षिणीकृत्यपूतात्मापिसुशिष्ययुक् ॥ तीर्थस्त्रातोययौगंगासागरंभक्तगुप्तये ॥६६॥

कारयित्वाबहिस्पर्शान्बाह्यान्सोन्तेद्दशंभ्रुवोः ॥ पाणापानौचरवेतुल्यौयतिभ्योयोगमादिशत् ॥६७॥

प्रयागेथैत्यसंन्यासंमाधवब्रह्यणेददौ ॥ विभुस्तत्वोपदेशंचनिजोद्ववभुवंवयौ ॥६८॥

नामधारकउवाच ॥ यत्प्रसादात्ररामुक्ताअद्वैतामृतवर्षिणः ॥ भवंत्यस्यकिमाचार्यैःकोयंकृष्णसरस्वती ॥६९॥

सिद्वउवाच ॥ सांदीपनिवसिष्ठाद्याःकृष्णरामादिभिर्वृताः ॥ गुरवोपितथाजेनवृतःकृष्णसरस्वती ॥७०॥

मानुष्यंलीलयासाद्यसतद्वद्वर्ततेनचेत् ॥ वर्तेतसंकरोलोकेभवेत्तदनुवर्तितः ॥७१॥

येनाध्यक्षेणमासूतेजगत्तेननबद्यते ॥ असक्तोयमुदासीनवत्स्थितःकिमुतेतरैः ॥७२॥

शिष्योविष्णुःपुरेशस्यविष्णोर्विधिरभूद्विधेः ॥ वसिष्ठस्तस्यशाक्त्योस्यव्यासस्तस्यशुकोस्यतु ॥७३॥

गौडपादोस्यगोविंदःशड्र .रस्तस्यतस्यतु ॥ विश्वरुपस्तस्यबोधज्ञानःसिंहगिरिस्ततः ॥७४॥

तस्येश्वरोनृसिंहोस्यविद्यातीर्थततःशिवः ॥ तस्यभागीरथीतीर्थविद्यारण्योस्यतस्यतु ॥७५॥

शिष्योभून्मलयानन्दोदेवतीर्थसरस्वती ॥ यादवेन्द्रोस्यतस्यायंशिष्यंःकृष्णसरस्वती ॥७६॥

सर्वेस्वदीक्षांकिताख्याजाताःकृष्णसरस्वती ॥ पारंपर्योत्तमोज्ञानीवृद्वोतोयंवृतोमुना ॥७७॥

इति० नृसिंहसरस्वत्यवतारकथनंनामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP