संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३४

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
सात्वती रूपसम्पन्नं कौशल्या सुषुवे सुतम् ।
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ॥१॥

अन्धकञ्च सहाभोजं वृष्णिञ्च यदुनन्दनम् ।
तेषां हि सर्गाश्चत्वारः श्रृणुध्वं विस्तरेण वै ॥२॥

भजमानस्य श्रृञ्जय्यां बाह्यश्चोपरि बाह्यकः ।
श्रृञ्जयस्य सुते द्वे तु बाह्यकस्ते उदावहत् ॥३॥

तस्य भार्ये भगिन्यौ ते प्रा॥सूतेति सुतान् बहून् ।
निमिश्च पणवश्चैव वृष्णिः परपुरञ्जयः ॥४॥

ये बाह्यकार्य्यश्रृञ्जय्यां भजमानाद्विजज्ञिरे ।
अयुतायुतसाहस्र शतजिदथ वामकः ॥५॥

बाह्यकार्य्याभगिन्यां ये भजमाना द्विजज्ञिरे ।
तेषां देवावृधो राजा चचार परमं तपः ॥६॥

पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह ।
संयोज्यात्मानमेवं सवर्णा सा जलमस्पृशत् ॥७॥

सा चोपस्पर्शनात्तस्य चकार ऋषिमापगा ।
कल्याणञ्च नरपतेस्तस्य सा निम्नगोत्तमा ॥८॥

चिन्तयाभिपरीताङ्गा जगामाथ विनिश्चयम् ।
नाधिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥९॥

भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि ।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता ।
जज्ञे तस्याः स्वयं हस्तो भावस्तस्य यथेरितः ॥१०॥

अथ भूत्वा कुमारी तु सावित्री परमं वचः ।
चिन्तयामास राजानं तामियेष स पर्थिवः ॥११॥

तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः ।
अथ सा नवमे मासि सुषुवे सरितांवरा ॥१२॥

पुत्रं सर्वगुणोपेतं यथा देवावृधेप्सितः ।
तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ॥१३॥

गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः ।
यथैव श्रृणुते दूरात् संपश्यति तथान्तिकात् ॥१४॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः ।
येऽमृतत्वमनुप्राप्ता बभ्रुर्देवावृधादपि ॥१५॥

यज्वा दानपतिर्वीरो ब्रह्मण्यः सत्य वाग् बुधः ।
कीर्त्तिमांश्च महाभागः सात्त्वतानां महारथः ॥१६॥

तस्यान्ववाये सुमहाभोजयेमार्तिकावलाः ।
गान्धारी चैव माद्री च वृष्णेर्भार्य्ये बभूवतुः ॥१७॥

गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ।
माद्री युधाजितं पुत्रं सा तु वै देवमीढुषम् ॥१८॥

अनमित्रं सुतञ्चैव तावुभौ पुरुषोत्तमौ ।
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥१९॥

प्रसेनश्च महाभागः शक्रजिच्च सुतावुभौ ।
तस्य शक्रजितः पूर्वः सखा प्राणसमोऽभवत् ॥२०॥

स कदाचिन्निशापाये रथेन रथिनांवरः ।
तोयकूलादपः स्प्रष्टुमुपस्थातुं ययौ रविम् ॥२१॥

तस्योपतिष्ठतः सूर्यो विवस्वानग्रतः स्थितः ।
अस्पष्टमूर्तिर्भगवां स्तेजोमण्डलवान् विभुः ॥२२॥

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषाम्पते ॥२३॥

तेजोमण्डलिनञ्चैव तथैवाप्यग्रतः स्थितम् ।
को विशेषो विवस्वंस्ते साक्षादुपगतेन वै ॥२४॥

एतच्छ्रुत्वा स भगवान् मणिरत्नं स्यमन्तकम् ।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥२५॥

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।
प्रतिमामथ तां दृष्ट्वा मुहूर्त्तं कृतवांस्तथा ॥२६॥

तमतिप्रस्थितं भूयो विवस्वन्तं स शक्रजित् ।
प्रोवाचाग्निसवर्णं त्वं येन लोकान् प्रयास्यति ।
तदैव मणिरत्नं तन्मां भवान् दातुमर्हति ॥२७॥

स्यमन्तकं नाम मणिं दत्तवांस्तस्य भास्करः ।
स तमाबद्ध्य नगरं प्रविवेश महीपतिः ॥२८॥

तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।
सभां विस्माययित्वाथ पुरीमन्तःपुरं तथा ॥२९॥

तं प्रसेनिजिते दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा शक्रजिदुत्तमम् ॥३०॥

स्यमन्तको नाम मणिर्यस्य राष्ट्रे स्थितो भेवत्  ।
कालवर्षी च पर्जन्यो न च व्याधिभयं तदा ॥३१॥

लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् ।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ॥३२॥

कदा चिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद्वधं प्राप्तः सुदारुणम् ॥३३॥

जाम्बवानृक्षराजस्तु तं सिंहं निजघान वै  ।
आदाय च मणिं दिव्यं स्वं बिलं प्रविवेश ह ॥३४॥

तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः ।
मणौगृध्नुन्तु मन्वानास्तमेव विशशङ्किरे ॥३५॥

मिथ्याभिशस्तिं तेभ्यस्तां बलवानरिसूदनः ।
अमृष्यमाणो भगवान् वनं स विचचार ह ॥३६॥

स तु प्रसेनमृगयामचरत्तत्र चाप्यथ ।
प्रसेनस्य पदं गृह्य पुरुषै राप्तकारिभिः ॥३७॥

ऋक्षवन्तं गिरिवरं विन्ध्यञ्च नगमुत्तमम् ।
अन्वेषणपरिश्रान्तः स ददर्श महामनाः ॥३८॥

साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥३९॥

ऋक्षेण निहतो दृष्टः पादैऋक्षस्य सूचिताम् ।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥४०॥

महत्यतिबिले वाणीं शुश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ।
प्रीतिमत्याथ मणिना मारोदीरित्युदीरिताम् ॥४१॥

 ॥धात्र्युवाच॥
प्रसेनमवधीत् सिंहः सिंहो जाम्बवता हतः ।
सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः ॥४२॥

व्यक्तीकृतञ्च शब्दं तं तूर्णं सोऽपि ययौ बिलम् ।
अपश्यच्च विलाभ्याशे प्रसेनमवदारितम्॥ ३४.४३॥

प्रविश्य चापि भगवास्तदृक्षबिलमञ्जसा ।
ददर्श ऋक्षराजानं जाम्बवन्तमुदारधीः ॥४४॥

युयुधे वासुदेवस्तु बिले जाम्बवता सह ।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥४५॥

प्रविष्टे च बिलं कृष्णे वासुदेव पुरःसराः  ।
पुनर्द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥४६॥

वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् ।
लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ॥४७॥

भगवत्तेजसा ग्रस्तो जाम्बवान् प्रसभं मणिम् ।
सुतां जाम्बवतीमाशु विष्वक्सेनाय दत्तवान् ॥४८॥

मणिं स्यमन्तकं चैव जग्राहात्म विशुद्धये ।
अनुनीय ऋक्षराजं निर्ययौ च तदा बिलात् ॥४९॥

एवं स मणिमादाय विशोद्ध्यात्मानमात्मना ।
ददौ सत्राजिते तं वै मणिं सात्वतसन्निधौ ॥५०॥

कन्यां पुनर्जाम्बवतीमुवाच मधुसूदनः ।
तस्मान्मिथ्याभिशापात् स व्यमुच्यत जनार्दनः ॥५१॥

इमां मिथ्याभिशस्तिं यः कृष्णस्येह व्यपोहिताम् ।
वेद मिथ्याभिशस्तेः स नाभिशस्यति कर्हिचित् ॥५२॥

दश स्वसृभ्यो भार्य्याभ्यः शत्रजित्तः शतं सुताः ।
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्व्वजः ।
वीरो व्रतपतिश्चैव ह्यपस्वान्तश्च सुप्रियः ॥५३॥

अथ द्वारवती नाम भङ्गकारस्य सुप्रजा ।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ॥५४॥

सत्य भामोत्तमा स्त्रीणां व्रतिनीव दृढव्रता ।
तथा तपस्विनी चैव पिता कृष्णस्य तां ददौ ॥५५॥

यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
प्रादात्तदाहरद्रत्नं भोजेन शतधन्वना ॥५६॥

तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरो रत्नमन्विच्छन् मणिञ्चैव स्यमन्तकम् ॥५७॥

भद्रकारं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥५८॥

अक्रूरस्तु तदा रत्नमादाय स नरर्षभः ।
समयं कारणं चक्रे बोध्यो नान्यैस्त्वयेत्युत ॥५९॥

वयमभ्युपपत्स्यामः कृष्णेन त्वं प्रधर्षितः ।
मम च द्वारकाः सर्वा वशे तिष्टन्त्यसंशयम् ॥६०॥

हते पितरि दुःशार्त्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥६१॥

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥६२॥

पाण्डवानान्तु दग्धानां हरिः कृत्वोदकक्रियाम्  ।
तुल्यार्थे चैव भ्रातॄणां नियोजयति सात्यकिम् ॥६३॥

तत स्त्वरितमागम्य द्वारकां मधुसूदनः ।
पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥६४॥

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तकमहं मार्गे तस्य प्रहर हे प्रभो ॥६५॥

तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तको महाबाहो तदास्माकं भविष्यति ॥६६॥

ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः ।
शतधन्वा न चाक्रूरमवैक्षत् सर्वतो दिशि ॥६७॥

अनष्टाश्वावरोहन्तु कृत्वा भोजजनार्दनौ ।
शक्तोऽपि साध्याद्वार्द्धक्यान्नाक्रूरोऽभ्युपपद्यत ॥६८॥

अपयाने ततो बुद्धिं भूयश्चक्रे भयान्वितः ।
योजनानां शतं साग्रं यया च प्रत्यपद्यत ॥६९॥

विज्ञातहृदया नाम शतयोजनगामिनी ।
भोजस्य वढवादित्यो यया कृष्णमयोधयत् ॥७०॥

प्रवृद्धवेगा वडवा त्वध्वनां शतयोजनम् ।
दृष्टा रथगतिस्तस्य शतधन्वानमर्द्दयत् ॥७१॥

ततस्तस्य हयास्ते तु श्रमात् खेदाच्च वै द्विजाः ।
खमुत्पेतू रथप्राणाः कृष्णो राममथाब्रवीत् ॥७२॥

तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयाः ।
पद्य्भां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥७३॥

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलाधिपतिं तं वै जघान परमास्त्रवित् ॥७४॥

स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ॥७५॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दमसकृत् पूर्व्वं प्रत्युवाच जनार्द्दनम् ॥७६॥

भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्रारकया न त्वया न च वृष्णिभिः ॥७७॥

प्रविवेश ततो रामो मिथिलामरिमर्द्दनः ।
सर्व्वकामैरुपहृतैर्मैथिलेनैव पूजितः ॥७८॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतांवरः ।
नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान् ॥७९॥

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते राजा गाधिपुत्रो महायशाः ॥८०॥

अर्थान् रत्नानि चाग्र्याणि द्रव्याणि विविधानि च  ।
षष्टिवर्षगते काले यज्ञेषु विन्ययोजयत् ॥८१॥

अक्रूरयज्ञ इत्येते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिनः ॥८२॥

अथ दुर्य्योधनो राजा गत्वाऽथ मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥८३ ।
प्रसाद्य तु ततो विप्रा वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥८४॥

अक्रूरमन्धकैः सार्द्धमुपायात् पुरुषर्षभः ।
युद्धे हत्वा तु शत्रुग्नं सह बन्धुमता बली ॥८५॥

श्वफल्कतनयायान्तु नरायां नरसत्तमौ ।
भङ्गकारस्य तनयो विश्रुतौ सुमहाबलौ ॥८६॥

जज्ञातेऽन्धकमुख्यस्य शत्रुघ्नो बन्धुमांश्च तौ ।
वधार्थं भङ्गकारस्य कृष्णो न प्रीतिमान् भवेत् ॥८७॥

ज्ञाति भेदभयाद्भीतः समुपेक्षितवांस्तथा ।
अपयाते तथाक्रूरे नावर्षत्पाकशासनः ॥८८॥

अनावृष्ट्या हतं राष्ट्रमभवत्तद्वघोद्यतम् ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥८९॥

पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा ।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥९०॥

कन्याञ्च वासुदेवाय स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ श्रीमान् प्रीत्यर्थं यदुपुङ्गवः ॥९१॥

अत विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्ये तदा प्राह तमक्रूरं जनार्दनः ॥९२॥

यच्च रत्नं मणिवरं तव हस्तगतं प्रभो ।
तत्प्रयच्छस्व मानार्ह विमतिञ्चात्र मा कृथाः ॥९३॥

षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम ।
सुसंरूढः सकृत् प्राप्तस्तत्कालाश्रित्य स महान् ॥९४॥

ततः कृष्णस्य वचनात् सर्व्वसात्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥९५॥

तत आर्ज्जवसंप्राप्तबभ्रुहस्तादरिन्दमः ।
ददौ प्रहृष्टमनसा तं मणिं बभ्रवे पुनः ॥९६॥

स कृष्णहस्तात् संप्राप्य मणिरत्नं स्यमन्तकम् ।
आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥९७॥

इमां मिथ्याभिशस्तिं यो विशुद्धामपि चोत्तमाम्  ।
वेद मिथ्याभि शस्तिं स न व्रजेच्च कथञ्चन ॥९८॥

अनिमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥९९॥

सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः ।
सात्यकिर्युयुधानस्य तस्य भूतिः सुतोऽभवत् ॥१००॥

भूतेर्युगन्धरः पुत्र इति भौत्याः प्रकीर्त्तिताः ।
जज्ञाते तनयौ पृश्रेः श्वफल्कश्चित्रकश्च यः ॥१०१॥

श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्त्तते ।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥१०२॥

कदाचित् काशिराजस्य विभोस्तु द्विजसत्तमाः ।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥१०३॥

स तत्र वासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ॥१०४॥

श्वफल्कः काशिराजस्य सुतां भार्यामनिन्दिताम् ।
गान्दिनीं नाम गां सा हि ददौ विप्राय नित्यशः ॥१०५॥

सा मातुरुदरस्था वै बहुवर्ष शतान् किल ।
वसति स्म न वै जज्ञे सर्भस्थान्तां पिताब्रवीत् ॥१०६॥

जायस्व शीघ्रं भद्रन्ते किमर्थं चापि तिष्ठसि ।
प्रोवाच चैनं गर्भ स्था सा कन्या गौर्दिने दिने ॥१०७॥

यदि दत्ता तदा स्यां हि यदि स्यामीहतां पितः ।
तथेत्युवाच तां तस्याः पिता काममपूपुरत् ॥१०८॥

दाता यज्वा च शूरश्च श्रुतवानतिथिप्रियः ।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्को भूरिदक्षिणः ॥१०९॥

उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः ।
गिरिरक्षस्तता यक्षः शत्रुघ्नो वारिमर्द्दनः ॥११०॥

धर्मभृच्च श्रृष्टचयो वर्गमोचस्तथापरः ।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥१११॥

अक्रूरादुग्रसेन्यान्तु सुतौ द्वौ कुलनन्दिनौ ।
देवश्चानुपदेवश्च जज्ञाते देवसंमितौ ॥११२॥

चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥११३॥

अरिष्टनेमिरश्वश्च सुवर्मा वर्मचर्मभृत्  ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥११४॥

सत्यकात् काशिदुहिता लेभे सा चतुरः सुतान् ।
ककुदं भजमानञ्च शमीकबलबर्हिषौ ॥११५॥

ककुदस्य सुतो वृष्टिर्वृष्टेस्तु तनयोऽभवत् ।
कपोतरोमा तस्याथ रेवतोऽभवदात्मजः ॥११६॥

तस्यासीत्तुम्बुरुसखा विद्वान् पुत्रोऽभवत्किल ।
ख्यायते यस्य नाम्ना स चन्दनोदकदुन्दुभिः ॥११७॥

तस्माच्चाभिजितः पुत्र उत्पन्नस्तु पुनर्वसुः ।
अश्वमेधन्तु पुत्रार्थे आजहार नरोत्तमः ॥११८॥

तस्य मध्येऽतिरात्रस्य सदोमध्यात्समुत्थितम् ।
ततस्तु विद्वान् धर्मज्ञो दाता यज्वा पुनर्वसुः ॥११९॥

तस्यापि पुत्रमिथुनं बाहुबाणाजितः किल ।
आहुकश्चाहुकी चैव ख्यातौ मतिमतांवरौ ॥१२०॥

इमांश्चोदाहरन्त्यत्र श्लोकान् प्रति तमाहुकम् ।
सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ॥१२१॥

रथानां मेघघोषाणां सहस्राणि दशैव तु ।
नासत्यवादी त्वासीत्तु नायज्वा नासहस्रदः ॥१२२॥

नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत् ।
आहुकस्य धृतिः पुत्र इत्येवमनु शुश्रुमः ॥१२३॥

श्वेतेन परिचारेण किशोरप्रतिमान् हयान् ।
अशीतियुक्तनियुतान्याहुकप्रतिमोऽव्रजत् ॥१२४॥

पूर्वस्यान्दिशि नागानां भोजस्य प्रतिरेजिरे ।
रूप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ॥१२५॥

तावन्त्येव सहस्राणि उत्तरस्यान्तथा दिशि ।
भूमिपालस्य भोजस्य उत्तिष्ठेत् किङ्किणी किल ॥१२६॥

आहुकश्चाहुकान्धाय स्वसारं त्वाहुकीन्ददौ ।
आहुकान्धस्य दुहिता द्वौ पुत्रौ सम्बभूवतुः ॥१२७॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ  ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥१२८॥

देवानामपि देवश्च सुदेवो देवरञ्जिता ।
तेषां स्वसारः सप्तासन् वसुदेवाय संददौ ॥१२९॥

वृकदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च महादेवा तथापरा ॥१३०॥

सप्तमी देवकी तासां सुनामा चारुदर्शना ।
नवोग्रसेनस्य सुताः कंसस्तेषान्तु पूर्वजः ॥१३१॥

न्यग्रोधश्च सुनामा च कद्वशंकुश्च भूमयः ।
॥सूतनू राष्ट्रपालश्च युद्धतुष्टः सुपुष्टिमान् ॥१३२॥

तेषां स्वसारः पञ्चैव कर्मधर्मवती तथा ।
शताङ्क्रू राष्ट्रापाला च कङ्वा चैव वराङ्गना ॥१३३॥

उग्रसेनो महापत्यो विख्यातः कुकुरोद्भवः ।
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ।
आत्मनो विपुलं वंशं प्रजावांश्च भवेन्नरः ॥१३४॥

भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः ।
राज्याधिदेवः शूरश्च विदुरश्च सुतोऽभवत् ॥१३५॥

तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः  ।
वातश्चैव निवातश्च शोणितः श्वेतवाहनः ॥१३६॥

शमी च गदवर्मा च निदातः शक्रशक्रजित् ।
शमिपुत्रः प्रतिक्षिप्तः प्रतिक्षिप्तस्य चात्मजः ॥१३७॥

स्वयम्भोजः स्वयम्भोजाद्धृदिकः सम्बभूव ह ।
हृदिकस्य सुतास्त्वासन् दश भीमपराक्रमाः ॥१३८॥

कृतवर्मा कृतस्तेषां शतधन्वा तु मध्यमः ।
देवार्हश्च वनार्हश्च भिषग् द्वैतरथश्च यः ॥१३९॥

सुदान्तश्च धियान्तश्च नकवान् कनकोद्भवः ।
देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः ॥१४०॥

असमौजाः सुतस्तस्य सुमहौजाश्च विश्रुतः ।
अजावपुत्राय ततः प्रददावसमौजसे ।
सुदंष्ट्रञ्च सुरूपञ्च कृष्ण इत्यन्धकाः स्मृताः  ॥१४१॥

अन्धकानामिमं वंशं कीर्त्तयानस्तु नित्यशः ।
आत्मानो विपुलं वंशं लभते नात्र संशयः ॥१४२॥

अस्मक्यां जनयामास शूरो वै देवमानुषिम् ।
माष्यान्तु जनयामास शूरो वै देवमीढुषम् ॥१४३॥

भाष्यान्तु जज्ञिरे शूराद्भोजायां पुरुषा दश ।
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ॥१४४॥

जज्ञे तस्य प्र॥सूतस्य दुन्दुभिः प्राणदद्दिवि ।
आनकानाञ्च संह्रादः सुमहानभवद्दिवि ॥१४५॥

पपात पुष्पवर्षञ्च शूरस्य भवने महत् ।
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ॥१४६॥

यस्यासीत् पुरुषाग्र्यस्य कीर्त्तिश्चन्द्रमसो यथा ।
देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ॥१४७॥

अनादृष्टिकडश्चैव नन्दनश्चैव भृञ्जिनः ।
श्यामः शमीको गण्डूषः चतस्रस्तु वराङ्गनाः ॥१४८॥

पृथा च श्रुतवेदा च श्रुतकीर्त्तिः श्रुतश्रवाः ।
राजाधिदेवी च तथा पञ्चैता वीरमातरः ॥१४९॥

पृथां दुहितरं चक्रे कुन्ति स्तां पाण्डुरावहत् ।
अनपत्याय वृद्धाय कुन्तिभोजाय तां ददौ ॥१५०॥

तस्मात् कुन्तीति विख्याता कुन्तीभोजात्मजा पृथा ।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥१५१॥

पृथा जज्ञे ततः पुत्रान् त्रीनग्निसमतेजसः ।
लोकेऽप्रतिरथान् वीरान् शक्रतुल्यपराक्रमान् ॥१५२॥

धर्माद्युधिष्ठिरं पुत्रं मारुताच्च वृकोदरम् ।
ईन्द्राद्धनञ्जयञ्चैव पृथा पुत्रानजीजनत् ॥१५३॥

माद्रवत्यान्तु जनितावाश्विनाविति विश्रुतम् ।
नकुलः सहदेवश्च रूपसत्त्वगुणान्वितौ ॥१५४॥

जज्ञे च श्रुतदेवायां तनयो वृद्धशर्मणः ।
करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ॥१५५॥

कैकेयां श्रुतकीर्त्यान्तु जज्ञे सन्तर्दनः पुनः ।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥१५६॥

विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥१५७॥

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः ।
यः पुरासीद्दशग्रीवः संबभूवारिमर्दनः ॥१५८॥

यदुश्रवानुजस्तस्य रुजकन्योऽनुजस्तथा ।
पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥१५९॥

पौरवी रोहिणी चैव मदिरा चापरा तथा ।
तथैव भद्रा वैशाखी देवकी सप्तमी तथा ॥१६०॥

सुगन्धिर्वनराजी च द्वे चान्ये परिचारिके॥
रोहिणी पौरवी चैव वाल्मीकस्यात्मजाभवत् ॥१६१॥

ज्येष्ठा पत्नी महाभागा दयितानकदुन्दुभेः  ।
ज्येष्ठं लेभे सुतं रामं सारणं निशवं तथा ॥१६२॥

दुर्द्दमं दमनं शुभ्रं पिण्डारककुशीतकौ ।
चित्रां नाम कुमारीञ्च रोहिण्यष्टौ व्यजायत ॥१६३॥

पौत्रौ रामस्य जज्ञाते विज्ञातौ निशितोत्सुकौ ।
पार्श्वी च पार्श्वनन्दी च शिशुः सत्यधृतिस्तथा ॥१६४॥

मन्दबाह्योऽथ रामाणगिरिकौ गिर एव च ।
शुक्लगुल्मेति गुल्मश्च दरिद्रान्तक एव च ॥१६५॥

कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत ।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥१६६॥

तथा शतबला चैव सारणस्य सुतास्त्विमाः ।
भद्राश्वो भद्रगुप्तिश्च भद्रविघ्नस्तथैव च ॥१६७॥

भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च ।
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वश्च भद्रजः ॥१६८॥

दुर्म्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः  ।
नन्दोपनन्तदौ मित्रश्च कुक्षिमित्रस्तथाचलः ॥१६९॥

चित्रोप चित्रे कन्ये च स्थितः पुष्टिरथापरः ।
मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ॥१७०॥

उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ॥१७१॥

वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम् ।
देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ॥१७२॥

तदयो भद्रसेनश्च यजुदायश्च पञ्चमः ।
षष्ठो भद्रविदेकश्च कंसः सर्वाञ्जघान तान् ॥१७३॥

अथ तस्यामवस्थायामायुष्मान् संबभूव ह ।
लोक नाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः ॥१७४॥

अनुजाताऽभवत् कृष्णा सुभद्रा भद्रभाषिणी ।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ॥१७५॥

सुभद्रायां रथी पार्थादभिमन्युरजायत ।
वसुदेवस्य भार्यासु महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरेशूरा नामतस्तान्निबोधत ॥१७६॥

अतोऽस्य सह देवायां शूरो जज्ञेऽभयासखः ।
शार्ङ्गदेवाजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ॥१७७॥

उपसङ्गं वसुञ्चापि तनयौ देवरक्षितौ ।
एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ॥१७८॥

विजयं रोजनञ्चैव वर्द्धमानं तथैव च ।
एतान् सर्व्वान् महाभागानुपदेवा व्यजायत ॥१७९॥

स्वगाहवं महात्मानं वृक देवी त्वजायत  ।
आगाही च स्वसा चैव सुरूपा शिशिरायिणी ॥१८०॥

सप्तमं देवकीपुत्रं सुनासा सुषुवे भुवम् ।
गवेषणं महाभागं सङ्ग्रामे चित्र योधिनम् ॥१८१॥

श्राद्धदेवं पुरा येन वने विरचिता द्विजाः ।
शैब्यायामददच्छौरिः पुत्रं कौशिकमव्ययम् ॥१८२॥

सुगन्धी वनराजी च शौरेरास्तां परिग्रहः ।
पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ ।
तयो राजाऽभवत् पुण्ड्रः कपिलस्तु वनं ययो ॥१८३॥

तस्यां समभवद्वीरो वसुदेवात्मजो बली ।
राजा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥१८४॥

विख्यातो देवरातस्य महाभागः सुतोऽभवत् ।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥१८५॥

अस्मक्यां लभते पुत्रमनादृष्टिं यशस्विनम् ।
निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम् ॥१८६॥

अजायत श्राद्धदेवो निषधादिर्यतः श्रुतः ।
एकलव्यो महावीर्यो निषादैः परिवर्द्धितः ॥१८७॥

गण्डूषायानपत्याय कृष्णस्तुष्टोऽददत् सुतौ ।
चारुदेष्णञ्च साम्बञ्च कृतास्त्रौ शस्तलक्षणौ ॥१८८॥

तन्तिजस्तन्तिमालश्च स्वपुत्रौ कनकस्य तु ।
वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान् ।
सौतिर्ददौ सुतं वीरं शौरिं कौशिकमेव च ॥१८९॥

तपाश्च कोधनुश्चैव विरजाः श्यामसृञ्जिमौ ।
अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्नुयात् ॥१९०॥

य इदं जन्म कृष्णस्य पठते नियतव्रतः ।
श्रावयेद्ब्राह्मणञ्चापि सुमहत्सुखमाप्नुयात् ॥१९१॥

देवदेवो महातेजाः पूर्व्वं कृष्णः प्रजापतिः  ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ॥१९२॥

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः ।
चतुर्बाहुः स विज्ञेयो दिव्यरूपः श्रियान्वितः ॥१९३॥

प्रकाशो भगवान् योगी कृष्णो मानुषमागतः ।
अव्यक्तोऽव्यक्तलिङ्गस्थः स एव भगवान् प्रभुः ॥१९४॥

नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः ।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ॥१९५॥

योऽसृजच्चादिपुरुषं पुरा चक्रे प्रजापतिम् ।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।
देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ॥१९६॥

प्रसादजं यस्य विभोरदित्याः पुत्रकारणम् ।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥१९७॥

ययातिवंशजस्याथ वसुदेवस्य धीमतः ।
कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः ॥१९८॥

सागराः समकम्पन्त चेलुश्च धरणीधराः ।
जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने ॥१९९॥

शिवाश्च प्रववुर्वाताः प्रशान्तिमभवद्रजः ।
ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्दने ॥२००॥

अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ।
मुहूर्त्तो विजयो नाम यत्र जातो जनार्दनः ॥२०१॥

अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः ।
जायते स्मैव भगवान् नयनैर्मोहयन् प्रजाः ॥२०२॥

आकाशात् पुष्पवृष्टीश्च ववर्ष त्रिदशेश्वरः ।
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ॥२०३॥

वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम् ।
श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः ।
उवाच वसुदेवः स्वं रूपं संहर वै प्रभो ॥२०४॥

भीतोऽहं कंसतस्तात एतदेव ब्रवीम्यहम् ।
मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ॥२०५॥

वसुदेववचः श्रुत्वा रूपं स हृतवान् प्रभुः ।
अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः ।
उग्रसेनमते तिष्ठन् यशोदायै तदा ददौ ॥२०६॥

तुल्यकालन्तु गर्भिण्यौ यशोदा देवकी तथा ।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥२०७॥

यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः ।
तामेव रजनीं कन्यां यशोदापि व्यजायत ॥२०८॥

तं जातं रक्षमाणस्तु वसुदेवो महायशाः ।
प्रादात् पुत्रं यशोदायै कन्यान्तु जगृहे स्वयम् ॥२०९॥

दत्त्वैनं नन्दगोपस्य रक्षमामिति चाब्रवीत् ।
सुतस्ते सर्व्वकल्याणो यादवानां भविष्यति ।
अयं स गर्भो देवक्या अस्मत्क्लेशान् हनिष्यति ॥२१०॥

उग्रसेनात्मजायाञ्च कन्यामानकदुन्दुभेः ।
निवेदयामास तदा कन्येति शुभलक्षणा ॥२११॥

स्वासायां तनयं कंसो जातं नैवावधारयत् ।
अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ॥२१२॥

हता वै या यदा कन्या जपत्येष वृथामतिः ।
कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ॥२१३॥

पुत्रवत्परिपाल्यन्तो देवा देवान् यथा तदा  ।
तामेव विधिनोत्पन्नामाहुः कन्यां प्रजापतिम् ॥२१४॥

एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह ।
तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः ।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥२१५॥

॥ऋषय ऊचुः॥

किमर्थं वसुदेवस्य भोजः कंसो नराधिपः ।
जघान पुत्रान् बालान् वै तन्नो व्याख्यातुमर्हसि ॥२१६॥

॥सूत उवाच॥
श्रृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः ।
जाताञ्जाताञ्चिशून् सर्व्वान् निष्पिपेष वृथामतिः ॥२१७॥

भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः ।
तथा च गोषु गोविन्दः संवृद्ध- पुरुषोत्तमः ॥२१८॥

उक्तं हि किल देवक्या वसुदेवस्य धीमतः  ।
सारथ्यं कृतवान् कंसो युवराजस्तदाऽभवत् ॥२१९॥

ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्यचित् ।
कंसो यया सदा भीतः पुष्कला लोकसाक्षिणी ॥२२०॥

यामेतां वहसे कंस रथेन परकारणात् ।
अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ॥२२१॥

तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः ।
निष्क्रम्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ॥२२२॥

तमुवाच महाबाहुर्वसुदेवः प्रतापवान् ।
उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ॥२२३॥

नस्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन ।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ॥२२४॥

योऽस्याः सम्भवते गर्भः सप्तमः पृथिवी पते ।
तमहन्ते प्रयच्छामि तत्र कुर्य्या यथाक्रमम् ॥२२५॥

त्वं त्विदानीं यथेष्टत्वं वर्तेथा भूरिदक्षिण ।
सर्वानस्यास्तु वै गर्भान् सत्यं नेष्यामि ते वशम् ॥२२६॥

एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति ।
एवमुक्तोऽनुनीतः स जग्राह तनयांस्तदा ॥२२७॥

वसुदेवश्च तां भार्य्यामवाप्य मुदितोऽभवत् ।
कंसश्चास्यावधीत् पुत्रान् पापकर्म्मा वृथामतिः ॥२२८॥

 ॥ऋषय ऊचुः॥

क एष वसुदेवश्च देवकी च यशस्विनी ।
नन्दगोपस्तु कस्त्वेष यशोदा च महायशाः ।
यो विष्णुं जनयामास या चैनं चाभ्यवर्द्धयत् ॥२२९॥

॥सूत ऊवाच॥
पुरुषाः कश्यपस्यासन्नादित्यास्तु स्त्रियास्तथा ।
अथ कामान् महाबाहुर्देवक्याः समवर्द्धयत् ॥२३०॥

अचरत् स महीं देवः प्रविष्टो मानुषीं तनुम् ।
मोहयन् सर्वभूतानि योगात्मा योगमायया ॥२३१॥

नष्टे धर्म्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् ।
कर्तुं धर्म्मव्यवस्थानमसुराणां प्रणाशनम् ॥२३२॥

आहृता रुक्मिणी कन्या सत्या नग्नजितस्तदा ।
सात्राजिती सत्यभामा जाम्बवत्यपि रोहिणी ॥२३३॥

शैब्या सुदेवी माद्री च सुशीला नाम चापरा ।
कालिन्दी मित्रविन्दा च लक्ष्मणा जालवासिनी ॥२३४॥

एवमादीनि देवानां सहस्राणि च षोडश ।
चतुर्द्दश तु ये प्रोक्ता गणाश्चाप्सरसां दिवि  ।
विचिन्त्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः ॥२३५॥

पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु ।
एताः पत्न्यो महाभागा विंष्वक्सेनस्य विश्रुताः ॥२३६॥

प्रद्युम्नश्चारुदेष्णश्च सुदेष्णः शरभस्तथा ।
चारुश्च चारुभद्रश्च भद्रचारुस्तथाऽपरः ॥२३७॥

चारुविन्ध्यश्च रुक्मिण्यां कन्या चारुमती तथा ।
सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रयस्तथा ॥२३८॥

जरान्धकस्ताम्रवक्षा भौमरिश्च जरन्धमः ।
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ॥२३९॥

भानुर्भौमरिका चैव ताम्रपर्णी जरन्धमा ।
सत्यभामासुतानेताञ्जाम्बवत्याः प्रजाः श्रृणु ॥२४०॥

भद्रश्च भद्रगुप्तश्च भद्रविन्द्रस्तथैव च ।
सप्तबाहुश्च विख्यातः कन्या भद्रावती तथा ।
सम्बोधनी च विख्याता ज्ञेया जाम्बवतीसुताः ॥२४१॥

संग्रामजिच्च शतजित् त न च सहस्रजित् ।
एते पुत्राः सुदेव्याश्च विष्वक्सेनस्य कीर्त्तिताः ॥२४२॥

वृको वृकाश्वो वृकजिद्वृजिनी च सुराङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजास्त्विह ॥२४३॥

एवमादीनि पुत्राणां सह स्राणि निबोधत ।
प्रयुतन्तु समाख्यातं वासुदेवस्य ये सुताः ॥२४४॥

अयुतानि तथाष्टौ च शूरा रणविशारदाः ।
जनार्दनस्य वंशो वः कीर्त्तितोऽयं यथातथम् ॥२४५॥

बृहती नर्तकोन्नेयी सुनये सङ्गता तथा  ।
कन्या सा बृहदुच्छस्य शौनेयस्य महात्मनः ॥२४६॥

तस्याः पुत्रास्तु विख्याता स्त्रयः समितिशोभनाः  ।
अङ्गदः कुमुदः श्वेतः कन्या श्वेता तथैव च ॥२४७॥

अवगाहश्च चित्रश्च शूरश्चित्रवरश्च यः ।
चित्रसेनः सुतश्चास्य कन्या चित्रवती तथा ॥२४८॥

तुम्बश्च तुम्बबाणश्च जनस्तम्बश्च तावुभौ ।
उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिप्र एव च ॥२४९॥

भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ  ।
युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ॥२५०॥

तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः ।
वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चात्मजः ॥२५१॥

काश्मा सुपार्श्वं तनयं जज्ञे साम्बा तरस्विनम् ।
तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ॥२५२॥

षष्टिंशतसहस्राणि वीर्य्यवन्तो महाबलाः ।
देवांशाः सर्व्व एवेह उत्पन्नास्ते महौजसः ॥२५३॥

दैवासुरे हता ये च असुरा वै महातपाः ।
इहोत्पन्ना मनुष्येषु बाधन्ते सर्व्वमानवान्  ।
तेषामुत्सादनार्थन्तु उत्पन्ना यादवे कुले ॥२५४॥

कुलानि दश चैकञ्च यादवानां महात्मनाम् ।
सर्व्वमककुलं यद्वद्वर्त्तते वैष्णवे कुले ॥२५५॥

विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः  ।
निदेशस्थायिभिस्तस्य बद्ध्यन्ते सर्वमानुषाः ॥२५६॥

इति प्र॥सूतिर्वृष्णीनां समासव्यासयोगतः ।
कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिमभीप्सिताम् ॥२५७॥

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुवंशानुकीर्त्तनं नाम चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP