संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


सूत उवाच॥
सप्तमे त्वथ पर्याये मनोर्वैवस्वतस्य ह ।
मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः ॥१॥

आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोऽङ्गिरसश्चैव ह्यष्टौ देवगणाः स्मृताः ॥२॥

आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च वसवो विश्वे धर्मपुत्रास्त्रयो गणाः ॥३॥

भृगोस्तु भार्गवो देवो ह्यङ्गिरोऽङ्गिरसः सुतः  ।
वैवस्वतेऽन्तेरे ह्यस्मिन् नित्यं ते छन्दजाः सुराः ॥४॥

एष सर्गस्तु मारीचो विज्ञेयः साम्प्रतः शुभः ।
तेजस्वी साम्प्रतस्तेषामिन्द्रो नाम्ना महाबलः ॥५॥

अतीतानागता ये च वर्त्तन्ते ये च साम्प्रतम् ।
सर्वे मन्वन्तरेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ॥६॥

भूतभव्यभवन्नाथः सहस्राक्षः पुरन्दरः  ।
मघवन्तश्च ते सर्वे श्रृङ्गिणो वज्रपाणयः ।
सर्वैः क्रतुशतेनेष्टं पृथक् शतगुणेन तु ॥७॥

त्रैलोक्ये यानि सत्त्वानि गतिमन्त्यबलानि च ।
अभिभूयावतिष्ठन्ते धर्माद्यैः कारणैरपि ॥८॥

तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः ।
भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः ।
एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मेनिबोधत ॥९॥

भूतं भव्यं भविष्यं तत् स्मृतं लोकत्रयं द्विजैः ।
भूर्लोकोऽयं स्मृतो भूमिरन्तरिक्षं भुवं स्मृतम्  ।
भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम् ॥१०॥

ध्यायता पुत्रकामेन ब्रह्मणाग्रे विभाषितम् ।
भूरिति व्याहृतं पूर्वं भूर्लोकोऽयमभूत्तदा ॥११॥

भूतेऽस्मिन् भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः ।
भवत्वाद्दर्शनत्वाच्च भूर्लोकोऽयमभूत्ततः ।
अतोऽयं प्रथमो लोको भूतत्वाद्भूर्द्विजैः स्मृतः ॥१२॥

भूतेऽस्मिन् भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः ।
भवत्युत्पद्यमानेन कालशब्दोऽयमुच्यते ॥१३॥

भवनात्तु भुवर्लोको निरुक्तज्ञैर्निरुच्यते ।
अन्तरिक्षं भुवस्तस्माद् द्वितीयो लोक उच्यते ॥१४॥

उत्पन्ने तु भुवर्लोके तृतीयं ब्रह्मणा पुनः  ।
भव्येति व्याहृतं यस्माद्भव्यो लोकस्तदाऽभवत् ॥१५॥

अनागते भव्य इति शब्द एष विभाव्यते ।
तस्माद्भव्यो ह्यसौ लोको नामतस्तु दिवं स्मृतम् ॥१६॥

स्वरित्युक्तं तृतीयोऽन्यो भाव्यो लोकस्तदाभवत् ।
भाव्य इत्येष धातुर्वै भाव्ये काले विभाव्यते ॥१७॥

भूरितीयं स्मृता भूमिरन्तरिक्षं भुवं स्मृतम् ।
दिवं स्मृतं तथा भाव्यं त्रैलोक्यस्यैष संग्रहः ॥१८॥

त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन् ।
नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ॥१९॥

यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तदा ।
लोकत्रयस्य नाथास्ते तस्मादिन्द्रा द्विजैः स्मृताः ॥२०॥

प्रधानभूता देवेन्द्रा गुण भूतास्तथैव च ।
मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ॥२१॥

यक्षगन्धर्वरक्षांसि पिशाचोरगदानवाः ।
महिमानः स्मृता ह्येते देवन्द्राणान्तु सर्वशः ॥२२॥

देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते  ।
रक्षन्तीमाः प्रजाः सर्वा धर्मेणेह सुरोत्तमाः ॥२३॥

इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः ।
सप्तर्षीन् सम्प्रवक्ष्यामि साम्प्रतं ये दिवि स्थिताः ॥२४॥

गाधिजः कौशिको धीमान् विश्वामित्रो महातपाः ।
भार्गवो जमदग्निश्च ऊरुपुत्रः प्रतापवान् ॥२५॥

बृहस्पतिसुतश्चापि भारद्वाजो महातपाः ।
औतथ्यो गौतमो विद्वाञ्छरद्वान्नाम धार्मिकः ॥२६॥

स्वायम्भुवोऽत्रिर्भगवान् ब्रह्मको शस्तु पञ्चमः ।
षष्ठो वासिष्ठपुत्रस्तु वसुमान् लोकविश्रुतः ॥२७॥

वत्सारः काश्यपश्चैव सप्तैते साधुसम्मताः ।
एते सप्तर्षयः सिद्धा वर्त्तन्ते साम्प्रतेऽन्तरे ॥२८॥

इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभ उद्दिष्ट एव च ॥२९॥

करुषश्च पृषध्रश्च वसुमान्नवमः स्मृतः ।
मनोर्वैवस्तस्यैते नव पुत्राः प्रकीर्त्तिताः  ।
कीर्त्तिता वै मया ह्येते सप्तमञ्चैतदन्तरम् ॥३०॥

इत्येष वै मया पादो द्वितीयः कथितो द्विजाः ।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥३१॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतसर्गवर्णनं नाम तृतीयोऽध्यायः ॥३ ॥इत्युपोद्वातपादः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP