संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३८

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥ऋषय ऊचुः॥

श्रुत्वा पादं तृतीयन्तु क्रान्तं॥सूतेन धीमता ।
ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥१॥

पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया ।
चतुर्थं विस्तरात्पादं संहारं परिकीर्त्तय ॥२॥

मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह ।
सप्तर्षीणामथैतेषां साम्प्रतस्यान्तरे मनोः ॥३॥

विस्तरावयवञ्चैव निसर्गस्य महात्मनः ।
विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि मे ॥४॥

॥सूत उवाच॥
भवतां कथयिष्यामि सर्वमेतद्यथातथम् ।
पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥५॥

मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः ।
विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ॥६॥

मन्वन्तराणां संक्षेपं भविष्यैः सह सप्तभिः ।
प्रलयञ्चैव लोकानां ब्रुवतो मे निबोधत ॥७॥

एतान्युक्तानि वै सम्यक् सप्तसप्तसु वै मया ।
मन्वन्तराणि संक्षेपाच्छृणुतानागतानि मे ॥८॥

सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह ।
भविष्यस्य भविष्यन्ति समासात्तु निबोधत ॥९॥

अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः ।
कौशिको गातवश्चैव जामदग्न्यश्च भार्गवः ॥१०॥

द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा ।
आत्रेयो दीप्तिमांश्चैव ॥ऋष्यश्रृङ्गस्तु काश्यपः ॥११॥

भारद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः ।
एते सप्त महात्मानो भविष्याः परमर्षयः ॥१२॥

सुतपा श्चामिताभाश्च सुखाश्चैव गणास्त्रयः ।
तेषां गणास्तु देवानां एकैको विंशकः स्मृतः ॥१३॥

नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः ।
रितस्तपश्च शुक्रश्च द्युतिर्ज्योतिः प्रभाकरौ ॥१४॥

प्रभासो भासकृद्धर्म्मस्तेजोरश्मिऋतुर्विराट् ।
अर्चिष्मान् द्योतनो भानुर्यशकीर्त्तिर्बुधो धृतिः ।
विंशतिः सुतपा ह्येते नामभिः परिकीर्तिताः ॥१५॥

प्रभुर्विभुर्विभासश्च जेता हन्ताऽरिहा रितुः ।
सुमतिः प्रमतिर्दीप्तिः समाख्यातो महोमहान् ॥१६॥

देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतः ।
इत्येते ह्यमिताभास्तु विंशतिः परिकीर्त्तिताः ॥१७॥

दमो दाता विदः सोमो वित्तवैद्यौ यमो निधिः ।
होमं हव्यं हुतं दानं देयं दाता तपः शमः ॥१८॥

ध्रुवं स्थानं विधानञ्च नियमश्चेति विंशतिः ।
मुख्या ह्येते समाख्याताः सावर्णे प्रथमेऽन्तरे ॥१९॥

मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः ।
साम्प्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः ॥२०॥

तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा ।
वीरवांश्चावरीयांश्च निर्मोहः सत्यवाक् कृती ॥२१॥

चरिष्णुराज्यो विष्णुश्च वाचः सुमतिरेव च ।
सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥२२॥

नव चान्येषु वक्ष्यामि सावर्णेश्चान्तरेषु वै ।
सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ॥२३॥

मेरुसावर्णिनस्ते वै दृष्टा ये दिव्यदृष्टिभिः ।
दक्षस्य ते हि दौहित्राः प्रियाया दुहितुः सुताः ॥२४॥

महता तपसा युक्ता मेरुपृष्ठे महौजसः ।
ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥२५॥

महर्लोकगतावृत्य भविष्या मेरुमाश्रिताः ।
महाभावात्तु ते पूर्वं जज्ञिरे चाक्षुषेऽन्तरे ॥२६॥

॥ऋषय ऊचुः॥
दक्षेण जनिताः पुत्राः कन्यायामात्मनः कथम् ।
भवेत्तु ब्रह्मणश्चैव धर्मेण च महात्मनः ॥२७॥

॥सूत उवाच॥
अतो भविष्यान् वक्ष्यामि सावर्णमनवस्तु ये ।
तेषां जन्म प्रभावञ्च नमस्कृत्य प्रचेतसे ॥२८॥

वैवस्वते ह्युपस्पृष्टे किञ्चिच्छिष्टे च चाक्षुषे ।
जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥२९॥

प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये ।
सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः ॥३०॥

संज्ञापुत्रस्तु सावर्ण एको वैवस्वतस्तथा ।
ज्येष्ठः संज्ञासुतो नाम मनुर्वैवस्वतः प्रभुः ॥३१॥

वैवस्वतेऽन्तरे प्राप्ते समुत्पत्तिस्तयोः शुभा ।
चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्द्धनाः ॥३२॥

वेदे श्रुतौ पुराणे च सर्वे ते प्रभविष्णवः ।
प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥३३॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥३४॥

प्रजाभिस्तपसा चैव विस्तरं तेषु वक्ष्यते ।
चतुर्द्दशैव ते ज्ञेयाः सर्गाः स्वायम्भुवादयः ॥३५॥

मन्वन्तराधिकारेषु वर्तन्ते च सकृत् सकृत् ।
विनिवृत्ताधिकारास्ते महर्लोकं समाश्रिताः ॥३६॥

समतीतास्तु ये तेषामष्टौ षष्ठास्तथापरे ।
पूर्वेषु साम्प्रतश्चायं शान्तिर्वैवस्वतः प्रभुः ॥३७॥

ये शिष्टास्तान् प्रवक्ष्यामि सह देवर्षिदानवैः ।
सह प्रजानिसर्गेण सर्व्वांस्त्वनागतान् द्विजान् ॥३८॥

वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ।
अन्यूना नातिरिक्तास्ते यस्मात् सर्व्वे विवस्वतः ॥३९॥

पुनरुक्ता बहुत्वात्तु वक्ष्ये न तेषु विस्तरम् ।
मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ॥४०॥

कुले कुले निसर्गांस्तु तस्माद्भूयो विभागशः  ।
तेषामेव हि शिष्टार्थं विस्तरेण क्रमेण च ॥४१॥

दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता ।
सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता ।
गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ॥४२॥

वैराजस्तमुपासीनं धर्मेण च भवेन च ।
भवधर्मसमीपस्थं दक्षं ब्रह्माब्यभाषत ॥४३॥

दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता ।
चतुरो वै मनून् पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ॥४४॥

ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा ।
तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ॥४५॥

सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत ।
सदृशानुरूपांस्तेषां चतुरो वै कुमारकान् ॥४६॥

संसिद्धाः कार्यकरणे सम्भूतास्ते श्रियान्वितः ।
उपभोगसमर्थैश्च सद्योजातैः शरीरकैः ॥४७॥

ते दृष्ट्वा तान् स्वयम्बुद्ध्वा ब्रह्मा व्याहाहिणस्तदा ।
संरब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ॥४८॥

अभिध्यानान्मनोत्पन्नानूचुर्वै ते परस्परम् ।
यो यस्य वपुषा तुल्यो भजतां स तु तं सुतम् ॥४९॥

यस्य यः सदृशश्चापि रूपे वीर्य च नामतः ।
तं गृह्णातु सुभद्रं वो वर्णतो यस्य यः समः ॥५०॥

ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा ।
तस्मादात्मसमः पुत्रः पितुर्मातुश्च जायते ॥५१॥

एवं ते समयं कृत्वा सवर्णान् जगृहुः सुतान् ।
यस्मात् सवर्णास्तेषां वै ब्रह्मादीनां कुमारकाः ॥५२॥

सवर्णा मनवस्तस्मात् सवर्णत्वं हि ते यतः ।
मननान्माननाच्चैव तस्मात्ते मनवः स्मृताः ॥५३॥

चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह ।
रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः ॥५४॥

भूत्यामुत्पादितो यस्तु भौत्यो नामाभवत्सुतः ।
वैवस्वतेऽन्तरे राजा द्वौ मनू तु विवस्वतोः ॥५५॥

वैवस्वतो मनुर्यश्च सावर्णो यश्च विश्रुतः ।
ज्येष्ठः संज्ञासुतो विद्वान् मनुर्वैवस्वतः प्रभुः ॥५६॥

सवर्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः  ।
सवर्णा मनवो ये च चत्वारस्तु महर्षिजाः ॥५७॥

तपसा सम्भृतात्मानः स्वेषु मन्वन्तरेषु वै ।
भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥५८॥

प्रथमं मेरुसावर्णेर्दक्षपुत्रस्य वै मनोः ।
पुत्रा मरीचिगर्भाश्च सुशर्माणश्च ते त्रयः  ।
सम्भूताश्च महात्मानः सर्वे वैवस्वतेऽन्तरे ॥५९॥

दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।
भविष्यस्य भविष्यस्तु एकैको द्वादशो गणः ॥६०॥

ऐश्वर्यसंग्राहो राहो बाहुवशस्तथैव च ।
पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥६१॥

वाजियो वाजिजिच्चैव प्रभृतिश्च ककुद्यथ ।
दधिक्रावायपक्वाश्च प्रणीतो विजयो मधुः ॥६२॥

तेजस्मान्नथवो द्वौ तु द्वादशैते मरीचयः ।
सुशर्म्माणस्तु वक्ष्यामि नामतस्तु निबोधत ॥६३॥

वर्णस्तथाप्यङ्गविश्वौ मुरण्यो व्रजनो मतः ।
अमितो द्रवकेतुश्च जम्भोस्थाजस्रशक्रकाः ॥६४॥

सुनेमिर्द्युतपाश्चैव सुशर्म्माणः प्रकीर्त्तिताः ।
तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥६५॥

स्कन्दः सोमप्रतीकाशः कार्तिकेयस्तु पावकः ।
माघातिथिश्च पौलस्त्यो वसुः काश्यप एव च ॥६६॥

ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा ।
वसितश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥६७॥

सुतपाः पौलवश्चैव सप्तैते रोहितान्तरे ।
धृतिकेतुदीप्तिकेतुशापहस्ता निरामयः ॥६८॥

पृथुश्रवास्तथा नाको भूरिद्युम्नो बृहद्रथः ।
प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः ॥६९॥

दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः ।
द्वितीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः ॥७०॥

सुखामना विरुद्धाश्च द्वावेव तु गणौ स्मृतौ ।
त्विषिवन्तश्च ते सर्वे शतसङ्ख्याश्च ते समाः ॥७१॥

प्राणा नायच्छतः प्रोक्त ऋषिभिः पुरुषेषु वै ।
देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥७२॥

तेषामिन्द्रस्तथा विद्वान् भविष्यः शान्तिरुच्यते ।
हविष्मान् पौलहः श्रीमान् सुकीर्तिश्चापि भार्गवः ॥७३॥

आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापि यः स्मृतः ।
पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः ।
अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ॥७४॥

सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान् ।
शतानीको निरामित्रो वृषसेनो जयद्रथः ॥७५॥

भूरिद्युम्नः सुवर्च्चाश्च दशैते मानवाः स्मृताः ।
एकादशे तु पर्य्याये सावर्णे वै तृतीयके ॥७६॥

निर्म्माणरतयो देवाः कामजा वै मनोजवाः ।
गणास्त्वेते त्रयः ख्याता देवतानां महात्मनाम् ॥७७॥

एकैकं त्रिंशतस्तेषां गणास्तु त्रिदिवौकसाम् ।
मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ॥७८॥

निर्म्माणरतयो देवा रात्रयस्तु विहङ्गमाः ।
गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति ॥७९॥

मनोजवा मुहूर्त्तास्तु इति देवाः प्रकीर्त्तिताः  ।
एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः ॥८०॥

तेषामिन्द्रो वृषो नाम भविष्यः सुरराट् ततः ।
तेषां सप्तर्षयश्चापि कीर्त्त्यमानान्निबोधत ॥८१॥

हविष्मान् काश्यपश्चापि वपुष्मान् यश्च भार्गवः ।
वारुणिश्चैव चात्रेयो वासिष्ठो भग एव च ॥८२॥

पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा ।
पौलहो ह्यग्नितेजाश्च देवा ह्येकादशेऽन्तरे ॥८३॥

सर्व्ववेगः सुधर्म्मा च देवानीकः पुरोवहः ।
क्षेमधर्मा गृहेषुश्च ह्यादर्शः पौण्ड्रको मनः ॥८४॥

सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै मनोः ।
द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ॥८५॥

चतुर्थे ऋतुसावर्णे देवास्तस्यान्तरे श्रृणु ।
पञ्चैव तु गणाः प्रोक्ता देवतानामनागताः ॥८६॥

हरिता रोहिताश्चैव देवाः सुमनसस्तथा ।
सुकर्म्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ॥८७॥

ब्रह्मणो मानसा ह्येते एकैको दशको गणः ।
अरुन्तिजो हरिश्चैव विद्वान् यश्च सहस्रशः ॥८८॥

पर्वतानुचरश्चैव ह्यपोंऽशुश्च मनोजवः ।
उर्ज्जा स्वाहा स्वधा तारा दशैते रोहिताः स्मृताः ॥८९॥

तपोजानिर्भृतिश्चैव वाचा बन्धुश्च यः स्मृतः  ।
रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ॥९०॥

व्युष्टिर्विधिश्च वै देवो दशैते रोहिताः स्मृताः  ।
उषिताद्यास्तु ये देवास्त्रयस्त्रिशत्प्रकीर्तिताः ॥९१॥

देवान् सुमनसो विद्धि सुकर्माणो निबोधत ।
सुपर्वा वृषभः पृष्टः कृपिद्युम्नौ विपश्चितः ॥९२॥

विक्रमश्च क्रमश्चैव निभृतः कान्त एव च॥
एते सुकर्मणो देवाः सुतांश्चैषां निबोधत ॥९३॥

वर्य्योदितस्तथा जिष्टो वर्चस्वी द्युतिमान् हविः ।
शुभो हविकृतात्प्राप्तिर्व्यापृथो दशमस्तथा ॥९४॥

सुपारा मानसास्त्वेते देवा वै सम्प्रकीर्त्तिताः ।
तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ॥९५॥

कृतिर्वसिष्ठपुत्रस्तु ह्यात्रेयः सुतपास्तथा ।
तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ॥९६॥

तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः ।
भार्गवः सप्तमस्त्वेषां विज्ञेयस्तु तपोमतिः ॥९७॥

एते सप्तर्षयः सिद्धा अन्ये सावर्णिकेऽन्तरे ।
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥९८॥

मित्रवान् मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा ।
मित्रबाहुः सुवर्चाश्च द्वादशैते मनोः सुताः ॥९९॥

त्रयो दशे तु पर्याये भाव्या रौच्यान्तरे पुनः ।
त्रय एव गणाः प्रोक्ता देवानान्तु स्वयम्भुवा ॥१००॥

ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः ।
सुत्रामाणः सुधर्म्माणः सुकर्म्माणश्च ते त्रयः ॥१०१॥

त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनः ।
त्रयस्त्रिंशद्देवता याः प्राभविष्यन्त याज्ञिकैः ॥१०२॥

आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि ।
देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ॥१०३॥

सुत्रामाणः प्रयाज्यास्तु ह्याद्याज्यास्तु साम्प्रतम् ।
सुकर्मणोऽनुयाज्यास्तु पृषदाज्याशिनस्तु ये ॥१०४॥

उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः  ।
दिवस्पतिर्महासत्त्वस्तेषामिन्द्रो भविष्यति ॥१०५॥

पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः  ।
अङ्गिराश्चैव धृतिमान् पौलस्त्यः पथ्यवांस्तु सः ॥१०६॥

पौलहस्तत्त्व दर्शी च भार्गवश्च निरुत्सकः ।
निष्प्रकम्पस्तथात्रेयो निर्मोहः कश्यपस्तथा ॥१०७॥

स्वरूपश्चैव वासिष्ठः सप्तैते तु त्रयोदशे ।
चित्रसेनो विचित्रश्च तपो धर्मधृतो भवः ॥१०८॥

अनेकक्षत्रबद्धश्च सुरसो निर्भयः पृथः ।
रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ॥१०९॥

चतुर्द्दशे तु पर्याये भौतस्याप्यन्तरे मनोः  ।
देवतानां गणाः पञ्च प्रोक्ता येतु भविष्यति ॥११०॥

चाक्षुषाश्च कनिष्ठाश्च पवित्रा भाजरास्तथा ।
वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ॥१११॥

सप्तैव तांस्तान् भागांश्च विद्धि चाक्षुषसंज्ञकान् ।
बृहदाद्यानि सामानि कनिष्ठान् सप्त तान् विदुः ।
सप्त लोकाः परित्रास्ते भाजिराः सप्त सिन्धवः ॥११२॥

वाचावृद्धानृषीन् विद्धि मनोः स्वायम्भुवस्य वै ।
सर्वे मन्वन्तरेन्द्राश्च विज्ञेयास्तुल्यलक्षणाः ॥११३॥

तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः ।
त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ।
सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ॥११४॥

भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः ।
भूतानुवादिनः सक्तास्त्रयो वेदाः प्रवादिनाम् ॥११५॥

अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ।
भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा ।
ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥११६॥

सवर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः ।
एको वैवस्वतश्चैव सावर्णो मनुरुच्यते ॥११७॥

रौच्यो भौत्यश्च यौ तौ तु मनोः पौलहभार्गवौ ।
भौत्यस्यैवाधिपत्ये तु पूर्णः कल्पस्तु पूर्य्यते ॥११८॥

॥सूत उवाच॥
निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह ।
अन्तेऽनेकयुगे तस्मिन् क्षीणे संहार उच्यते ॥११९॥

सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा ।
भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ॥१२०॥

पितृभिर्मनुभिश्चैव सार्द्धं सप्तर्षिभिस्तु ये ।
यज्वानश्चैव तेऽप्यन्ये तद्भाक्ताश्चैव तैः सह ॥१२१॥

महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः ।
ततस्तेषु गतेषूर्द्ध्वं क्षीणे मन्वन्तरे तदा ।
अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति ॥१२२॥

ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः ।
प्रभ्रश्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ॥१२३॥

ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह ।
सेन्द्राष्टेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ॥१२४॥

जिताद्याश्च गणा ह्यत्र चाक्षुषान्ताश्चतुर्दश ।
मन्वन्तरेषु सर्व्वेषु देवास्ते वै महौजसः ॥१२५॥

ततस्तेषु गतेषूर्द्ध्वं सायोज्यं कल्पवासिनाम् ।
समेत्य देवास्ते सर्वे प्राप्ते संकलने तदा ॥१२६॥

महर्लोकं परित्यज्य गणास्ते वै चतुर्द्दश ।
सशरीराश्च श्रूयन्ते जनलोकं सहानुगाः ॥१२७॥

एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति ।
भूतादिष्ववशिष्टेषु स्थावरान्तेषु चाप्युत ॥१२८॥

शून्येषु लोकस्थानेषु महान्तेषु भूरादिषु ।
देवेषु च गतेषूर्द्ध्वं सायोज्यं कल्पवासिनाम् ॥१२९॥

संहृत्य तांस्ततो ब्रह्मा देवर्षिपितृदानवान् ।
संस्थापयति वै सर्गं महदॄष्ट्या युगक्षये ॥१३०॥

तत्र युगसहस्रान्तमहर्यर्द्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तामहोरात्रविदो जनाः ॥१३१॥

नैमित्तिकः प्राकृतिको यश्चैवात्यन्तिकोऽर्थतः ।
त्रिविधः सर्व्वभूतानामित्येष प्रतिसञ्चरः ॥१३२॥

ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः ।
प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥१३३॥

ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसम्भवः  ।
ततः संहृत्य तान् ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥१३४॥

अहरन्ते प्रकुरुते सर्गस्य प्रलयं पुनः ।
सुषुप्सुर्भगवान् ब्रह्मा प्रजाः संहरते तदा ॥१३५॥

ततो युगसहस्रान्ते संप्राप्ते च युगक्षये ।
तत्रात्मस्थाः प्रजाः कर्त्तुं प्रपेदे स प्रजापतिः ॥१३६॥

तदा भवत्यनावृष्टिस्तदा सा शत वार्षिकी ।
तथा यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥१३७॥

तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च ।
सप्तरश्मिरथो भूत्वा ह्युदतिष्ठद्विभावसुः ॥१३८॥

असह्यरश्मिर्भगवान् पिबन्नम्भो गभस्तिभिः ।
हरिता रश्मयस्तस्य दीप्यमानास्तु सप्तभिः ॥१३९॥

भूय एव विवर्तन्ते व्याप्नुवन्तो वनं शनैः ।
भौमं काष्ठं धनं तेजो भृशमद्भिस्तु दीप्यते ॥१४०॥

तस्मादुदकं सूर्य्यस्य तपतोऽति हि कथ्यते ।
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविष्यते ॥१४१॥

नावृष्ट्या परिचिन्वन्ति वारिणा दीप्यते रविः ।
तस्मादपः पिबन् या वै दीप्यते रविरम्बरे ॥१४२॥

तस्य ते रश्मयः सप्त पिबन्त्यम्भो महार्णवात् ।
तेनाहारेण सन्दीप्तः सूर्य्यः सप्त भवत्युत ॥१४३॥

ततस्ते रश्मयः सप्त सूर्य्यभूताश्चतुर्दिशम् ।
चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥१४४॥

प्राप्नुवन्ति च भाभिस्तु ह्यूर्द्धं चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निः प्रतापिनः ॥१४५॥

ते वारिणा च संदीप्ता बहुसाहस्ररश्मयः ।
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुन्धराम् ॥१४६॥

ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ।
साद्रिनद्यर्णवा पृथ्वी विस्नेहा समपद्यत ॥१४७॥

दीप्ताभिः सन्तताभिश्च चित्राभिश्च समन्ततः ।
अधश्चोर्ध्वश्च तिर्यक् च संरुद्धं सूर्यरश्मिभिः ॥१४८॥

सूर्य्यग्नीनां प्रवृद्धानां संसृष्टानां परस्परम् ।
एकत्वमुपयातानामेकज्वालं भवत्युत ॥१४९॥

सर्वलोकप्रणाशञ्च सोऽग्निर्भूत्वा तु मण्डली ।
चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥१५०॥

ततः प्रलीयते सर्व्वं जङ्गमं स्थावरं तदा ।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥१५१॥

अम्बरीषमिवाभाति सर्वं मारिषितं जगत् ।
सर्वमेव तदार्चिर्भिः पूर्णं जज्वाल्यते नभः ॥१५२॥

पाताले यानि भूतानि महोतधिगतानि च  ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥१५३॥

द्वीपाश्च पर्वताश्चैव वर्षाण्यथ महोदधिः ।
सर्व्वं तद्भस्मसाच्चक्रे सर्व्वात्मा पावकस्तु सः ॥१५४॥

समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वतः ।
पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥१५५॥

ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा ।
लोकान् संहरते दीप्तो घोरः संवर्त्तकोऽनलः ॥१५६॥

ततः स पृथिवीं भित्त्वा रसातलमशोषयत् ।
निर्दह्य तांस्तु पातालान्नागलोकमथादहत् ॥१५७॥

अधस्तात्पृथिवीं दग्ध्वा ह्यूर्द्ध्वं स दहते दिवम् ।
योजनानां सहस्राणि ह्ययुतान्यर्बुदानि च ॥१५८॥

उदतिष्ठञ्छिखास्तस्य बह्वयः संवर्त्तकस्य तु ।
गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान्  ।
तदा दहति सन्दीप्तो गोलकं चैव सर्व्वशः ॥१५९॥

भूर्लोकन्तु भुवर्लोकं स्वर्लोकञ्च महस्तथा ।
घोरं दहति कालाग्निरेवं लोकचतुष्टयम् ॥१६०॥

व्याप्तेषु तेषु लोकेषु तिर्यगूर्द्ध्वमथाग्निना ।
तत्तेजः समनुप्राप्तं कृत्स्नं जगदिदं शनैः ।
अयोगुडनिभं सर्व्वं तदा ह्येवं प्रकाशते ॥१६१॥

ततो गजकुलाकारास्तडिद्भि समलंकृताः ।
उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्त्तका घनाः ॥१६२॥

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
केचिद्वैढूर्यसंकाशा इन्द्रनीलनिभाऽपरे ॥१६३॥

शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा  ।
धूम्र वर्णा घनाः केचित्केचित्पीताः पयोधराः ॥१६४॥

केचिद्रासभवर्णाभा लाक्षारक्तनिभास्तथा ।
मनःशिलाभास्त्वपरे कपोताभास्तथाम्बुदाः ॥१६५॥

इन्द्रगोपनिभाः केचिदुत्तिष्ठन्ति घना दिवि ।
केचित्पुरधराकाराः केचिद्गजकुलोपमाः ॥१६६॥

के चित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः ।
कुण्डागारनिभाः केचित्केचिन्मीनकुलोपमाः ॥१६७॥

बहुरूपा घोररूपा घोरस्वरनिनादिनः ।
तदा जलधराः सर्वे पूरयन्ति नभःस्थलम् ॥१६८॥

ततस्ते जलदा घोरा नवीना भास्करात्मिकाः ।
सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥१६९॥

ततस्ते जलदा वर्षं मुञ्चन्ति च महोद्यमम् ।
सुघोरमशिवं सर्व्वं नाशयन्ति च पावकम् ॥१७०॥

प्रवृष्टैश्च तथात्यर्थं वारिभिः पूर्य्यते जगत् ।
अद्भिस्तेजोऽभिभूतञ्च तदाग्निः प्राविशत्यपः ॥१७१॥

नष्टे चाग्नौ वर्षशते पयोदाः पाकसम्भवाः ।
प्लावयन्ति जगत्सर्वं बृहज्जालपरिस्रवैः ॥१७२॥

धाराभिः पूरयन्तीमं चोद्यमानाः स्वयम्भुवा ।
अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि ।
साद्रिर्द्वीपान्तरं पृथ्वी ह्यद्भिः संछाद्यते तदा ॥१७३॥

तस्य वृष्ट्या च तोयं तत्सर्व्वं हि परिमण्डितम् ।
प्रविशत्युदधौ विप्राः पीतं सूर्य्यस्य रश्मिभिः ॥१७४॥

आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।
पुनः पतति तद्भूमौ तेन पूर्य्यन्ति चार्णवाः ॥१७५॥

ततः समुद्राः स्वां वेलां परिक्रामन्ति सर्व्वशः ।
पर्व्वताश्च विशीर्य्यन्ते मही चाप्सु निमज्जति ॥१७६॥

ततस्तु सहसोद्भ्रान्तः पयोदांस्तान्नभस्तले ।
संवेष्टयति घोरात्मा दिवि वायुः समन्ततः ॥१७७॥

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
पूर्णे युगसहस्रे वै निःशेषः कल्प उच्यते ॥१७८॥

अथाम्भसा वृते लोके प्राहुरेकार्णवं बुधाः ।
अथ भूमितलं खञ्च वायुश्चैकार्णवे तदा ।
नष्टे भावेऽवलीनं तत्प्राज्ञायत न किञ्चन ॥१७९॥

पार्थिवास्त्वथ सामुद्रा आपो हैमाश्च सर्व्वशः ।
प्रसरन्त्यो व्रजन्त्येकं सलिलाख्यां भजन्त्युत ॥१८०॥

आगतागतिकं चैव तदा तत्सलिलं स्मृतम् ।
प्रच्छाद्य तिष्ठति महीमर्णवाख्यं च तज्जलम् ॥१८१॥

आभान्ति यस्मात्ता भाभिर्भाशब्दव्याप्तिदीप्तिषु ।
भस्म सर्व्वमनुप्राप्य तस्मादम्भो निरुच्यते ॥१८२॥

नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते ।
एकार्णवे तदा यो वै न शीघ्रास्तेन ता नराः ॥१८३॥

तस्मिन् युगसहस्रान्ते दिवसे ब्रह्मणो गते ।
तावन्तं कालमेवं तु भवत्येकार्णवं जगत् ।
तदा तु सर्व्वव्यापारा निवर्त्तन्ते प्रजापतेः ॥१८४॥

एवमेकार्णवे तस्मिन्नष्टे स्थावर जङ्गमे ।
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ॥१८५॥

सहस्रशीर्षा सुमनाः सहस्रपात् सहस्रचक्षुर्वदनः सहस्रवाक् ।
सहस्रबाहुः प्रथमः प्रजापतिस्त्रीयपथे यः पुरुषो निरुच्यते ॥१८६॥

आदित्यवर्णो भुवनस्य गोप्ता ह्यपूर्व्व एकः प्रथमस्तुराषाट्  ।
हिरण्यगर्भः पुरुषो महान् वै संपद्यते वै तमसः परस्तात् ॥१८७॥

चतुर्युगसहस्रान्ते सर्वतः सलिलप्लुते ।
सुषुप्सुरप्रकाशां स्वां रात्रिं तु कुरुते प्रभुः ॥१८८॥

चतुर्विधा यदा शेते प्रजाः सर्व्वाण्डमण्डिताः ।
पश्यन्ते तं महात्मानं कालं सप्त महर्षयः ॥१८९॥

जनलोकविवर्त्तन्तस्तपसा लब्धचक्षुषः ।
भृग्वादयो महात्मानः पूर्व्वे व्याख्यातलक्षणाः ॥१९०॥

सत्यादीन् सप्तलोकान् वै ते हि पश्यन्ति चक्षुषा ।
ब्रह्माणं ते तु पश्यन्ति महाब्राह्मीषु रात्रिषु ॥१९१॥

सप्तर्षयः प्रपश्यन्ति सप्तकालं स्वरात्रिषु ।
कल्पानां परमेष्ठित्वात्तस्मादाद्यः स पठ्यते ॥१९२॥

स यष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।
एवमावेशयित्वा तु स्वात्मन्येव प्रजापतिः ॥१९३॥

अथात्मनि महातेजाः सर्वमादाय सर्वकृत् ।
ततस्ते वसते रात्रिं तमस्येकार्णवे जले ॥१९४॥

ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः ।
मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः ॥१९५॥

एवं सलोके निर्वृत्ते उपशान्ते प्रजापतौ ।
ब्रह्मनैमित्तिके तस्मिन् कल्पिते वै प्रसंयमे ॥१९६॥

देहैर्वियोगः सत्वानां तस्मिन् वै कृत्स्नशः स्मृतः ।
ततो दग्धेषु भूतेषु सर्व्वेष्वादित्यरश्मिभिः ।
देवर्षिमनुवर्य्येषु तस्मिन् सङ्कलने तदा ॥१९७॥

गन्धर्वादीनि सत्वानि पिशाचान्तानि सर्व्वशः ।
कल्पादावप्रतप्तानि जनमेवाश्रयन्ति वै ॥१९८॥

तिर्यग्योनीनि सत्वानि नारकेयानि यान्यपि ।
तदा तान्यपि दग्धानि धुतपापानि सर्व्वशः ।
जने तान्युपपद्यन्ते यावत्संप्लवते जगत् ॥१९९॥

व्युष्टायान्तु रजन्यां तु ब्रह्मणेऽव्यक्तयोनये ।
जायन्ते हि पुनस्तानि सर्व्वभूतानि कृत्स्नशः ॥२००॥

॥ऋषयो मनवो देवाः प्रजाः सर्व्वश्चतुर्विधाः ।
तेषामपीह सिद्धानां निधनोत्पत्तिरुच्यते ॥२०१॥

यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमनं स्मृतम् ।
तथा जन्मनिरोधश्च भूतानामिह दृश्यते ॥२०२॥

आभूतसंप्लवात्तस्माद्भवः संसार उच्यते  ।
यथा सर्व्वाणि भूतानि जायन्ते हि वर्षास्विह ॥२०३॥

स्थावरादीनि सत्त्वानि कल्पे कल्पे तथा प्रजाः ।
यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्य्यये ॥२०४॥

दृश्यन्ते तानि तान्येव तथा ब्रह्मात्तरात्रिषु  ।
प्रत्याहारे च सर्गे च गतिमन्ति ध्रुवाणि च ॥२०५॥

निष्क्रमन्ते विशन्ते च प्रजाकारं प्रजापतिम् ।
ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम् ॥२०६॥

संस्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।
व्यक्ता व्यक्तो महादेवस्तस्य सर्वमिदं जगत् ॥२०७॥

येनैव सृष्टाः प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन् ।
पूर्वप्रयातेन तथा ह्यपोऽन्यास्तेनैव तेनैव तु संव्रजन्ति ॥२०८॥

यथा शूभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्त्तमानाः ।
मर्त्यास्तु देहान्तरभावितत्त्वाद्रवेर्वशादूर्द्ध्वमधश्चरन्ति ॥२०९॥

ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः ।
सद्भाविताख्यातिवशाच्च धर्म्म्याः पुनर्निसर्गेण भवन्ति सत्त्वाः ॥२१०॥

अत ऊर्द्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम् ।
मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः ।
सह प्रज्ञानिसर्गेण सह देवैश्चतुर्द्दश ॥२११॥

स युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै  ।
अस्याः सहस्रे द्वे पूर्णे निःशेषः कल्प उच्यते ॥२१२॥

एतद्ब्राह्ममहो ज्ञेयं तस्य संख्यां निबोधत ।
निमेषस्तुल्य मात्रा हि कृतो लघ्वक्षरेण तु ॥२१३॥

मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृता ।
लवः क्षणास्तु पञ्चैव विंशत्काष्ठा तु ते त्रयः ॥२१४॥

प्रस्थः सप्तोदकाश्चैव साधिकास्तु लवः स्मृतः ।
लवास्त्रिंशत्कला ज्ञेयै मुहूर्तस्त्रिंशतः कलाः ॥२१५॥

मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः ।
अहोरात्रं कलानान्तु व्यधिकानि शतानि षट् ॥२१६॥

ताश्चैव संख्याया ज्ञेयं चन्द्रादित्यगतिर्यथा ।
निमेषा दश पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥२१७॥

त्रिंशत्कला मुहूर्त्तस्तु दशभागः कला स्मृता ।
चत्वारिंशत्कलानान्तु मुहूर्त्त इति संज्ञतः ॥२१८॥

मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः ।
तत्स्थाने नाम्भसाश्चापि पलान्यथ त्रयोदश ॥२१९॥

मागधेनैव मानेन जलप्रस्थो विधीयते ।
एते चाप्युदकप्रस्थाश्चत्वारो नालिको धटः ॥२२०॥

हेममाषैः कृतच्छिद्रै श्चतुर्भिश्चतुरङ्गुलैः.
समाहनि च रात्रौ च मुहूर्त्तो वै द्विनालिकौ ॥२२१॥

रवेर्गतिविशेषेण सर्वेषु नृषु नित्यशः ।
अधिकं षट् शतं पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥२२२॥

तदहर्मानुषं ज्ञेयं नाक्षत्रन्तु दशाधिकम् ।
सावनेन तु मासेन ह्यब्दोऽयं मानुषः स्मृतः ॥२२३॥

एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः ।
अह्नाऽनेन तु या संख्या मासर्त्वयनवार्षिकी ॥२२४॥

तदा बद्धमिदं ज्ञानं संज्ञा या ह्युपलक्ष्यताम् ।
कलानां सुपरीमाणात्काल इत्यभिधीयते ॥२२५॥

यदहर्ब्रह्मणः प्रोक्तं दिव्या कोटी तु तत् स्मृत ।
शतानाञ्च सहस्राणि दशद्विगुणतानि च ।
नवतिञ्च सहस्राणि तथैवान्यानि यानि तु ॥२२६॥

एतच्छ्रुत्वा तु ॥ऋषयो विस्मयं परमाद्भुतम् ।
संस्थासम्भजनं ज्ञानमपृच्छन्नन्तरन्तदा ॥२२७॥

॥ऋषय ऊचुः॥

संप्लावनस्य कालन्तु मानुषेणैव सम्मतम् ।
मानेन श्रोतुमिच्छामः संक्षेपार्थपदाक्षरम् ॥२२८॥

तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः ।
संक्षेपाद्दिव्यचक्षुष्मान् प्रोवाच भगवान् प्रभुः ॥२२९॥

एते रात्र्यहनी पूर्वं कीर्त्तिते त्विह तौकिके ।
तासां सङ्ख्याय वर्षाग्रं ब्राह्यं वक्ष्याम्यहःक्षये ॥२३०॥

कोटिशतानि चत्वारि वर्षाणि मानुषाणि तु ।
द्वात्रिंशच्च तथा कोट्यः सङ्ख्याताः सङ्ख्यया द्विजैः ॥२३१॥

तथा शतसहस्राणि एकोननवतिः पुनः ।
आशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥२३२॥

मानुषाख्येण सङ्ख्यातः कालो ह्याभूतसंप्लवः ।
सप्त सूर्य्यास्तदाऽग्रेषु तदा लोकेषु तेषु वै ॥२३३॥

महाभूतेषु लीयन्ते प्रजाः सर्व्वाश्चतुर्विधाः  ।
सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे ॥२३४॥

विनिवृत्ते च संहारे उपशान्ते प्रजापतौ ।
निरालोके प्रदग्धे तु नैशेन तु समावृते  ।
ईश्वराधिष्ठिते ह्यस्मिंस्तदा ह्येकार्णवे तदा ॥२३५
तावदेकार्णवो ज्ञेयो यावदासीदहः प्रभोः  ।
रात्रिस्तु सलिलावस्था निवृत्तौ चाप्यहः समृतम् ॥२३६॥

अहोरात्रस्तथैवास्य क्रमेण परिवर्त्तते ।
आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ॥२३७॥

त्रैलोक्ये यानि सत्वानि गतिमन्ति ध्रुवाणि च ।
आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः ॥२३८॥

अग्रे भूतः प्रजानान्तु तस्माद्भूतः प्रजापतिः ।
आभूतः प्लवते चैव तस्मादाभूतसंप्लवः ॥२३९॥

शाश्वते चामृतत्वे च शब्दे चाभूतसंप्लवः ।
अतीता वर्त्तमानाश्च तथैवानागताः प्रजाः ।
दिव्यसङ्ख्या प्रसङ्ख्याता ह्यपरार्धगुणीकृता ॥२४०॥

परार्धद्विगुणञ्चापि परमायुः प्रकीर्त्तितम् ।
एतावान् स्थितिकालस्तु ह्यजस्येह प्रजामतेः ।
स्थित्यन्ते प्रतिसर्गस्य ब्रह्मणः परमेष्ठिनः ॥२४१॥

यथा वायुप्रवेगेन दीपार्चिरुपशाम्यति ।
तथैवं प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥२४२॥

तथा ह्यप्रतिसंसृष्टे महदादौ महेश्वरे॥

महत्प्रलीयतेऽव्यक्ते गुणसाम्यं ततो भवेत् ॥२४३॥

इत्येष च समाख्यातो मया ह्याभूतसंप्लवः ।
ब्रह्मनैमित्तिको ह्येष संप्रक्षालनसंयमः ॥२४४॥

समासेन समाख्यातो भूयः किं वर्त्तयामि वः ।
य इदं धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः  ।
कीर्त्तनाच्छ्रवणाच्चापि महतीं सिद्धिमाप्नुयात् ॥२४५॥

इति श्रीमहापुराणे वायुप्रोक्ते मन्वन्तरकथनं नाम अष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP