TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः २
॥सूत उवाच॥

आसीदियं समुद्रान्ता मेदिनीति परिश्रुता ।
वसु धारयते यस्माद्वसुधा तेन चोच्यते ॥१॥

मधुकैटभयोः पूर्वं मेदसा संपरिप्लुता ।
ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥२॥

इयञ्चासीत् समुद्रान्ता मेदिनीति परिश्रुता ।
दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ॥३॥

प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा ।
सस्याकरवती राज्ञा पत्तनाकरमालिनी ।
चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ॥४॥

एवंप्रभावो राजासीद्वैन्यः स नृपसत्तमः ।
नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ॥५॥

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥६॥

पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः ।
आदिराजा न मस्कार्यः पृथुर्वैन्यः प्रतापवान् ॥७॥

योधैरपि च संग्रामे प्रार्थयानैर्जयं युधि ।
आदिकर्त्ता नराणां वै नमस्यः पृथुरेव हि ॥८॥

यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम् ।
स घोररूपे संग्रामे क्षेमी तरति कीर्तिमान् ॥९॥

वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमास्थितैः ।
पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥१०॥

एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ।
पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ॥११॥

ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना ।
वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ॥१२॥

ततः स्वायम्भुवे पूर्वन्तदा मन्वन्तरे पुनः ।
वत्सं स्वायम्भुवं कृत्वा दुग्धा ग्रीष्मेण वै मही ॥१३॥

मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता ।
मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ॥१४॥

उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु  ।
मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ॥१५॥

पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः ।
दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ॥१६॥

चारिष्णवस्य देवस्य संप्राप्ते चान्तरे मनोः ।
दुग्धा मही पुराणेन वत्सञ्चारिष्णवं प्रति ॥.१७॥

चाक्षुषेऽपि च सम्प्राप्ते तदा मन्वन्तरे पुनः ।
दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ॥१८॥

चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः  ।
वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ॥१९॥

एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै ।
देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च या ॥२०॥

एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह ।
देवा मन्वन्तरेष्वस्य पृथोस्तु श्रृणुत प्रजाः ॥२१॥

पृथोस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्द्धिपालिनौ ।
शिखण्डिनी हविर्द्धानमन्तर्द्धानाद्व्यजायत ॥२२॥

हविर्द्धानात्षडाग्नेयी धिषणाऽजनयत्सुतान् ।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ॥२३॥

प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः ।
बलुश्रुततपोवीर्यैः पृथिव्यामेकराढसौ ।
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीन बर्ह्यसौ ॥२४॥

समुद्रतनयायान्तु कृतदारः स वै प्रभुः ।
महतस्तमसः पारे सवर्णायां प्रजापतेः ।
सवर्णाऽऽधत्त सामुद्री दश प्राचीन बर्हिषः ॥२५॥

सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥२६॥

तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणामाववृर्बभूवाथ प्रजाक्षयः ॥२७॥

प्रत्याहते तदा तस्मिंश्चाक्षुषस्यान्तरे मनोः  ।
नाशकन् मारुतो वातुं वृतं खमभवद्द्रुमैः ।
दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥२८॥

तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः ।
मुखेभ्यो वायुमग्निञ्च ससृजुर्ज्जातमन्यवः ॥२९॥

उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत् ।
तानग्निरदहद्वोर एवमासीद् द्रुमक्षयः ॥३०॥

द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छेषेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रचेतसः ॥३१॥

दृष्ट्वा प्रयोजनं सर्वं लोकसन्तानकारणात् ।
कोपन्त्यजत राजानः सर्वं प्राचीनबर्हिषः ॥३२॥

वृक्षाः क्षित्यां जनिष्यन्ति शाम्येतामग्निमारुतौ ।
रत्नभूता तु कन्येयं वृक्षाणां वरवर्णिनी ॥३३॥

भविष्यं जानता ह्येषा मया गोभिर्विवर्द्धिता ।
मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता ।
भार्या भवतु वो ह्येषा सोमगर्भविवर्द्धिता ॥३४॥

युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः ।
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥३५॥

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥३६॥

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥३७॥

मारिषायां ततस्ते वै मनसा गर्भमादधुः ।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥३८॥

दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान्  ।
असृजन्मानसानादौ प्रजा दक्षोऽथ मैथुनात् ॥३९॥

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदान् ।
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ॥४०॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥४१॥

एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने  ।
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं निबोधत ॥४२॥

अन्तरं चाक्षुषस्यात्र मनोः षष्ठन्तु हीयते ।
मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः ॥४३॥

तासु देवाः खगा गावो नागा दितिजदानवाः ।
गन्धर्वोप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥४४॥

ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥४५॥

॥ऋषय ऊचुः॥
देवानां दानवानाञ्च देवर्षीणाञ्च ते शुभः ।
सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ॥४६॥

प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया ।
कथं प्रचेतसत्वञ्च पुनर्लेभे महातपाः ॥४७॥

एतन्नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ।
स दौहित्रश्च सोमस्य कथं श्वशुरताङ्गतः ॥४८॥

  ॥सूत उवाच॥
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः ।
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये नराः ॥४९॥

युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः  ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥५०॥

ज्यैष्‌ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद् द्विजोत्तमाः ।
तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ॥५१॥

इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम् ।
प्रजानामायुरुत्तीर्णः स्वर्गलोके महीयते ॥५२॥

एष सर्गः समाख्यातश्चाक्षुषस्य समा सतः ।
इत्येते षढविसर्गा हिक्रान्ता मन्वन्तरात्मकाः ।
स्वायम्भुवाद्या- संक्षेपाच्चाक्षुषान्ता यथाक्रमम् ॥५३॥

एते सर्गा यथाप्रज्ञं प्रोक्ता वै द्विजसत्तमाः ।
वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ॥५४॥

अनन्ता नातिरिक्ताश्च सर्वे सर्गा विवस्वतः ।
आरोग्यायुष्प्रमाणेन धर्मतः कामतोऽर्थतः ।
एतानेव गुणानेति यः पठत्यनसूयकः ॥५५॥

वैवस्वतस्य वक्ष्यामि साम्प्रतस्य महात्मनः ।
समासाद्व्यासतः सर्गं ब्रुवतो मे निबोधत ॥५६॥

इतिश्रीमहापुराणे वायुप्रोक्ते पृथुवंसानुकीर्त्तनं मान द्वितीयोऽध्यायः ॥२ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:02.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

corpus ha emorrhagicum

  • रक्तस्त्राव पिंड 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.