संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २५

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


पूर्व्वाचार्य्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्व्वशः ।
त्रिंशतं वै अलङ्कारांस्तान् मे निगदतः श्रृणु ॥१॥

अलङ्कारास्तु वक्तव्याः स्वैःस्वैर्वर्णैः प्रहेतवः ।
संस्थानयोगैश्च तथा पादानां चान्ववेक्षया ॥२॥

वाक्यार्थपदयोगार्थैरलङ्कारस्य पूरणम् ।
पदानि गीतकस्याहुः पुरस्तात् पृष्ठतोऽथवा ॥३॥

स्थानानि त्रीणि जानीयादुरःकण्ठशिरस्तथा ।
एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ॥४॥

चत्वारः प्रकृतौ वर्णाः प्रविचारश्चतुर्विधः ।
विकल्पमष्टधा चैव देवाः षोडशधा विदुः ॥५॥

स्थायी वर्णः प्रसंचारी तृतीयमवरोहणम् ।
आरोहणं चतुर्थन्तु वर्णं वर्णविदो विदुः ॥६॥

तत्रैकः संचरस्थायी सचरास्तचरीभवन् ।
अथ रोहणवर्णानामवरोहं विनिर्दिशेत् ॥७॥

आरोहणेन चारोहवर्णं वर्णविदो विदुः ।
एतेषामेव वर्णानामलङ्कारान्निबोधत ॥८॥

अलङ्कारास्तु चत्वारः स्थापनी क्रमरेजिनः ।
प्रमादश्चाप्रमादश्च तेषां वक्ष्यामि लक्षणम् ॥९॥

विस्वरोष्ट्रकलाश्चैव स्थानादेकान्तरं गताः ।
आवर्त्तस्याक्रमोत्पत्ती द्वे कार्य्ये परिमाणतः ॥१०॥

कुमारमपरं विद्याद्विस्तरं वमनं गतम् ।
एष वै चाप्यपाङ्गस्तु कुतारेकः कलाधिकः ॥११॥

श्येनस्त्वेकान्तरे जातः कलामात्रान्तरे स्थितः ।
तस्मिंश्चैव स्वरे वृद्धिस्तिष्ठते तद्विलक्षणा ॥१२॥

श्येनस्तु अपरोहस्तु उत्तरः परिकीर्त्तितः ।
कलाकलप्रमाणाच्च स बिन्दुर्नाम चायते ॥१३॥

बिन्दुरेककला कार्या वर्णान्तस्थायिनी भवेत् ।
विपर्ययस्वरोऽपि स्याद्यस्य दुर्घटितोऽपि न ॥१४॥

एकान्तरा तु वाद्यन्तु षड्जतः परमः स्वरः ।
आक्षेपास्कन्दनं कार्य्यं काकस्येवोच्चपुष्कलम् ॥१५॥

सन्तारौ तौ तु सञ्चार्यौ कार्यं वा कारणं तथा ।
आक्षिप्तमवरोह्यापि प्रोक्षमद्यन्तथैव च ॥१६॥

द्वादशञ्च कलास्थानमेकान्तरगतन्ततः ।
प्रेङ्खोलितमलङ्कारमेवं स्वरसमन्वितम् ॥१७॥

स्वरसंक्रामकाच्चैव ततः प्रोक्तन्तु पुष्कलम् ।
प्रक्षिप्तमेव कलया पादानीतरयोर्भवेत् ॥१८॥

द्विकलं वा यथा भूतं यत्तद् ह्रासितमुच्यते ।
उच्चाराद्विस्वरारूढा तथा चाष्टस्वरान्तरम् ॥१९॥

यस्तु स्यादवरोहो वा तारतो मन्द्रतोऽपि वा ।
एकान्तरहिता ह्येते तमेव स्वरमन्ततः ॥२०॥

मक्षिप्रच्छेदनो नाम चतुष्कलगणः स्मृतः ।
अलङ्कारा भवन्त्येते त्रिंशद्ये वै प्रकीर्त्तिताः ।
वर्णस्थानप्रयोगेण कलामात्रा प्रमाणतः ॥२१॥

संस्थानञ्च प्रमाणं च विकारो लक्षणन्तथा ।
चतुर्विधमिदं ज्ञेयमलङ्कारप्रयोजनम् ॥२२॥

यथात्मनो ह्यलङ्कारो विपर्यस्तोऽतिगर्हितः ।
वर्णमेवाप्यलंकर्त्तुं विषमं ह्यात्मसम्भवात् ॥२३॥

नानाभरणसंयोगाद्यथा नार्या विभूषणम् ।
वर्णस्य चैवालङ्कारो विपर्यस्तोऽतिगर्हितः ॥२४॥

न पादे कुण्डले दृष्टे न कण्ठे रसना यथा ।
एवमेव ह्यलङ्कारो विपर्यस्तो विगर्हितः ॥२५॥

क्रियमाणोऽप्यलङ्कारो रागं यश्चैव दर्शयेत् ।
यथोद्दिष्टस्य मार्गस्य कर्त्तव्यस्य विधीयते ॥२६॥

लक्षणं पर्य्यवस्थापि वर्णिकाभिः प्रवर्त्तनम् ।
याथातथ्येन वक्ष्यामि मासेद्भवमुखोद्भवे ॥२७॥

त्रयोविंशत्यशीतिस्तु तेषामेतद्विपर्ययः ।
षड्जपक्षोऽपि तत्त्वादौ मध्यो हीनस्वरो भवेत् ॥२८॥

षड्जमध्यमयोश्चैव ग्रामयोः पर्य्यपस्तथा ।
मानोयोत्तरमन्द्रस्य षडेवात्राविकस्य च ॥२९॥

स्वरालंप्रत्ययश्चैव सर्व्वेषां प्रत्ययः स्मृतः ।
अनुगम्य बहिर्गीतं विज्ञातं पञ्चदैवतम् ॥३०॥

गोरूपाणां पुरस्तात्तु मध्यमांशस्तु पर्य्ययः ।
तयोर्विभागो गीतानां लावण्यमार्गसंस्थितः ॥३१॥

अनुषङ्गं मयोद्दिष्टं स्वसारञ्च स्वरान्तरम् ।
पर्य्ययः संप्रवर्त्तेत सप्तस्वरपदक्रमम् ॥३२॥

गान्धारांशेन गीयन्ते चत्वारि मन्द्रकाणि च ।
पञ्चमो मध्यमश्चैव धैवते तु निषादजैः ।
षड्जर्षभैश्च जानीमो मन्द्रकेष्वेव नान्तरे ॥३३॥

द्वे चापरान्तिके विद्याद्धयशुल्लाष्टकस्य तु ।
प्राकृते वैणवैश्चैव गान्धारांशे प्रयुज्यते ॥३४॥

पदस्य तु त्रयं रूपं सप्तरूपन्तु कौशिकम् ।
गान्धारांशेन कार्त्स्न्येन पर्ययस्य विधिः स्मृतः  ।
एवञ्चैव क्रमोद्दिष्टो मध्यमांशस्य मध्यमः ॥३५॥

यानि गीतानि प्रोक्तानि रूपेण तु विशेषतः ।
तत्तु सप्तस्वरं कार्य्यं सप्तरूपञ्च कौशिकम् ॥३६॥

अङ्गदर्शनमित्याहुर्माने द्वे समके तथा ।
द्वितीयभावाचरणा मात्रा नाभिप्रतिष्ठिता ॥३७॥

उत्तरे च प्रकृत्येवं मात्रा तल्लीयते तथा  ।
हन्तारः पिण्डको यत्र मात्रायां नातिवर्त्तते ॥३८॥

पादेनैकेन मात्रायां पादोनामति वीरणा ।
संख्यायाश्चोपहननं तत्र यानमिति स्मृतम् ॥३९॥

द्वितीयं पादभङ्गञ्च ग्रहेणाभिप्रतिष्ठितम् ।
पूर्व्वमष्टतृतीये तु द्वितीयं चापरीतके ॥४०॥

अर्द्धेन पादसाम्यस्य पादभागाच्च पञ्चके ।
पादभागं सपादं तु प्रकृत्यामपि संस्थितम् ॥४१॥

चतुर्थमुत्तरे चैव मद्रवत्यां च मद्रके ।
मद्रके दक्षिणस्यापि यथोक्ता वर्त्तते कला ॥४२॥

पूर्व्वमेवानुयोगन्तु द्वितीया बुद्धिरिष्यते ।
पादौ चाहरणं चास्मत् पारं नात्र विधीयते ॥४३॥

एकत्वमुपयोगस्य द्वयोर्यद्धि द्विजोत्तम ।
अनेकसमवायस्तु पताकाहरिणं स्मृतम् ॥४४॥

तिसॄणां चैव वृत्तीनां वृत्तौ वृत्ता च दक्षिणा ।
अष्टौ तु समवायास्ते सौवीरा मूर्च्छना तथा ।
कुशत्यनुत्तरः सत्यं सप्त सत्त्वस्वरं तु यः ॥४५॥

इति श्रीमहापुराणे वायुप्रोक्ते गीतालङ्कारनिर्द्देशो नाम पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP