संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २८

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
पिता सोमस्य वैविप्रा जज्ञेऽत्रिर्भगवानृषिः ।
सोऽति तस्थौ सर्वलोकान्भगवान्त्स्वेन तेजसा ॥१॥

कर्मणा मनसा वाचा शुभान्येव समाचरन् ।
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ॥२॥

सुदुश्चरं नाम तपो येन तप्तं महत्पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥३॥

तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहम् ।
सोमत्वन्तनुरापेदे महाबुद्धिः स वै द्विजः ॥४॥

ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।
सोमः सुस्राव नेत्राभ्यां दश वा द्योतयन् दिशः ॥५॥

तं गर्भं विधिनादिष्टा दश देव्यो दधुस्तदा ।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥६॥

स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः ।
यथावभासयंल्लोकाञ्झीतांशुः सर्वभावनः ॥७॥

यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः ।
ततः स ताभिः शीतांशुर्निपपात वसुन्धराम् ॥८॥

पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया ॥९॥

स हि देवमयो विप्रा धर्म्मार्थी सत्यसङ्गरः ।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ॥१०॥

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
तुष्टुवुर्ब्रह्मणः पुत्राः मानसाः सप्त विश्रुताः ॥११॥

तत्रैवाङ्गिरसस्तस्य भृगोश्चैवात्मजस्तथा ।
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ॥१२॥

ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायमानं लोकांस्त्रीन् भावयामास सर्व्वशः ॥१३॥

समेन रथमुख्येन सागरान्तां वसुन्धराम् ।
त्रिःसप्तकृत्वो विपुल श्चकाराभिप्रदक्षिणम् ॥१४॥

तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत ॥१५॥

ताभिर्धार्यत्ययं लोकान् प्रजाश्चापि चतुर्विधाः ।
पोष्टा हि भगवान् सोमो जगतो हि द्विजोत्तमाः ॥१६॥

स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्म्मभिः ।
तपस्तेपे महाभागः पझानां दशतीर्दश ॥१७॥

हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत् ।
विभुस्तासाम्भवेत्सोमः प्रख्यातः स्वेन कर्म्मणा ॥१८॥

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधिषु विप्राणामपाञ्च द्विजसत्तमाः ॥१९॥

सोऽभिषिक्तो महातेजा महाराज्येन राजराट्  ।
लोकानां भावयामास स्वभावात्तपतां वरः ॥२०॥

सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः ।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥२१॥

स तत्प्राप्य महद्राजयं सोमः सोमवतां प्रभुः ।
समाजज्ञे राजसूयं सहस्रशतदक्षिणम् ॥२२॥

हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ।
सदस्यस्तत्र भगवान् हरिर्नारायणः प्रभुः  ।
॥सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥२३॥

दक्षिणामददत्सोमस्त्रील्लोँकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ॥२४॥

तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभावसुः ।
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥२५॥

प्राप्यावभृथमव्यग्रः सर्व्वदेवर्षिपूजितः ।
अतिराजातिराजेन्द्रो दशधातापयद्दिशः ॥२६॥

तदा तत् प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम् ।
स विभ्रममतिर्विप्रा विनये विनयो हतः ॥२७॥

बृहस्पतेः स वै भार्यान्तारां नाम यशस्विनीम् ।
जहार सहसा सर्व्वानवमत्याङ्गिरःसुतान् ॥२८॥

स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह ।
नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ॥२९॥

उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो द्विजाः ।
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ॥३०॥

तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः ।
पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवन्धनुः ॥३१॥

तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं महात्मना ।
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥३२॥

तत्र तद्युद्धमभवत् प्रत्यक्षन्तारकामयम् ।
देवानां दानवानाञ्च लोकक्षयकरं महत् ॥३३॥

तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः ।
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥३४॥

ततो निवार्योशनसं रुद्रं ज्येष्ठञ्च शङ्करम् ।
ददावाङ्गिरसे तारां स्वयमेव पितामहः ॥३५॥

अन्तर्वत्नीं च तां दृष्ट्वा तारान्ताराधिपाननाम् ।
गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ॥३६॥

मदीयायां तनौ योनौ गर्भो धार्यः कथञ्चन ।
अथो नावसृजत्तन्तु कुमारं दस्युहन्तमम् ॥३७॥

ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम् ।
जातमात्रोऽथ भगवान् देवानामाक्षिपद्वपुः ॥३८॥

ततः संशयमापन्नास्तारामकथयन् सुराः ।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥३९॥

ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा  ।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥४०॥

सन्निवार्य तदा ब्रह्मा तारां चन्द्रस्य संशयः ।
यदत्र तथ्यन्तद्‌ब्रूहि तारे कस्य सुतस्त्वयम् ॥४१॥

सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ।
सोमस्येति महात्मानं कुमारन्दस्युहन्तमम् ॥४२॥

ततः स तमुपाघाय सोमो दाता प्रजापतिः ।
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ॥४३॥

प्रतिपूर्व्वञ्च गमने समभ्युत्तिष्ठते बुधैः ।
उत्पादयामास तदा पुत्रं वै राजपुत्रिका ॥४४॥

तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः  ।
उर्वश्यां जज्ञिरे तस्य पुत्राः षट् सुमहौजसः ॥४५॥

प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा  ।
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः  ।
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥४६॥

तस्य तत्पापशमनं चकारात्रिर्महायशाः ।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्व्वशः ॥४७॥

एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः ।
वंशन्तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ॥४८॥

धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम् ।
सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ॥४९॥

इति श्रीमहापुराणे वायुप्रोक्ते शोमोत्पत्तिर्नामाष्टाविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP