संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ६

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥ऋषय उचुः॥

एतच्छ्रुत्वा वचस्तस्य नैमिषेयास्तपस्विनः ।
पप्रच्छु॥ऋषयः श्रेष्ठं वचनस्य यथाक्रमम् ॥१॥

सप्तस्विह कथं देवा जाता मन्वन्तरेष्विह ।
इन्द्रविष्णुप्रधानास्ते आदित्यास्तु महौजसः ।
एतत् प्रब्रूहि नः सर्वं विस्तराद्रोमहर्षण ॥२॥

एव मुक्तस्तदा॥सूतो विनयी ब्रह्मवादिभिः ।
उवाच वदतां श्रेष्ठो यथा पृष्टो महर्षिभिः ॥३॥

॥सूत उवाच॥
व्रह्मणो वै मुखात् सृष्टा यथा देवाः प्रजेप्सया ।
सर्व मन्त्रशरीरास्ते स्मृता मन्वतरेष्विह ॥४॥

दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् ।
आकूतः प्रथमस्तेषां ततस्त्वाकूतिरेव च ॥५॥

वित्तिश्चैव सुवित्तिश्च आकूतिः कूतिरेव च ।
अधीष्टस्तु ततो ज्ञेयः अधीतिश्चैव तत्त्वतः ।
विज्ञातिश्चैव विज्ञातो मानवो ये च द्वादश ॥६॥

ज्ञेयो द्वादशपुत्रश्च यश्चाब्देन समाजयेत् ।
तं दृष्ट्वा चाब्रवीद्ब्रह्मा जया देवानसूयत ॥७॥

दारा ग्रिहोत्रसंयोगे मिथ्यामारभतेति च ।
एवमुक्त्वा तु तं व्रह्मा तत्रैवान्तरधीयत ॥८॥

ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः ।
सत्यस्येह तु कर्माणि वाङ्मनः कर्मजानि तु ॥९॥

य एवाप्यवतिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु ।
क्षयातिशययुक्तन्तु ते दृष्ट्वा कर्मणां फलम् ॥१०॥

जुगुप्सन्तः प्र॥सूतिञ्च निस्तन्द्रा निर्ममाभवन् ।
अजस्रं कांक्षमाणास्ते विरक्ता दोषदर्शिनः ॥११॥

अर्थं धर्मञ्च कामञ्च हित्वा ते वै व्यवस्थिताः ।
पौरुषं ज्ञानमास्थाय तेजः संक्षिप्य चास्थिताः ॥१२॥

तेषाञ्च तमभिप्रायं ज्ञात्वा ब्रह्मा चुकोप ह ।
तानब्रवीत्तदा ब्रह्मा निरुत्साहात् सुरानथ ॥१३॥

प्रजार्थमिह यूयं वै प्रजास्रष्टाऽस्मि नान्यथा ।
प्रसूयध्वं जयघ्वञ्चेत्युक्तवानस्मि यत् पुरा ॥१४॥

यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः ।
जुगुप्समानाः स्वं जन्म सन्ततिं नाभि नन्दथ ॥१५॥

कर्मणाञ्च कृतो न्यासो ह्यमृतत्त्वाभिकांक्षया ।
तस्माद्यूयमनादृत्य सप्तकृत्वस्तु यास्यथ ॥१६॥

ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन् ।
क्षमास्माकं महादेव यदज्ञानात् कृतं विभो ॥१७॥

प्रणिपत्य सानुनयं ब्रह्मा तानब्रवीत् पुनः ।
लोके मयाननुज्ञातः कः स्वातन्त्र्यमिहार्हसि ॥१८॥

मया परिगतं सर्वं कथमच्छन्दतो मम ।
प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वाऽशुभम् ॥१९॥

लोके यदस्ति किञ्चिद्वै सत्त्वासत्त्वव्यवस्थितम् ।
बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिसन्धयेत् ॥२०॥

भूतानां तर्कितं यच्च यच्चाप्येषां विधारितम् ।
तथा विचारितं यच्च तत्सर्वं विदितं मम ॥२१॥

मया स्थितमिदं सर्वं जगत् स्थावरजङ्गमम् ।
आशामयेन तत्त्वेन कथं छेत्तुमिहोत्सहे ॥२२॥

यस्माच्चाहं विवृत्तो वै सर्गार्थमिह नान्यथा ।
इह कर्माण्यनारभ्य को मे छन्दाद्विमोक्ष्यते ॥२३॥

परिभाष्य ततो देवान् जयान् वै नष्टचेतसः ।
अब्रवीत्स पुनस्तान् वै धृतान् दण्डे प्रजापतिः ॥२४॥

यस्मान्ममाभिसन्धाय सन्न्यासो वः कृतः पुरा ।
यस्मात्स विफलोऽयन्नो ह्यपारस्त्वेष यः कृतः ।
भविताऽतः सुखोदर्को देवा भावेषु जायताम् ॥२५॥

आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः ।
मन्वन्तरेषु संमूढाः षट्‌सु सर्वे गमिष्यथ ॥२६॥

वैवस्वतान्तेषु सुरास्तथा स्वायम्भुवादिषु ।
तान् ज्ञात्वा ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥२७॥

त्रयीं विद्यां ब्रह्मचर्यं प्र॥सूतिं श्राद्धमेव च  ।
यज्ञञ्चैव तु दानञ्च एषामेव तु कुर्वताम् ।
स हि स्म विरजा भूत्वा वसतेऽन्यप्रशंसया ॥२८॥

स एवं स्लोकं दृष्ट्वा तु जया देवानथाब्रवीत् ।
वैवस्वतेऽन्तरेऽतीते मत्समीपमिहेष्यथ ॥२९॥

ततो यूयं मया सार्द्धं सिद्धिं प्राप्स्यथ शाश्वतीम् ।
एवमुक्त्वा तु तान् ब्रह्मा तत्रैवान्तरधीयत ॥३०॥

ततो देवास्तिरोभूते ईश्वरे ह्यकुतोभयम् ।
प्रपन्ना अणिमाद्यैश्च युक्ता योगबलान्विताः ॥३१॥

ततस्तेषान्तु यास्तन्वस्ताऽभवन् द्वादश ह्रदाः ।
जया इति समाख्याता जाता श्चोदधिसन्निभाः ॥३२॥

ततः स्वायम्भुवे तस्मिन् सर्गेते जज्ञिरे सुराः ।
अजितायां रुचेः पुत्रा अजिता द्वादशात्मकः ॥३३॥

विधिश्च मुनयश्चैव क्षेमो नन्दोऽव्ययस्तथा ।
प्राणोऽपानः सुधामा च क्रतुशक्तिव्यवस्थिताः  ।
इत्येते मानसाः सर्वे अजिता द्वादश स्मृताः ॥३४॥

ते च यज्ञे सुरैः सार्द्धं यज्ञभाजस्तदा स्मृताः ।
स्वायम्भुवेऽन्तरे पूर्वे ततः स्वारोचिषे पुनः ।
तुषितायां समुत्पन्नाः पुनः पुत्राः स्वरोचिषः ॥३५॥

तुषिता नाम ते ह्यासन् प्राणाख्या यात्रिकाः सुराः ।
पुनस्ते तुषिता देवा उत्तमे त्वन्तरे स्वयम् ॥३६॥

उत्तमस्य तु ते पुत्राः सत्यायां जज्ञिरे शुभाः ।
ततः सत्याः स्मृता देवा उत्तमे चान्तरे तदा ॥३७॥

अभजन् यज्ञभाजस्ते तृतीये द्वापरान्तरे ।
ते तु सत्याः पुनर्द्देवाः सम्प्राप्ते तामसेऽन्तरे ॥३८॥

हर्षा ये तमसः पुत्रा जज्ञिरे द्वादशैव तु  ।
हरयो नाम ते देवा यज्ञभाजस्तथाऽभवन् ॥३९॥

ततस्ते हरयो देवाः प्राप्ते चारिष्णवेऽन्तरे ।
वैकुण्ठायां ततस्ते वै चरिष्णोर्जज्ञिरे सुराः ।
वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मनोः ॥४०॥

ततस्ते वै पुनर्द्देवा वैकुण्ठाः प्राप्य चाक्षुषम् ।
साध्यायां द्वादश सुता जज्ञिरे धर्मसूनवः ॥४१॥

ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेऽन्तरे  ।
उपस्थिते मनोः सर्गे पुनर्वैवस्वतस्य ह ॥४२॥

आद्ये त्रेतायुगमुखे प्राप्ते वैवस्वतस्य तु  ।
अंशेन साध्यास्तेऽदित्यां मारीचात् कश्यपात् पुनः ॥४३॥

जज्ञिरे द्वादशादित्या वर्त्तमानेऽन्तरे पुनः ।
यदा त्वेते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ॥४४॥

ततः स्वायम्भुवे साध्या जज्ञिरे द्वादशामराः ।
एवमाद्या जयास्ते वै शापात्समभवंस्तदा ॥४५॥

य इमां सप्तसम्भूतिं देवानां देवशासनात्  ।
पठेद्यः श्रद्धया युक्तः प्रत्वायं न गच्छति ॥४६॥

इत्येते भूतयः सप्त जयानां सप्तलक्षणाः ।
परिक्रान्ता मया चाद्य किम्भूयः श्रोतुमिच्छथ ॥४७॥

  ॥ऋष ऊचुः॥

दैत्यानां दानवानाञ्च गन्धर्वोरगरक्षसाम् ।
सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम् ।
उत्पत्तिं निधनञ्चैव विस्तरात् कथयस्व नः ॥४८॥

एवमुक्तस्तदा॥सूत उवाच ऋषिसत्तमान्  ।
दितेः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥४९॥

कश्यपस्यात्मजौ तौ वै सर्वेभ्यः पूर्वजौ स्मृतौ ।
॥सूत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिके ॥५०॥

हिरण्यकशिपुर्नाम प्रथमं ऋत्विगासनम् ।
दित्या गर्भाद्विनिःसृत्य तत्रासीनोच्चसंसदि ।
हिरण्यकशिपुस्तस्मात् कर्मणा तेन स स्मृतः ॥५१॥

॥ऋषय ऊचुः॥

हिरण्यकशिपोर्नाम जन्म चैव महात्मनः ।
प्रभाव़ञ्चैव दैत्यस्य विस्तराद्ब्रूहि नः प्रभो ॥५२॥

 ॥सूत उवाच॥
कश्यपस्याश्वमेधोऽभूत् पुण्यो वै पुष्करे पुरा ।
ऋषिभिर्द्देवताभिश्च गन्धर्वै रुपशोभितः ॥५३॥

उत्कृष्टेनैव विधिना आख्यानादौ यथाविधि ।
आसनान्युपक्लृप्तानि काञ्चनानि तु पञ्च वै ॥५४॥

कुशपूतानि त्रीण्यत्र कूर्चफलकमेव च ।
मुख्यार्त्विजश्च चत्वारस्तेषान्तान्युपकल्पयेत् ॥५५॥

शुभं तत्रासनं यत्तु होतुरर्थे प्रकल्पितम् ।
हिरण्मयं तथा दिव्यं दिव्यास्तरणसंस्तृतम् ॥५६॥

अन्तर्वत्नी दितिश्चैव पत्नीत्वं स्मुपागता ।
दश वर्षसहस्राणि गर्भस्तस्या अवर्तत ॥५७॥

स तु गर्भाद्विनिःसृत्य मातुर्वै उदरात्तदा ।
उपक्लृप्तासनं यत्तु होतुरर्थे हिरण्मयम् ।
निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ॥५८॥

आक्यानपञ्चमान् वेदान् महर्षिः काश्यपो यथा ।
तं दृष्ट्वा मुनयस्तस्य नामाकुर्वंस्तु तद्विधम् ॥५९॥

हिरण्यकशिपुस्तस्मात् कर्मणा तेन विश्रुतः ।
हिरण्याक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा ।
राहोः सा जननी देवी विप्रचित्तेः परिग्रहात् ॥६०॥

हिरण्यकशिपुर्द्दैत्यश्चचार परमं तपः ।
शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ॥६१॥

तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु ।
सर्वामरत्वं विप्रेभ्यः सर्वभूतेभ्य एव च ।
योगाद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ॥६२॥

दानवाश्चासुराश्चैव देवाः समा भवन्तु वै ।
मारुतेर्यन्महैश्वर्यमेष मे दीयतां वरः ॥६३॥

एवमुक्तोऽथ ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम् ।
दत्त्वा तस्मै वरान् दिव्यान् तत्रैवान्तरधीयत ।
हिरण्यकशिपुर्दैत्यः श्लोकैर्गीतः पुरातनैः ॥६४॥

राजा हिरण्यकशिपुर्यां यामाशां निषेवते ।
तस्यास्तस्या दिशो देवा नमश्चक्रुर्महर्षिभिः ॥६५॥

एवंप्रभावो दैत्येन्द्रो हिरण्यकशिपु र्द्विजाः ।
तस्यासीन्नरसिंहः स विष्णुर्मृत्युः पुरा किल ।
नखैस्तु तेन निर्भिन्नस्ततः शुद्धा नखाः स्मृताः ॥६६॥

हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहा बलाः ।
उत्कुरः शकुनिश्चैव कालनाभस्तथैव च ॥६७॥

महानाभश्च विक्रान्तो भूतसन्तापनस्तथा ।
हिरण्याक्षसुताः ह्येते देवैरपि दुरासदाः ॥६८॥

तेषां पुत्राश्च पौत्राश्च बाडेयः सगणः स्मृतः ।
शतन्तानि सहस्राणि निहतास्तारकामये ॥६९॥

हिरण्यकशिपोः पुत्राश्चत्वारस्तु महाबलाः ।
प्रह्लादः पूर्वजस्तेषामनुह्लादस्तथैव च ।
संह्रादश्च ह्रदश्चैव ह्रदपुत्रान्निबोधत ॥७०॥

ह्रादो निसुन्दश्च तता ह्रदपुत्रौ बभूवतुः ।
सुन्दोपसुन्दौ विक्रान्तौ निसुन्दतन यावुभौ ॥७१॥

ब्रह्मघ्नस्तु महावीर्यो मूकस्तु ह्रददायिनः ।
मारीचः सुन्दपुत्रस्तु ताडकामुपपद्यते ॥७२॥

ताडका निहता साऽथ राघवेण बलीयसा ।
मूको विनिहतश्चापि किराते सव्यसाचिना ॥७३॥

उत्पन्ना महता चैव तपसा भाविताः स्वयम् ।
तिस्रः कोट्यस्तु तेषां वै मणिवर्त्तनिवासिनाम् ।
अवध्या देवतानां वै निहताः सव्यसाचिना ॥७४॥

अनुह्लादसुतो वायुः शिनीवाली तथैव च  ।
तेषान्तु शतसाहस्रो गणो हालाहलः स्मृतः ॥७५॥

वैरोचनस्तु प्राह्लादिः पञ्च तस्यात्मजाः स्मृताः ।
गवेष्ठी कालनेमिश्च जम्भो बाष्कल एव च ।
शम्भुस्तु अनुजस्तेषां स्मृताः प्राह्लादिसूनवः ॥७६॥

यथाप्रधानं वक्ष्यामि तेषां पुत्रान् दुरासदान् ।
शुम्भश्चैव निशुम्भश्च विष्वक्सेनो महौजसः ॥७७॥

गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः ।
तथा दक्षश्च खण्डश्च त्रयस्तु जम्भसूनवः ॥७८॥

विरोधश्च मनुश्चैव वृक्षायुः कुशलीमुखः ।
बाष्कलस्य सुता ह्येते कालनेमिसुतान् श्रृणु ॥७९॥

ब्रह्मजित् क्षत्रजिच्चैव देवान्तकनरान्तकौ  ।
कालनेमिसुता ह्येते शम्भोस्तु श्रृणुत प्रजाः ॥८०॥

धनुको ह्यसिलोमा च नाबलश्च सगोमुखः ।
गवाक्षश्चैव गोमांश्च शम्भोः पुत्राः प्रकीर्त्तिताः ॥८१॥

विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान् ।
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥८२॥

तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः ।
सहस्रबाहुर्ज्येष्ठस्तु बाणो द्रविणसम्मतः ।
कुम्भनाभो गर्द्दभाक्षः कुशिरित्येवमादयः ॥८३॥

शकुनी पूतना चैव कन्ये द्वे तु बलेः सुते ।
बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥८४॥

बलिर्यो नामविख्यातो गणो विक्रान्तपौरुषः ।
बाणस्य चन्द्र मनसो लौहित्यमुपपद्यते ॥८५॥

दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ।
स कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया  ।
वरेण च्छन्दयामास सा च वव्रे वरं ततः ॥८६॥

स तु तस्यै वरं प्रादात् प्रार्थितं भगवन् प्रभुः ।
किमिच्छसि मयि शुभ्रे मारीचस्तामभाषत ॥८७॥

मारीचं कश्यपं तुष्टं भर्तारं प्राञ्जलिस्तथा ।
हतपुत्रास्मि भगवान् आदित्यैस्तव सूनुभिः ॥८८॥

शक्रहन्तारमिच्छेयं पुत्रं दीर्घतपोऽन्वितम् ।
अहं तपश्चरिष्यामि गर्भ माधातुमर्हसि ॥८९॥

तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तथा ।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥९०॥

एवं भवतु भद्रन्ते शुचिर्भव तपोधने ।
जनयिष्यसि सत्पुत्रं शक्रहन्तारमाहवे ॥९१॥

पूर्णं वर्षशतं तावत् शुचिर्यदि भविष्यसि  ।
पुत्रं त्रिलोकप्रचरमथत्वं जनयिष्यसि ॥९२॥

एवमुक्त्वा महातेजास्तया समवसत् प्रभुः  ।
तामालिङ्ग्य त्रिभुवनं जगाम भगवानृषिः ॥९३॥

गते भर्त्तरि सा देवी दितिः परमहर्षिता ।
कुशलं वनमासाद्य तपस्तेपे सुदारुणम् ॥९४॥

तपस्तस्यान्तु कुर्वन्त्यां परिचर्याञ्चकार ह ।
सहस्राक्षः सुरश्रेष्ठः परया गुणसम्पदा ॥९५॥

अग्निं समित्कुशं काष्ठं फलं मूलं तथैव च ।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि किञ्चन ॥९६॥

गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा ।
शक्रः सर्वेषु (लोकेषु) कालेषु दितिं परिचचार ह  ।
एवमाराधिता शक्रमुवाचाथ दितिस्तथा ॥९७॥

॥दितिरुवाच॥
प्रीता तेऽहं सुरश्रेष्ठ दशवर्षाणि पुत्रक ।
अवशिष्टानि भद्रान्ते भ्रातरं द्रक्ष्यसे ततः ॥९८॥

जयलिप्सां समाधास्ये लब्ध्वाहं तादृशं सुतम् ।
त्रैलोक्यविजयं पूत्र प्राप्स्यामि सह तेन वै ॥९९॥

एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे  ।
निद्रयापहृता देवी जान्वोः कृत्वा शिरस्तदा ॥१००॥

दृष्ट्वा तामशुचिं शक्रः पादयोर्गतमूर्द्धजाम्  ।
तस्यास्तदन्तरं लब्ध्वा जहास च मुमोद च ॥१०१॥

तस्याः शरीरं विवृतं विवेशाथ पुरन्दरः ।
प्रविश्य चामितं दृष्ट्वा गर्भमिन्द्रो महौजसम् ।
अभिनत्स प्रधानन्तु कुलिशेन महायशाः ॥१०२॥

भिद्यमानस्तदा गर्भो वज्रेण शतपर्वणा ।
रुरोद सस्वरं भीमं वेपमानः पुनः पुनः  ।
मारोदीरिति तं गर्भं शक्रः पुनरभाषत ॥१०३॥

तं गर्भं सप्तधाभूतं ह्येकैकं सप्तधा पुनः ।
कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यत ॥१०४॥

न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत्  ।
निष्पपातोदराद्वज्री मातुर्वचनगौरवात् ।
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ॥१०५॥

अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा ।
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
भिन्नवान् गर्भमेतन्ते बहुधा क्षन्तुमर्हसि ॥१०६॥

तस्मिस्तु विफले गर्भे दितिः परमदुःखिता ।
सहस्राक्षं ततो वाक्यं मातुर्नयनमब्रवीत् ॥१०७॥

ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः ।
नापराधोऽस्ति देवेश ऋषिपुत्र महाबल ॥१०८॥

शत्रोर्वधे न दोषोऽस्ति तेन त्वां न शपामि भोः ।
प्रियन्तु कर्त्तुमिच्छामि श्रेयो गर्भस्य मे कुरु ॥१०९॥

भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि ।
वातस्कन्धानिमान् सप्त चरन्तु मम पुत्रकाः ।
मरुतश्चेति विख्याता गणास्ते सप्त सप्तकाः ॥११०॥

पृथिव्यां प्रथमस्कन्धो द्वितीयश्चैव भास्करे ।
सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ॥१११॥

ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले ।
ध्रुवे तु सप्तमश्चैव वातस्कन्धः परस्तु सः ॥११२॥

तान्येते विचरन्त्वद्य काले काले ममात्मजाः ।
वातस्कन्धानिमान् भूत्वा चरन्तु मम पुत्रकाः ॥११३॥

पृथिव्यां प्रथमस्कन्धो अमेध्येभ्यो य आवहः ।
चरन्तु मम पुत्रास्ते प्रथमश्चरताङ्गणः ॥११४॥

द्वितीयश्चापि मेध्येभ्य आसूर्यात् प्रवहस्तु यः ।
वातस्कन्धं द्वितीयन्तु द्वितीयश्चरताङ्गणः ॥११५॥

सूर्योर्द्ध्वन्तु ततः सोमादुद्वहो यस्तु वै स्मृतः ।
वातस्कन्धन्तु तं प्राहुस्तृतीयश्चरताङ्गणः ॥११६॥

सोमादूर्द्ध्वं तथर्क्षेभ्यश्चतुर्थः सुवहस्तु यः ।
चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ॥११७॥

यक्षेभ्यश्च तथैवोर्द्ध्वमाग्रहाद्विवहस्तु यः ।
पञ्चमं पञ्चमः सौम्यः स्कन्धस्तु चरताङ्गणः ॥११८॥

ऊर्द्ध्वं ग्रहादृषिभ्यस्तु षष्ठो यो वै पराहतः  ।
चरन्तु मम पुत्रास्तु तत्र षष्ठे गणे तु ये ॥११९॥

सप्तर्षयस्तथैवोर्द्ध्वमाध्रुवात् सप्तमस्तु यः ।
वात स्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥१२०॥

एतत् सर्वं चरन्त्वेते काले काले ममात्मजाः ।
तत्र तेन च नाम्ना वै भवन्तु मरुतस्त्विमे ॥१२१॥

ततस्तेषान्तु नामानि मातापुत्रौ प्रचक्रतुः ।
तत्कृते कर्मभिश्चैव मरुतो वै पृथक् पृथक् ॥१२२॥

सत्त्वज्योतिस्तथादित्यः सत्यज्योतिस्तथाऽपरः ।
तिर्यग्ज्योतिश्च सज्योतिर्ज्ज्योतिष्मानपरस्तथा ॥१२३॥

प्रथमस्तु गणः प्रोक्तो द्वितीयं मे निबोधत ।
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥१२४॥

सत्मित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः ।
गण एष द्वितीयस्तु तृतीयं मे निबोधत ॥१२५॥

कृतः सत्यो * * * * ध्रुवो धर्त्ता विधारयः  ।
ध्वान्तश्चैव धुनिश्चैव ह्युग्रो भीमस्तथैव च ।
अभियुः सक्षिपश्चैवमाह्वयश्च गणः स्मृतः ॥१२६॥

ईदृकू चैव तथान्यादृक् यादृक् च प्रतिकृत्तथा ।
(?) समितिश्चैव संरम्भश्च तथा गणः ॥१२७॥

ईदृक् च पुरुषश्चैव अन्यादृक्षाच्च चेतसः ।
समितासमितदृक्षाच्च प्रतिदृक्षाच्च वै गुणाः ॥१२८॥

एते ह्येको नपञ्चाशन्मरुतो नामतः स्मृताः ।
प्रसंख्यातास्तथा ताभ्यां दित्या चन्द्रेण चैव हि ॥१२९॥

श्रुत्वा तेषान्तु नामानि दितिरिन्द्रमुवाच ह ।
वात स्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक ।
विचरन्तु च भद्रन्ते देवैः सह ममात्मजाः ॥१३०॥

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ।
उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ॥१३१॥

सर्वमेतद्यथोक्तन्ते भविष्यति न संशयः ।
देवभूता महात्मानः कुमारा देवसंमताः ।
देवैः सह भविष्यन्ति यज्ञ भाजस्तथात्मजाः ॥१३२॥

तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजामराः ।
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तपस्विनः ॥१३३॥

एवं तौ निश्चयं ज्ञात्वा मातापुत्रौ तपोधनौ ।
जग्मतुस्त्रिदिवं हृष्टौ शक्रोऽपि त्रिदिवं गतः ॥१३४॥

मरुतां हि शुभं जन्म श्रृणुयाद्यः पठेत वा ।
नावृष्टिभयमाप्नोति बह्वायुश्च भवेत्ततः ॥१३५॥

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP