संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
एवं प्रजासु सृष्टासु कश्यपे न महात्मना ।
प्रतिष्ठितासु सर्वासु स्थावरासु चरासु च ॥१॥

अभिषिच्याधिपत्येषु तेषां मुख्यः प्रजापतिः ।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥२॥

द्विजातीनां वीरुधाञ्च नक्षत्राणां ग्रहैः सह ।
यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत ॥३॥

बृहस्पतिं तु विश्वेषां ददावङ्गिरसां पतिम् ।
भृगूणामधिपञ्चैव काव्यं राज्येऽभ्यषेचयत् ॥४॥

आदित्यानां पुनर्विष्णुं वसूनामथ पावकम्  ।
प्रजापतीनां दक्षञ्च मरुतामथ वासवम् ॥५॥

दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम् ।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥६॥

विप्रचित्तिञ्च राजानं दानवानामथादिशत् ।
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् ।
यक्षाणां राक्षसानाञ्च पार्थिवानां धनस्य च ॥७॥

वैवस्वतं पितॄणाञ्च यमं राज्येऽभ्यषेचयत् ।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥८॥

शैलानां हिमवन्तञ्च नदीनामथ सागरम् ।
गन्धर्वाणामधिपतिं चक्रे चित्ररथं तदा ॥९॥

उच्चैःश्रवसमश्वानां राजानञ्चाभ्यषेचयत् ।
मृगाणामथ शार्दूलं गोवृषञ्च चतुष्पदाम् ॥१०॥

पक्षिणामथ सर्वेषां गरुडं पततां वरम् ।
गन्धानां मातुलञ्चैव भूतानामशरीरिणाम् ॥११॥

शब्दाकाशबलानाञ्च वायुं बलवतां वरम् ।
सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् ॥१२॥

सरीसृपाणां सर्पाणां नागानाञ्चैव तक्षकम् ।
सागराणां नदीनाञ्च मेघानां व्रषितस्य च ।
आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ॥१३॥

सर्वाप्सरोगणानाञ्च कामदेवं तथैव च ।
ऋतूनामथ मासानामार्त्तवानां तथैव च ॥१४॥

पक्षाणाञ्च विपक्षाणां मुहूर्त्तानाञ्च पर्वणाम् ।
कलाकाष्ठाप्रमाणानां गते रयनयोस्तथा ।
गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ॥१५॥

प्रजापतिर्वै रजसः पूर्वस्यान्दिशि विश्रुतम् ।
पुत्रं नाम्ना सुधामानं राजानं सोऽभ्यषेचयत् ॥१६॥

पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥१७॥

मनुष्याणामधिपतिं चक्रे चैव सुतं मनुम् ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना  ।
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ॥१८॥

स्वायम्भुवेऽन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः ।
नृपा ह्येतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ॥१९॥

मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः ।
एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः ।
अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः ॥२०॥

राजसूयेऽभिषिक्तश्च पृथुरेभिर्नरोत्तमैः ।
वेददृष्टेन विधिना कृतो राजा प्रतापवान् ॥२१॥

एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात्  ।
पुनरेव महाभागः प्रजानां पतिरीश्वरः ॥२२॥

कश्यपो गोत्रकामस्तु चचार परमं तपः  ।
पुत्रौ गोत्रकरौ मह्यं भवेतामित्यचिन्तयत् ॥२३॥

तस्य प्रध्यायमानस्य कश्यपस्य महात्मनः ।
ब्रह्मणोंऽशौ सुतौ पश्चात् प्रादुर्भूतौ महौजसौ ॥२४॥

वत्सारश्चासितश्चैव तावुभौ ब्रह्मवादिनौ ।
वत्सारान्निध्रुवो जज्ञे रैभ्यश्च स महायशाः ॥२५॥

रैभ्यस्य रैभ्या विज्ञेया निध्रुवस्य निबोधत ।
च्यवनस्य सुकन्यायां सुमेधाः समपद्यत ॥२६॥

निध्रुवस्य तु या पत्नी माता वै कुण्डपायिनाम् ।
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ॥२७॥

शाण्डिल्यानां वचः श्रुत्वा देवलः सुमहायशाः ।
निध्रुवाः शाण्डिल्या रैभ्यास्त्रयः पश्चात्तु कश्यपाः ॥२८॥

वरप्रभृतयो देवा देवलस्य प्रजास्त्विमाः ।
चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रजाः ।
अथावशिष्टे तस्मिस्तु द्वापरे सम्प्रवर्तते ॥२९॥

मानसस्य चरिष्यन्तस्तस्य पुत्रो दमः किल ।
मानसस्तस्य दायादस्तृणबिन्दुरिति श्रुतः ॥३०॥

त्रेतायुगमुखे राजा तृतीये सम्बभूव ह ।
तस्य कन्या त्विडविडा रूपेणाप्रतिमाभवत् ।
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥३१॥

ऋषिरिडविडायान्तु विश्रवाः समपद्यत ।
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धनाः ॥३२॥

बृहस्पतेर्बृहत्कीर्त्तिर्देवाचार्यस्य कीर्त्तितः  ।
कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् ॥३३॥

पुष्पोत्ककटाञ्च वाकाञ्च सुते माल्यवतः स्थितौ ।
कैकसीं मालिनः कन्यां तासान्तु श्रृणुत प्रजाः ॥३४॥

ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी ।
दिव्येन विधिना युक्तमार्षेणैव श्रुतेन च ।
राक्षसेन च रूपेण आसुरेण बलेन च ॥३५॥

त्रिपादं सुमहाकायं स्थूलशीर्षं महातनुम् ।
अष्टदंष्ट्रं हरिच्छ्मश्रुं शङ्कुकर्णं विलोहितम् ॥३६॥

ह्रस्व बाहुं प्रबाहुञ्च पिङ्गलं सुविभीषणम् ।
वैवर्तज्ञानसम्पन्नं सम्बुद्धं ज्ञानसम्पदा ॥३७॥

एवंविधं सुतं दृष्ट्वा विश्वरूपधरं तथा ।
पिता दृष्ट्वाब्रवीत्तत्र कुबेरोऽयमिति स्वयम् ॥३८॥

कुत्सायां क्वितिशब्दोऽयं शरीरं बेरमुच्यते  ।
कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ॥३९॥

यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ।
तस्माद्वैश्रवणो नाम नाम्ना लोके भविष्यति ॥४०॥

ऋद्ध्यां कुबेरोऽजनयद्विश्रुतं नलकूबरम् ।
रावणं कुम्भकर्णञ्च कन्यां शूर्पणखान्तथा ।
विभीषणं चतुर्थांस्तान्कैकस्यजनयेत्सुतान् ॥४१॥

शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः ।
चतुष्पाद्विंशतिबुजो महाकायो महा बलः ॥४२॥

जात्याञ्जननिभो दंष्ट्रो लोहितग्रीव एव च ।
राजसेनो जययुक्तो रूपेण च बलेन च ॥४३॥

सत्यबुद्धिर्दृढतनू राक्षसैरेव रावणः  ।
निसर्गाद्दारुणः क्रूरो रावणाद्रावणस्तु सः ॥४४॥

हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि ।
चतुर्युगानि राजात्र त्रयोदश स राक्षसः ॥४५॥

ताः पञ्चकोट्यो वर्षाणामाख्याताः सङ्ख्यया द्विजैः ।
नियुतान्येकषष्टिश्च सङ्ख्याविद्भिरुदाहृता ॥४६॥

षष्टिशतसहस्राणि वर्षाणान्तु स रावणः  ।
देवतानां ऋषीणाञ्च घोरं कृत्वा प्रजागरम् ॥४७॥

त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् ।
रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥४८॥

महोदयः प्रहस्तश्च महापांशुखरस्तथा ।
पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ॥४९॥

त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः ।
कन्या ह्यसलिका चैव वाकायाः प्रसवाः स्मृताः ॥५०॥

इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश ।
दारुणाबिजनाः सर्वे देवैरपि दुरासदाः ॥५१॥

सर्वे लब्धवराश्चैव पुत्रपौत्रसमन्विताः ।
यक्षाणाञ्चैव सर्वेषां पौलस्त्या ये च राक्षसाः ॥५२॥

आगस्त्यवैश्वामित्राणां क्रूराणां ब्रह्मरक्षसाम् ।
वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥५३॥

तेषामैडविडो राजा पौलस्त्यः सव्यपिङ्गलः ।
इतरे वै यज्ञमुखास्तेन रक्षोगणास्त्रयः ॥५४॥

यातु धाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः  ।
निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥५५॥

पौलस्त्या नैऋताश्चैव आगत्स्याः कौशिकास्तथा ।
इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥५६॥

तेषां रूपं प्रवक्ष्यामि स्वभावेन व्यवस्थितम् ।
वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥५७॥

अष्टदंष्ट्रा शङ्कुकर्णा ऊर्द्ध्वरोमाण एव च ।
आकर्णदारितास्याश्च मुञ्जधूमोर्द्ध्वमूर्द्धजाः ॥५८॥

स्थूलशीर्षाः सिताभाश्च ह्रस्वकाश्च प्रवाहुकाः ।
ताम्रास्या लम्बजिह्वौष्ठा लम्बभूस्थूलनासिकाः ॥५९॥

नीलाङ्गा लोहितग्रीवा गम्भीराक्षा विबीषणाः  ।
महाघोरस्वराश्चैव विकटा बद्धपिण्डिकाः ॥६०॥

स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः ।
दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः ॥६१॥

सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः ।
विचित्र वस्त्राभरणाश्चित्रस्रगनुलेपनाः ॥६२॥

अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः ।
इत्येतद्रूपसाधर्म्यं राक्षसानां बुधैः स्मृतम् ।
न समस्तबलं बुद्धं यतो मायाकृतं हि तत् ॥६३॥

पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः  ।
भूताः पिशाचाः सर्पाश्च भ्रमरा हस्तिनस्तथा ॥६४॥

वानराः किन्नराश्चैव यमकिम्पुरुषास्तथा ।
येऽन्ये चैव परिक्रान्ता मायाक्रोधवशानुगाः ॥६५॥

अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे ।
न तस्य पुत्रः पौत्रो वा तेजः संक्षिप्य वा स्थितः ॥६६॥
अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः ।
तस्य पत्न्यश्च सुन्दर्यो दशैवासन्पतिव्रताः ॥६७॥

भद्राश्वस्य धृताच्यां वै दशाप्सरसि सूनवः ।
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ॥६८॥

वेला खला च सप्तैता या च गोचपला स्मृता  ।
तथा मानरसा चैव रत्नकृटा च ता दश ॥६९॥

आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः ।
भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ॥७०॥

स्वर्भानुना हते सूर्ये पतमानो दिवो महीम् ।
तमोऽभिभूते लोकेऽस्मिन् प्रभा येन प्रवर्त्तिता ॥७१॥

स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः ।
ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ॥७२॥

अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः  ।
यज्ञेष्वत्रिघनश्चैव सुरैर्यश्च प्रवर्त्तितः ॥७३॥

स तास्वजनयत् पुत्रानात्मतुल्याननामकान् ।
दश तास्वेव महता तपसा भावितप्रभा ॥७४॥

स्वस्त्यात्रेया इति ख्याता ॥ऋषयो वेदपारगाः  ।
तेषां विख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ॥७५॥

दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः  ।
यवीयसी सुता तस्या मबला ब्रह्मवादिनी ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥७६॥

अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् ।
दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ॥७७॥

तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि ।
श्यामाश्च मुद्गलाश्चैव बलारकगविष्ठिराः ।
एते नृणान्तु चत्वारः स्मृताः पक्षा महौजसाम् ॥७८॥

कश्यपान्नारदश्चैव पर्वतोऽरुन्धती तथा ।
जज्ञिरे च त्वरुन्धत्यास्तान्निबोधत सत्तमाः ॥७९॥

नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत् ।
ऊर्द्ध्वरेता महातेजा वृक्षशापात्तु नारदः ॥८०॥

पुरा देवासुरे तस्मिन्संग्राम तारकामये ।
अनावृष्ट्या हते लोके व्यग्रे शक्रे सुरैः सह ।
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः ॥८१॥

अत्रौषधं मूलफलमोषधीश्च प्रवर्त्तयन्  ।
तास्तेन जीवयामास कारुण्यादोषधेन तु ॥८२॥

अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयद्द्विजाः ।
सागरञ्जनयच्छक्तेरदृश्यन्ती पराशरम् ॥८३॥

काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम् ।
द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ॥८४॥

उत्पद्यन्ते च पीवर्यां षडिमे शुकसूनवः ।
भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरश्च पञ्चमः ॥८५॥

कन्या कीर्तिमती चैव योगमाता दृढव्रता ।
जननी ब्रह्मदत्तस्य पत्नी सत्त्वगुहस्य च ॥८६॥

श्वेताः कृष्णाश्च गौराश्च श्यामा धूम्राः समूलिकाः ।
ऊष्मपा दारकाश्चैव नीलाश्चैव पराशराः ।
पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ॥८७॥

अत ऊर्द्ध्वं निबोधध्वमिन्द्रप्रतिमसम्भवम् ।
वसिष्ठस्य कपिञ्जल्यां घृताच्यां समपद्यत ।
कुशीतियः समाख्यात इन्द्रप्रतिम उच्यते ॥८८॥

पृथोः सुतायाः सम्भूतः पुत्रस्तस्या भवद्वसुः ।
उपमन्युः सुतस्तस्य यस्येमे उपमन्यवः ॥८९॥

मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः ।
एकार्षेयास्तथैवान्ये वसिष्ठा नाम विश्रुताः ।
एते पक्षा वसिष्ठानां स्मृता एकादशेव तु ॥९०॥

इत्येते ब्रह्मणः पुत्रा मानसा ह्यष्ट विश्रुताः ।
भ्रातरः सुमहाभागा तेषां वंशाः प्रतिष्ठिताः ॥९१॥

त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसङ्कुलान्  ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
यैर्व्याप्ता पृथिवी सर्वा सूर्य्यस्येव गभस्तिभिः ॥९२॥

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिवंशानुकीर्त्तनं नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP